| YouTube Channel

छायापुरुष (chAyApuruSa)

 
Spoken Sanskrit
English
छायापुरुष chAyApuruSa
m.
puruSa in the form of a shadow
Monier Williams Cologne
English
छाया—पुरुष
m.
Puruṣa in the form of a shadow, Tantr.
Shabdartha Kaustubha
Kannada
छायापुरुष
पदविभागः - > पुल्लिङ्गः
कन्नडार्थः - > ಗುರೂಪದೇಶಕ್ರಮದಲ್ಲಿ ಅಭ್ಯಾಸ ಬಲದಿಂದ ನೋಡಬಹುದಾದ ಪುರುಷಾಕೃತಿಯುಳ್ಳ ವಸ್ತು
व्युत्पत्तिः - > छायायां दृश्यः पुरुषः
शब्दकल्पद्रुमः
Sanskrit
छायापुरुषः,
पुं,
(छायायां दृष्टः पुरुषः पुरुषा-कृतिविशेषः ।) आकाशेदृष्टः स्वीयच्छायारूपपुरुषः यथा, --श्रीदेव्युवाच ।“भगवन् ! देवदेवेश ! सर्व्वागमविशारद ! ।नराणां पापिनां लोके पापनिर्म्मोचनं कथम्
कालज्ञानं कथं वा स्यात् सूक्ष्मोपायेन तद्वद ।श्रुतानि साधनानीश ! मयानेकानि भूरिशः
तथापि तानि मनुजैरशक्यान्यल्पबुद्धिभिः ।प्रायेण मनुजा लोके कलौ स्वल्पायुषो ध्रुवम्
अनेकवर्षसाध्येऽस्मिन् योगाभ्यासे ह्यशक्तयः
शिव उवाच ।साधु देवि ! त्वया पृष्टं लोकानां हितकाम्यया ।तादृशं साधनं वक्ष्ये सर्व्वसाधारणं लघु
गोपनीयं प्रयत्नेन वाच्यं वै कथञ्चन ।सिद्धाय भक्तियुक्ताय सेवकाय सुचेतसे
पापिने क्रूरचेष्टाय भक्तिहीनाय भामिनि ! ।न वदेद्यदि वा मोहात् वदेत् सिद्धिं विन्दति
तस्मात् परीक्ष्य वक्तव्यं शिष्याय ज्ञानिने शिवे ! ।स्वच्छायापुरुषं पश्येद्गगने शुद्धमानसः
तस्यावलोकनात् सद्यः पापराशिर्व्विनश्यति ।महापातकसङ्घैश्च तत्समैश्चोपपातकैः
विमुच्यते क्षणार्द्धेन तूलराशिर्यथानलात् ।कालज्ञानञ्च षण्मासे तस्मिन् दृष्टे भवेद्ध्रुवम्
देव्युवाच ।अतश्छायां कथं पश्येद्गगने भूतलस्थिताम् ।षण्मासकालज्ञानञ्च तस्मिन् दृष्टे कथं भवेत्
शिव उवाच ।निरभ्रं गगनं देवि ! यदा भवति निर्म्मलम् ।तदा छायामुखो भूत्वा निश्चलं प्रयतो घिया
स्वच्छायाकण्ठमालोक्य स्वगुरूक्तक्रमेण वै ।सम्मुखं गगनं पश्येन्निर्निमेषस्तथैकधीः
शुद्धस्फटिकसङ्काशः पुरुषस्तत्र दृश्यते ।न दृश्यते यदा तत्र पुनस्तद्वत् परीक्षयेत्
बहुधा दर्शनेनैव साक्षात्कारो भवेद् ध्रुवम् ।कस्यचिद् भाग्यतः पश्येद् यदि विम्बोऽक्षिगोचरः ।भवत्येव सन्देहो गुरुविश्वासतः शिवे ! ।गुरुं सम्यक् पूजयित्वा पश्येच्छायां समाहितः
तथा षण्मासपर्य्यन्तं मृत्युस्तस्य विद्यते ।शिरोहीनं यदा पश्येत् षण्मासाभ्यन्तरे मृतिः
यदा पादौ दृश्येते भार्य्याहानिर्न संशयः ।न दृश्येते यदा पाणी भ्रातुर्हानिर्न संशयः
एतज्ज्ञात्वा सुधीः सम्यक् गङ्गातीरं समाश्रयेत् ।योगाभ्यासेन सततं प्राणायामेण संस्मृतिः
यथा वा सत्समीपस्थो लक्षं मृत्युञ्जयं जपेत् ।यो भुक्तो हविष्याशी यतवाग् यतमानसः
मृत्युञ्जयेन्न सन्देहो ह्यन्यथा मृत्युमृच्छति ।यदा तु मलिनं पश्येत् ज्वरपीडा भवेत्तदा
तस्य शान्तिं प्रकुर्व्वीत शिवसेवां समाहितः ।रक्तवर्णं यदा पश्येदैश्वर्य्यं भवति ध्रुवम्
मध्यच्छिद्रं यदा पश्येत् शत्रुघातो भवेत्तदा ।एवं सन्दर्शनाद् देवि ! ज्ञानवान् भवति ध्रुवम्
नारदाय पुरा प्रोक्तं मया पुरुषदर्शनम् ।तत्प्रसादान्महायोगी भूत्वा लोकांश्चरत्यसौ
स्वच्छायादर्शनं देवि ! कलौ पुरुषलक्षणम् ।दीर्घायुः समवाप्नोति ज्ञानञ्चापि सुनिर्म्मलम्
”इति योगप्रदीपिकायां उमामाहेश्वरसंवादेछायापुरुषलक्षणं नाम पञ्चमः पटलः
*
“ओमस्य श्रीच्छायापुरुषग्रहणमन्त्रस्य ब्रह्मर्षि-र्बृहद्गायत्त्री छन्दः छायादेवी देवताः हांबीजं स्वाहा शक्तिः पुरुष इति कीलकं सर्व्व-सिद्धिसन्दर्शनसिद्ध्यर्थे जपे विनियोगः हामि-त्यादि षडङ्गन्यासः
मायया मायया लोँ लोँहीँ माया शिवविचार्य्या ऋषयः ओँ हीँ अंगां सरस्वति ओँ नमो भगवते भूतशरीर-मात्मानमाकाशे दर्शय दर्शय त्राँ त्राँ त्राँ हीँभैरवाय नमः स्वाहा इति मन्त्रः
पादाभावे पुत्त्रं वा बाह्वभावे बान्धवम् ।आत्मानं शिरसोऽभावे सर्व्वाभावे कुलक्षयम्
विशीर्णे विधृते धूते कुम्भे धूमे विज्वरम् ।दुर्भिक्षं जायते घोरं कज्जले पराङ्मुखे
संपूर्णे मुखे सूक्ष्मे क्षेमलाभं सुसिद्धये ।हीने रक्ते जये शीते उष्णे मृत्युर्न संशयः
पतिभीतिं शस्त्रघातमिति वेदविदो विदुः ।मृत्युञ्जयं जपन्नेव शान्तिस्तस्य विधीयते
षण्मासे मरणं तस्य शीर्षाद्यपचये विदुः
अथ मृत्युञ्जययन्त्रम् ।“प्रथमं प्रणवमालिख्य तन्मध्ये साध्यनामकम् ।बहिरष्टदलं पद्मं यान्तान्तं वसुपत्रके
विलेखेत् सहकारञ्च केशरेषु सुशोभितम् ।तद्वहिश्चन्द्रवृत्तं स्यात् षोडशस्वरकं लिखेत्
द्वारं भूपुरमालिख्य चतुर्द्वारञ्च वारुणम् ।पाथेयञ्च चतुष्कोणं चक्रं मृत्युञ्जयं भवेत्
ज्वरादिसर्व्वरोगादिदाहशान्तिकरं परम् ।मृत्युञ्जयं महाचक्रं सर्व्वरक्षाकरं नृणाम्
”अथ ध्यानम् ।“चन्द्रार्काग्निविलोचनं स्मितमुखं पद्मद्वयान्तः-स्थितंमुद्रापाशमृगाक्षसूत्रविलसत्पाणिं हिमांशु-प्रभम् ।कोटीरेन्दुगलत्सुधाप्लुततनुं हारादिभूषोज्ज्वलंकान्त्या विश्वविमोहनं पशुपतिं मृत्युञ्जयंभावयेत्
*
नत्वा तातगुरुं शिवं मणपतिं मन्त्रं जपेत्सर्व्वदा ।खे लक्षेत् सततं विलोकनषशं शुक्ले रवौप्रत्यहम्
खे विलोकनमन्त्रस्तु ।ओँ ह्रीँ भूचरी खेचरी आत्मानमाकाशेदर्शय सर्व्ववृत्तान्तं कथय कथय हुं फट् स्वाहा ।यः पश्येत् सर्व्वगं शान्तमात्मानं सत्यमद्वयम् ।न तेन किञ्चिद्ध्यातव्यं ज्ञातव्यं वावशिष्यते
”इति योगप्रदीपिकायां छायापुरुषोपदेशोनाम षष्ठः पटलः
वाचस्पत्यम्
Sanskrit
छायापुरुष
पु०
छायायां दृश्यः पुरुषः पुरुषाकृतिः आकाशेद्रष्टव्ये निजच्छायानुरूपे पुरुषाकृतियुक्ते पदार्थे ।तद्दर्शनोपायमाह योगप्रदीपिकायाम् पटले“शिव उवाच निरभ्रं गगनं देवि! यदा भवति निर्म्म-लम् तदा छायामुखो भूत्वा निश्चलः प्रयतो धिया ।स्वच्छायाकल्पमालोक्य स्वगुरूक्तक्रमेण वै सम्मुखंगगनं पश्येन्निर्निमेषस्तथैकधीः शुद्धस्फटिकसङ्काशःपुरुषस्तत्र दृश्यते दृश्यत यदा तत्र पुनस्तद्वत् परी-क्षयेत् बहुधा दर्शनेनैव साक्षात्कारो भवेत् ध्रुवम् ।कस्यचित् भाग्यतो दृश्यो यदि विम्बोऽक्षिगोचरः भव-त्येव सन्देहो गुरुविश्वासतः शिवे! गरुं सम्यक्पूजयित्वा पश्येच्छायां समाहितः तथा षण्मासप-र्य्यन्तं मृत्युस्तस्य विद्यते शिरोहीनं यद्रा पश्येत्षण्मासाभ्यन्तरे मृतिः यदा पादौ दृश्येते भार्य्या-हानिर्न संशयः दृश्येते यदा पाणी भ्रातुर्हानिर्नसंशयः एतज् ज्ञात्वा सुधीः सम्यक् गङ्गातीरं समा-श्रयेत् योगाभ्यासेन सततं प्राणायामेन संस्कृतः ।यथा वा सत्समीपस्थो लक्षं मृत्युञ्जयं जपेत् योह्यभुक्तो हविष्याशी यतवाग्यतमानसः मृत्युञ्जयेन्नसन्देहो अन्यथा मृत्युमृच्छति यदा तु मलिनं पश्येत्ज्वरपीडा भवेत्तदा तस्य शान्तिं प्रकुर्व्वीत शिवसेवांसमाहितः रक्तवर्णं यदा पश्येदैश्वर्थ्यं भवति ध्रुवम् ।मध्यच्छिद्रं यदा पश्येत शत्रुघातो भवेत्तदा एवंसन्दशनं दवि! ज्ञानवान् भवति ध्रुवम नारदायपुरा प्रोक्तं मया पुरुषदर्शनम तत्प्रसादान्महा-योगी भूत्वा लोकांश्चरत्यसौ स्वच्छायादर्शन देवि ।कलौ पुरुषलक्षणम् दीर्घायुः समवाप्नोति ज्ञानञ्चापिसुनिर्मलम्”