| YouTube Channel

छलं (chalaM)

 
शब्दकल्पद्रुमः
Sanskrit
छलं,
क्ली,
(छो + वृषादित्वात् कलच् यद्वा, छल +अच् ।) स्खलितम् शाठ्यम् इति मेदिनी ।ले, १७
(यथा, मनुः ४९ ।“धर्म्मेण व्यवहारेण च्छलेनाचरितेन ।प्रयुक्तं साधयेदर्थं पञ्चमेन बलेन
”व्याजः यथा, मार्कण्डेये २५ १० ।“सा वै मदालसा पुत्त्रं बालमुत्तानशायिनम् ।उल्लापनच्छलेनाह रुदमानमविस्वरम्
”तात्पर्य्यान्तरेण प्रयुक्तस्य शब्दस्यार्थान्तरेणकथनम् यथा, अक्षपादसूत्रे ५० ।“वचनविधातोऽर्थविकल्पोपपत्त्या च्छलम्
”“अर्थस्य वाद्यभिमतस्य यो विकल्पो विरुद्धःकल्पः अर्थान्तरकल्पनेति यावत् तदुपपत्त्यायुक्तिविशेषेण यो वचनस्य बाद्युक्तस्य विघातोदूषणं तच्छलमित्यर्थः वक्तृतात्पर्य्याविषयार्थ-कल्पनेन दूषणाभिधानमिति फलितम् तात्-पर्य्याविषयत्वं विशेष्ये विशेषणे संसर्गे वा यथा, नेपालादागतोऽयं नवकम्बलवत्त्वादित्यत्र नव-संख्यापरत्वकल्पनयाऽसिद्ध्यभिधानम् प्रमेयंधर्म्मत्वादित्यत्र पुण्यत्वार्थकल्पनया भागासिद्ध्य-भिधानम् वह्निमान् धूमादित्यत्र धूमावयवेव्यभिचाराभिधानम् तत्त्रिविधम् वाक्छलंसामान्यच्छलमुपचारच्छलञ्च
“छलं नामपरिशठमर्थाभासमपार्थकं वाग्वस्तुमात्रमेव ।तद्द्विविधं वाक्छलं सामान्यच्छलञ्च तत्र वाक्-छलं नाम यथा कश्चिद्ब्रूयात् नवतन्त्रोऽयंभिषगितिभिषग् ब्रूयात् नाहं नवतन्त्र एकतन्त्रो-ऽहमिति परो ब्रूयात् नाहं ब्रवीमि नवतन्त्राणि तवेति अथतु नवाभ्यस्तं ते तन्त्रमितिभिषग् ब्रूयात् मया नवाभ्यस्तं तन्त्रं अनेक-शताभ्यस्तं मया तन्त्रमिति एतद्वाक्छलम् ।सामान्यच्छलं नाम यथा, व्याधिप्रशमनायौषध-मित्युक्ते परो ब्रूयात् सत् सत्प्रशमनायेति भवा-नाह सत्रोगः सदौषधं यदिच सत्प्रशमनायभवति सत्कासः सत्क्षयः सत्सामान्यात् कासस्तेक्षयप्रशमनाय भविष्यतीति एतत्सामान्य-छलम्
इति चरके विमानस्थाने अष्टमेअध्याये
)