| YouTube Channel

च्युस (cyusa)

 
शब्दसागरः
English
च्युस r. 10th cl. (च्वोसयति-ते)
1. To laugh.
2. To bear.
3. To loose.
4. To
hurt or kill. चु-उभ-अक-सेट्
Wilson
English
च्युस r. 10th cl. (च्चोसयति)
1 To laugh.
2 To bear.
3 To loose.
4 To hurt or kill.
धातुपाठः (Krishnacharya)
Sanskrit
धातुः:
च्युस्
मूलधातुः:
च्युस
धात्वर्थः:
हसने
गणः:
चुरादिः
कर्मकत्वं:
अकर्मकः
इट्त्वं:
सेट्
उपग्रहः:
उभयपदी
रूपम्:
च्योसयति-ते
शब्दकल्पद्रुमः
Sanskrit
च्युस, हानौ इति कविकल्पद्रुमः
(चुरां-परं-अकं-सेट् ।) क्वचित् पुस्तके हासे अन्तः-स्थादियुक्तः क, च्योसयति इति दुर्गादासः
वाचस्पत्यम्
Sanskrit
च्युस हानौ हसने
चु०
उभ०
अक० सेट् च्योसयति तेअचुच्युसत्
कृदन्तरूपमाला
Sanskrit
1 {@“च्युस सहने”@} 2 ‘च्यु सहने’ इत्यस्य पाठभेदोऽयम्।
च्योसकः-सिका, चुच्योसयिषकः-षिका
च्योसयिता-त्री, चुच्योसयिषिता-त्री
च्योसयन्-न्ती, चुच्योसयिषन्-न्ती
च्योसयिष्यन्-न्ती-ती, चुच्योसयिषिष्यन्-न्ती-ती
च्योसयमानः, चुच्योसयिषमाणः
च्योसयिष्यमाणः, चुच्योसयिषिष्यमाणः
3 सुच्यूः-सुच्युसौ-सुच्युसः
-- च्योसितः-तम्, चुच्योसयिषितः-तवान्
च्योसः, चुच्योसयिषुः
4 च्योसयितव्यम्, चुच्योसयिषितव्यम्
च्योसनीयम्, चुच्योसयिषणीयम्
च्योस्यम्, चुच्योसयिष्यम्
ईषच्च्योसः-दुश्च्योसः-सुच्योसः
-- च्योस्यमानः, चुच्योसयिष्यमाणः
च्योसः, चुच्योसयिषः
च्योसयितुम्, चुच्योसयिषितुम्
च्योसना, चुच्योसयिषा
च्योसनम्, चुच्योसयिषणम्
च्योसयित्वा, चुच्योसयिषित्वा
प्रच्योस्य, प्रचुच्योसयिष्य
च्योसम् २, च्योसयित्वा २, चुच्योसयिषम् चुच्योसयिषित्वा
प्रासङ्गिक्यः
01
=>
(५६०)
02
=>
(१०-चुरादिः-१७४७। सक। सेट्। उभ।)
03
=>
[[१। सकारस्य, ‘ससजुषो रुः’ (८-२-६६) इति रुत्वे, ‘र्वोरुपधाया दीर्घ इकः’ (८-२-७६) इत्युपधाया दीर्घः। तदनन्तरं विसर्गः।]]
04
=>
[पृष्ठम्०५३४+ ३०]