चैतन्यः (caitanyaH)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
Wordnet
Sanskrit चैतन्यः, चैतन्य-महाप्रभुः, चैतन्य-प्रभुः, कृष्णचैतन्यः, गौराङ्गमहाप्रभुः, गौडेश्वरः
बङ्गालप्रान्तीयः ख्यातः वैष्णवः महात्मा।
"चैतन्यः भ्रमणं कृत्वा प्रभुलीलायाः वर्णनम् अकरोत्।"
शब्दकल्पद्रुमः
Sanskritचैतन्यः, (चेतन एव । स्वार्थे ष्यञ् ।) भगवदवतारविशेषः । तस्य प्रमाणं यथा, --“श्रुत्वा तु कलिधर्म्मांस्तान् ब्रह्मा लोकपितामहः ।सर्व्वलोकहितार्थाय प्रोवाच मधुसूदनम् ॥
भविष्यति कलौ केनोपायेन धर्म्मपालनम् ।भक्तिमार्गस्थितिः कस्मात्तद्बदस्व जगद्गुरो ! ॥
श्रीभगवानुवाच ।अवतीर्णो भविष्यामि कलौ निजगणैः सह ।शचीगर्भे नवद्वीपे स्वर्धुनीपरिवारिते ॥
अप्रकाश्यमिदं गुह्यं न प्रकाश्यं वहिर्मुखे ।भक्तावतारं भक्ताख्यं भक्तं भक्तिप्रदं स्वयम् ॥
मन्मायामोहिताः केचिन्न ज्ञास्यन्ति वहिर्म्मुखाः ।ज्ञास्यन्ति मद्भक्तियुताः साधवो न्यासिनोऽमलाः ॥
कृष्णावतारकाले याः स्त्रियो ये पुरुषाः प्रियाः ।कलौ तेऽवतरिष्यन्ति श्रीदामसुवलादयः ॥
चतुःषष्टिर्महान्तस्ते गोपा द्वादश बालकाः ।धर्म्मसंस्थापनार्थाय विहरिष्यामि तैरहम् ॥
काले नष्टं भक्तिपथं स्थापयिष्याम्यहं पुनः ।कृष्णश्चैतन्यगौराङ्गो गौरचन्द्रो गौरहरिः ॥
शचीसुतः प्रभुर्गौरो नामानि भक्तिदानि मे ।गच्छन्तु भुवि ते पुत्त्रा जायन्तां भक्तरूपिणः ॥
धर्म्मसंस्थापनं काले कुर्व्वन्तु ते ममाज्ञाया ।कृष्णावतारकाले ये मद्भक्तास्तान् शृणु क्रमात् ॥
श्रीदामनामगोपालो मम रामस्य च प्रियः ।अभिराम इति ख्यातः पृथिव्यां स भविष्यति ॥
सुदामनामगोपालः श्रीमान् सुन्दरठक्कुरः ।वसुदामप्रियसखः श्रीधनञ्जयपण्डितः ॥
सुबलो मे प्रियसखो गौरीदासाख्यपण्डितः ।कमलाकरपिप्पलाइः पूर्व्वख्यातो महाबलः ॥
महाबाहुर्गोपबालः श्रीमान् साहसपण्डितः ॥
पुरुषोत्तमो वैश्यकुले स्तोककृष्णः प्रियो मम ।अर्ज्जुनः पूर्व्वदेहे यः कलौ श्रीपरमेश्वरः ॥
पूर्व्वप्रियो लवङ्गो मे कृष्णाख्यः स कलौ युगे ।श्रीधरः श्रीधरसमः पूर्व्वे श्रीमधुमङ्गलः ॥
सुबलो बलरामसखः कलौ श्रीलहलायुधः ।द्वादशैते भविष्यन्ति कलौ मद्धर्म्मरक्षणे ॥
चतुःषष्टिर्महान्तो ये स्त्रियः केचिच्च पूरुषाः ।पुरा गोपाङ्गनाः ख्याताः कलौ ताः पुरुषा भुवि ॥
यतिर्यस्मात् कलौ चाहं तदर्थे पुरुषाः स्त्रियः ।नीलाम्बरश्चक्रवर्त्ती गर्गः ख्यातो मुनिः पुरा ॥
अतिप्रिया राधिका मे श्रीगदाधरपण्डितः ।राधिकायाः प्रियांशः स श्रीगदाधरठक्कुरः ॥
मधुमती प्रियसखी श्रीनरहरिसंज्ञकः ।वृन्दा देवी प्राणसखी श्रीमुकुन्दः कलौ युगे ॥
चन्द्रावली प्राणतुल्या कविराजः सदाशिवः ।ललिता या सखी मुख्या जगदानन्दपण्डितः ॥
विशाखा या प्रियसखी श्रीदामोदरनामकः ।वनमाली कविराजः श्रीविशाखा सखी मम ॥
श्रीरघुनाथभट्टश्च रङ्गदेवी मम प्रिया ।श्रीगदाधरभट्टस्तु सुदेवी सा मम प्रिया ॥
प्रबोधानन्दविख्यातस्तुङ्गविद्या तथा प्रिया ।श्रीलराघवगोस्वामी चम्पकाख्या लता प्रिया ॥
गोस्वामी श्रीलभूगर्भ इन्दुलेस्वा तथा प्रिया ।काशिमिश्रः शशिरेखा रूपः श्रीरूपमञ्जरी ॥
श्रीसनातनगोस्वामी प्रिया श्रीरतिमञ्जरी ।श्रीरघुनाथदासः श्रीस्वरूपमञ्जरी मम ॥
द्वितीयो रघुनाथश्च श्रीरागमञ्जरी प्रिया ।श्रीलगोपालभट्टः श्री-अनङ्गमञ्जरी सखी ॥
लोकनाथः प्रेमभक्तो लवङ्गमञ्जरी सखी ।श्रीगदाधरभट्टस्तु प्रिया श्रीगुणमञ्जरी ॥
भट्टः श्रीजीवगोस्वामी योगमाया सहाथिनी ।दूती कलावती प्रेष्या श्रीगोविन्दः प्रियो मम ॥
दूती लीलावती श्रीमान् माधवः प्रीतिवर्द्धनः ।वासुघोषाभिधो दूती ममानन्दप्रदायिनी ॥
श्रीशिवानन्दभार्य्या सा मत्प्रियेन्दुमती सखी ।श्रीपरमानन्दपुरि प्रियो मे उद्धवः सखा ॥
श्रीलराघवदासस्तु धनिष्ठा मे प्रिया सखी ।शुक्लाम्बरो ब्रह्मचारी याज्ञिको ब्राह्मणः स्मृतः ॥
पण्डितो जगदीशश्च यज्ञपत्नी मम प्रिया ।आचार्य्यः श्रीलभगवान् श्रीचैतन्यप्रियांशभाक् ॥
पण्डितो गरुडः श्रीमान् गरुडो मम वाहनः ।श्रीलगोपीनाथसिंहोऽक्रूरो भक्तो मम प्रियः ॥
घोषः शङ्कर आख्यातो गुणसागररायकः ।माधवः शान्तनुमुनिर्विश्वकर्म्मा तु भास्करः ॥
वनमाली सुदामा च सार्व्वभौमो बृहस्पतिः ।प्रिया इन्दुमुखी या मे मकरध्वजविश्रुतः ॥
सिंहानन्दो लोकनाथः कविचन्द्रस्ततः परम् ।श्रीनाथो रामनाथश्च चत्वारः सनकादयः ॥
काशिमिश्रस्तु कुब्जा स्याद्रामानन्दोऽर्ज्जुनः सखा ।प्रतापरुद्रः ख्यातोऽसाविन्द्रद्युम्नो महीपतिः ॥
ठक्कुरश्च कालिदासः पुलिन्दीवनचारिणी ।शिखीचराधिका दासी मा इति ख्यातिसंयुता ॥
आचार्य्यगोपीनाथश्च रत्नावती मम प्रिया ।शार्ग्गदासः पद्मिनी स्यात् सूर्य्यो विश्वेश्वरः स्मृतः ॥
भानुमती सत्यराजो रामानन्दः कलावती ।जयश्च विजयश्चैव गोविन्दो गरुडस्तथा ॥
आचार्य्यरत्नश्चन्द्रः स्याद्ब्यासो वृन्दावनः स्मृतः ।शुकदेवा व्यासपुत्त्रो भट्टो वल्लभ ईरितः ॥
शिवानन्दोऽब्जज इव देवानन्दश्च भार्गवः ।पण्डितः श्रीजगन्नाथो दुर्व्वासा मुनिरुच्यते ॥
आचार्य्यः श्री-अनन्तश्च हरिदासस्तथैव च ।एता गोप्यो व्रजे ख्याता हृदयानन्द एव च ॥
प्रियाश्चतुःषष्टिरेते धर्म्मसंस्थापने कलौ ।एतेषां पुण्यनामानि ये स्मरन्ति दिने दिने ॥
ते प्राप्नुवन्ति मद्भक्तिं पुनन्ति भुवनत्रयम् ।मद्भक्तदासा ये मर्त्या नास्ति तेषां समः क्वचित् ॥
श्रुत्वा भगवतो वाक्यं ब्रह्मा हर्षमवाप्तवान् ।स्तौति तं देवदेवेशं नेदुर्दन्दुभयस्तदा ॥
जगुर्गन्धर्व्वप्रवरास्तुम्बुरुप्रमुखास्तदा ॥
”इत्यनन्तसंहितायां श्रीचैतन्यजन्मखण्डे सप्त-पञ्चाशत्तमोऽध्यायः ॥
* ॥
अपि च ।“यः सत्ये सितवर्णमादधदसौ श्रीशुक्लनामाभवत्त्रेतायां मखभुक् मखाख्य उचितोऽभूद्रक्तवर्णंदधत् ।यः श्यामं दधदाशु वर्णकममुं श्यामो युगे द्बापरेसोऽयं गौरविधुर्व्विभाति कलयन्नामावतारं कलौ ॥
नित्यानन्दो भक्तरूपो व्रजे यः श्रीहलायुधः ।भक्तावतार आचार्य्योऽद्वैतो थः श्रीसदाशिवः ॥
”इति गौरगणोद्देशः ॥
(अयमेव भगवांश्चैतन्यदेवो नवीनवैष्णवसम्प्र-दायविशेषस्य प्रवर्त्तकस्तत्सम्पदायैश्चोपास्येष्ट-देवत्वेनासौ परिगृहीतश्च । असौ एव वृन्दावन-रमण-श्रीकृष्णस्य पूर्णावतार इति केचित्, परैस्तुप्रामाणिकग्रन्थवचनादर्शनात् तन्न मन्यते अत-एवास्मिन् विषये पण्डितानां प्रायशो मतभेदोदृश्यते ।स तु प्रभुः (१४०७) सप्ताधिकचतुर्द्दश-शतशके कुम्भस्थे सवितरि पौर्णमास्यां तिथौशुक्रवारे प्रदोषसमये नवद्वीपाख्यनगर्य्यां प्रादु-र्बभूव । तस्मिन्नेव महामहिम्नस्तस्य भगवतोजन्मसमये चन्द्रदेवं प्रति सैंहिकेयोपरागोजातः । एतदुपलक्षीकृत्य गङ्गास्नानार्थं बहवोलोका नानादिग्देशादागत्य तत्र मिलिताः ।तदा ग्रस्तेऽपि राहुणा चन्द्रमसि भक्तजनकुमुद-बान्धवो गौरचन्द्रः समवेतलोकानां हरिसंकी-र्त्तनप्रभृतिभिर्मङ्गलाचरणैः सहशचीपूर्व्वपर्व्वता-दुदियाय । भवन्ति हि शुभसूचकानि महता-माविभूतानि । अतस्तदापि प्रसन्ना दिक्शैत्यसौगन्ध्यमान्द्यादिगुणगणाढ्यो मलयसमी-रणः प्रसन्नानि च साधु जनमनांसि समभवन् ।अस्य पिता जगन्नाथमिश्रस्तु पुरा श्रीहट्टनिवासीआसीत् । कदाचित् गङ्गास्नानार्थमेव नवद्वीप-मागत्य विप्रचक्रवर्त्तिकुलतिलकस्य नीलाम्बर-शर्म्मणः शचीनाम्नीं कन्यां परिणीतवान् ।ततो गच्छति काले अयं चैतन्यदेवः शचीगर्भेत्रयोदशमासं यावदुषित्वा जगन्नाथमिश्रस्यदशमपुत्त्रत्वेन समभवत् । अस्य पूर्व्वजो विश्वरूपोनाम जगन्नाथमिश्रस्यापरः पुत्त्र आसीत् । सतु यौवन एव ज्ञानवैराग्यविशारदो दारपरि-ग्रहमनङ्गीकुर्व्वन् पारिव्राज्यधर्म्मं समाश्रयत् ।अथ चैतन्यदेवस्य जातकर्म्मादिसं स्कारे यथा-कालं क्रमशो निवृत्ते अस्य मातामहो नीला-म्बरचक्रवर्त्ती सुलक्षणादिकमवलोक्य विश्वम्भरइति नाम्नैनमाजुहाव । शचीदेवी तु पुनः पुनःपुत्त्रधनेन वञ्चिता प्रियतममेनं कनीयांसं संसार-स्थितिदीर्घजीवनकामनया निमाइ इत्याख्ययापौरवासिनस्तु असामान्यरूपलावण्यतया परम-समादरेण गौर इत्याख्यया च आहूतवन्तः ।परं धर्म्मरसिकानां भक्तानां समाजे, शाक्य-सिंहस्य बुद्धदेव इव अस्य महाप्रभुरितिचैतन्यदेव इति च आख्या प्रसिद्धा ।अथ प्राप्ते काले चैतन्यदेवोऽयं शास्त्रसागर-पारगमशेषबुधवर्गवन्दितचरणारविन्दं महा-महोपाध्यायं गङ्गादासशर्म्माणमुपाध्यायत्वे-नाङ्गीकृत्य स्वल्पेनैव कालेन सर्व्वशास्त्रार्थ-तत्त्वज्ञः समभवत् । अस्य बुद्धिप्राखर्य्यमवगम्यतदा सर्व्व एवैनं देवांशसम्भूतममन्यन्त । अथकदाचिदयं गङ्गास्नानार्थं गत्वा तत्र वल्लभा-चार्य्यस्य लोकातीतरूपलावण्यां लक्ष्मीं नामकन्यामवलोक्य मोहित आसीत् । वल्लभा-चार्य्यस्तु एतदवगम्य स्वयमेव तां कन्यामस्मैसम्प्रददे । विवाहानन्तरमेवासौ छात्रान-ध्यापयितुं प्रवृत्तः । एतस्मिन्नेव समये बहवादिगविजयिनः पण्डिता नवद्वीपमागत्य अस्यतर्कजालैः समाच्छन्ना भग्नदर्पाश्च सन्तः प्रति-निवृत्ताः । असावपि दिग्विजिगीषया पूर्व्वादि-स्थलीं गत्वा तत्रस्थान् पण्डितान् विमोहयन्सुविमलं यशः प्राप्तवान् । एतस्मिन्नेव कालेअस्य पूर्व्वपत्नी कालधर्म्मं प्राप्ता । चैतन्यदेवस्तुतस्या विरहेण व्याकुलितोऽपि मातुरनुरोधेनैवपुनः सनातनपण्डितस्य विष्णुप्रियानाम्नीं कन्यांद्वितीयपत्नीत्वेन स्वीचकार । परं सर्व्वगुणविभू-षितायाः साक्षात् लक्ष्म्या इव लक्ष्म्या मरणा-देवासौ संसारविरक्तः श्रीवासादिभिर्भक्तवर्गै-र्मिलितो हरिभक्तिरसनिमग्न एव कालं यापया-मास । अथ कदाचित् पितृलोकोद्धारवासनयागयातीर्थं गत्वा भक्तचूडामणेः श्रीमदीश्वरपुरि-नाम्नो गोस्वामिनः सकाशात् हरिनामामृत-दीक्षां लब्ध्वात्मानं कृतकृतार्थं मत्वा च स्वदेशंप्रत्यावृत्तवान् । एतस्मिन्नवसरे पाषण्डदुराचारौदस्युप्रवरौ जगाइ माधाइ चेति प्रसिद्धौ ब्रह्म-बन्धू अन्यांश्च कुष्ठादिव्याधिपीडितान् महा-पातकिनः करुणया हरिनामदीक्षादानेनसंसारसागरात् समुद्धृत्य यवनजातीयकाजि-प्रभृतीन् वैष्णवद्वेषिणः स्वमहिम्ना दमयामास ।ततः प्रभृत्येवासौ भक्तिरसप्रधानं वैष्णवधर्म्मंप्रचारयितुमिच्छन् नित्यानन्दाद्बैताचार्य्या-दिभिर्भक्तवर्गैः सह नानाजनपदं परिभ्रमन्बहूनेव जनान् प्रेमोन्मत्तानकरोत् । अथ (१४३१)एकत्रिंशदधिकचतुर्द्दशशतशके उत्तरायण-संक्रान्त्यां संसारमायां परित्यज्य काटोयाख्य-ग्रामे केशवभारतिसकाशात् सन्न्यासधर्म्मं समा-श्रयत् । अथ नीलाचलमागत्य श्रीजगन्नाथदेवंदृष्ट्वा राज्ञः प्रतापादित्यस्य सभापण्डितं वेदान्त-शास्त्रपारदर्शिनंसार्व्वभौमं विचारेण पराजित्यवैष्णवदीक्षां प्रदत्तवान् । अथ कदाचित् गोदा-वरीतीरे भक्तवरं रामानन्दमवलोक्य सेव्य-निर्णयैर्धर्म्मालापैरात्मानं कृतकृत्यवदमन्यत ।ततोऽसौ त्रिपदी-शिवकाञ्ची-विष्णुकाञ्ची-त्रिमल्ल-प्रभृतीन् बहून् दाक्षिणात्यजनपदान् हरिप्रेम-रसेन प्लावयित्वा द्वारकातीर्थदर्शनार्थं प्रस्थितः ।तत्रैवासौ ‘कृष्णकर्णामृतं’ नाम सुप्रसिद्धवैष्णव-ग्रन्थं लब्धवान् । अतः परं पुनरेव नीलाचल-मागत्य काशीश्वरनाम्नः कस्यचिद्भक्तप्रधानस्यभवने अवस्थितवान् । अत्रेवासौ श्रीश्रीजगन्नाथ-देवस्य रथयात्रामहोत्सवे हरिसंकीर्त्तना-दिकं विधाय प्रेमोन्मादप्रलापादिभिर्भक्तिलक्षणंदर्शयामास । अथ गच्छति काले वृन्दावनंजिगमिषुर्वन्येनैव पथा व्रजन् स्वभावसारल्येनव्याघ्रादीनपि हिंस्रजन्तून् भक्तिप्रेम्णा मादयित्वावृन्दावनमुपतस्थे । तत्र स्वभक्तवृन्दावृत एवासौगोपीवल्लभश्रीकृष्णस्य विहारस्थानादिकमवलोक्यमथुरामुद्दिश्य प्रस्थितः । ततोऽस्मात् स्थानात्प्रयागगमनकाले बहून् पाषण्डानपि यव-नान् हरिभक्तान् विधाय वाराणसीमुपस्थितः ।तत्र कियत्कालमुषित्वा स्वधर्म्मं प्रचार्य्य चपुनर्नीलाचलमाजगाम । अत्रस्थ एवासौस्वप्रचारितवैष्णवधर्म्मस्य माहात्म्यं विज्ञापयितुंभक्तवृन्दाग्रगण्यान् रूपसनातनादीन् नाना-तीर्थस्थानेषु प्रेषयामास । अथ स्वभक्तै-र्मिलितो नानाविधमहोत्सवेन हरिसंकीर्त्तना-दिकं विधाय भक्तिरसस्य उत्कटकोटिमभि-गम्य विरहोन्मादादिप्रगाढभक्तिलक्षणैरन्वितआसीत् । तत एवासौ स्वभक्तगणान् कलियुगेहरिसंकीर्त्तनस्य माहात्म्यादिकं श्रावयित्वाअष्टचत्वारिंशद्वर्षवयसि कालस्य दुरतिक्रमणीय-त्वात् (१४५५) पञ्चपञ्चाशदधिकचतुर्द्दशशतशकेमानवकायं परित्यज्य अन्तर्हितवान् ॥
)
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
