| YouTube Channel

चुद (cuda)

 
शब्दसागरः
English
चुद r. 10th cl. (चोदयति-ते)
1. To send, to direct, to throw or cast.
2.
To ask or interrogate. (इर, इ) इर चुदि r. 1st cl. (चुन्दति-ते) To
sharpen. चु-उभ-सक-सेट् पक्षे भ्वादि
Wilson
English
चुद r. 10th cl. (चोदयति)
1 To send, to direct, to throw or cast.
2 To ask or interrogate. (इर, इ) इर चुदि r. 1st cl. (चुन्दति-ते)
To sharpen.
धातुपाठः (Krishnacharya)
Sanskrit
धातुः:
चुद्
मूलधातुः:
चुद
धात्वर्थः:
सञ्चोदने
गणः:
चुरादिः
कर्मकत्वं:
सकर्मकः
इट्त्वं:
सेट्
उपग्रहः:
उभयपदी
रूपम्:
चोदयति-ते
धातुप्रदीपः
Sanskrit
चुदँ चुद सञ्चोदने
- चोदयति चोदयामास चोद्यम् 60
शब्दकल्पद्रुमः
Sanskrit
चुद, नुदि इति कविकल्पद्रुमः
(चुरां-परं-सकं-सेट् ।) नुदि प्रेरणे क, चोदयति बाणंचापः इति दुर्गादासः
वाचस्पत्यम्
Sanskrit
चुद नोदने
चु०
उ०
सक०
सेट् चोदयति--ते अचूचूदत्--तचोदितः चोदना “धियो योनः प्रचोदयात्” “चोद-नालक्षणोऽर्थोधर्म्मः” जैमि०
क्षीरतरङ्गिणी
Sanskrit
चुदँ चुद संचोदने
- (अर्थविवरणम्) संचोदनं प्रेरणम्
चोदयति चोदना, चोद्यम् 55
धातुवृत्तिः
Sanskrit
चुदँ चुद (अर्थः) सञ्चोदने
(अर्थविवरणम्) सञ्चोदनं प्रश्नः, प्रेरणाच
तत्र प्रश्ने द्विकर्मकत्वं, देवदत्तमर्थम्_ (चोदयति ) ( चूडा ) भिदादिपाठादङ् उत्वं दीर्घत्वं ( चूडालः ) "प्राणिस्थादातो लजन्यतरस्याम्'' इति मत्वर्थे लच् चूडा नाम काचित्, तस्या अपत्यं ( चौडिः ) "बाह्वादिभ्यश्च'' इतीञ् "द्व्यचः'' इति ठकोऽपवादः 58
कृदन्तरूपमाला
Sanskrit
1 {@“चुद सञ्चोदने”@} 2 सञ्चोदनम् = प्रश्नः, प्रेरणं वा।
प्रश्ने द्विकर्मकः।
3 चोदकः-दिका, चुचोदयिषकः-षिका
चोदयिता-त्री, चुचोदयिषिता-त्री
चोदयन्-न्ती, 4 माणवकमर्थं] चोदयन्, चुचोदयिषन्-न्ती
चोदयिष्यन्-न्ती-ती, चुचोदयिषिष्यन्-न्ती-ती, चोदयमानः, चुचोदयिषमाणः
चोदयिष्यमाणः, चुचोदयिषिष्यमाणः
5 प्रचोत्-प्रचोदौ-प्रचोदः
चोदितम्-तः, चुचोदयिषितः-तवान्
चोदः, चुचोदयिषुः
चोदयितव्यम्, चुचोदयिषितव्यम्
चोदनीयम्, चुचोदयिषणीयम्
चोद्यम्, चुचोदयिष्यम्
ईषच्चोदः-दुश्चोदः-सुचोदः
-- चोद्यमानः, चुचोदयिष्यमाणः
चोदः, चुचोदयिषः
चोदयितुम्, चुचोदयिषितुम्
6 चोदना, 7 चूडा, चुचोदयिषा
चोदनम्, चुचोदयिषणम्
चोदयित्वा, चुचोदयिषित्वा
प्रचोद्य, 8 परिचोद्य, प्रचुचोदयिष्य
चोदम् -चोदयित्वा २, चुचोदयिषम् -चुचोदयिषित्वा २।
प्रासङ्गिक्यः
01
=>
(५४२)
02
=>
(१०-चुरादिः-१५९२। सक। सेट्। उभ।)
03
=>
[पृष्ठम्०५२१+ २७]
04
=>
[[[१। ‘अकथितं च’ (१-४-५१) इत्यनेन माणवकस्य कर्मसंज्ञा। चात्र कृद्योगलक्षणा षष्ठी शङ्क्या
\n\n ‘न लोकाव्ययनिष्ठाखलर्थतृनाम्’ (२-३-६९) इति षष्ठीनिषेधात्।]]
05
=>
[[२। णिनिमित्तको गुणः।]]
06
=>
[[आ। ‘कर्मचोदनया जीवः कायमन्यमिवेन्द्रियैः।।’ भारतचम्पूः (२-१८)]]
07
=>
[[३। ‘भिदादिषु (३-३-१०४) निपातनात् धातोरुपधाया दीर्घः, दकारस्य डकारः णिलोपश्च भवति’ इति माधवधातुवृत्तिः। ‘अबाधकान्यपि निपातनानि’ (परिभाषा- ११८) इति वचनात् ‘चोदना’ इत्यपि साधुः।]]
08
=>
[[B। ‘संबुस्तिते गिरिमखे परिचोद्य गोपान् प्रानक्कयद्धरिमखं मदधक्कनार्थी।।’ धा। का। ३। २०।]]