| YouTube Channel

चुचुकं (cucukaM)

 
शब्दकल्पद्रुमः
Sanskrit
चुचुकं,
क्ली,
(चुचु इत्यव्यक्तशब्देन कायति पान-काले इति कै + कः ।) कुचाग्रम् तत्-पर्य्यायः चूचुकम् चुचूकम् इति शब्द-रत्नावली
कुचाननम् पुंलिङ्गोऽपि इतिरत्नकोषः
स्तनवृन्तम् इत्यमरटीकायांभरतः
(देशविशेषे तद्देशवासिषु पुं यथा, महाभारते १२ २०७ ४२ ।“दक्षिणापथजन्मानः सर्व्वे नरवरान्ध्रकाः ।गुहाः पुलिन्दाः शवराश्चुचुका मद्रकैः सह
”)