| YouTube Channel

चिरम (cirama)

 
वाचस्पत्यम्
Sanskrit
चिरम
अव्य०
चि--बा० रमुक बहुकालार्थे हेम० “चिरंचकोरस्य भवन्मुखस्पशी” नैष० “ततः प्रजानां चिर-भात्मना धृताम” “विपक्षभावे चिरमस्य तस्थुषः”रघुः एषु क्रियाविशेषणत्वात् चिरशब्दात् द्वितीयेत्यपिभवितुमर्हति चिरन्तनः चिरञ्जीवन इत्याद्येवात्र उदा०