| YouTube Channel

चारी (cArI)

 
Apte
English
चारी [cārī],
f.
Wandering
जातपक्षा यदा ते गताश्चारीमितस्ततः
Mb.
* 12.262.5.
Monier Williams Cologne
English
चारी
f.
a particular step (in dancing)
a trap, snare,
HPariś.
i, 353.
Shabdartha Kaustubha
Kannada
चारी
पदविभागः - > स्त्रीलिङ्गः
कन्नडार्थः - > ನೃತ್ಯದಲ್ಲಿ ಒಂದು ವಿಧ /ಶೃಂಗಾರ ಮೊದಲಾದ ರಸಗಳ ಭಾವೋದ್ದೀಪಕವಾದ ಒಂದು ವಿಧ ನೃತ್ಯ
प्रयोगाः - > "न हि चारीं विना नृत्ये नृत्यस्याङ्गं प्रवर्तते शृङ्गारादिरसानान्तु भावोद्दीपनकारिकाम् माधुर्योद्वर्तना नृत्ये चारी चारुगतिर्मता ॥"
उल्लेखाः - > सा० द०
Indian Epigraphical Glossary
English
cārī (LP), Gujarātī cāro, grass
probably, pasture land
cf. carī.
(CII 4), grazing tax.
Wordnet
Sanskrit
Synonyms:
गुप्तचरः, अपसर्पः, गूढचारः, गूढचारी, चरः, चारः, चारकः, चारणः, चारी, भीमरः, मन्त्रज्ञः, मन्थरः, विचारकः, सूचि, हेरकः, उपचरकः
noun
यः गुप्तरीत्या गुह्यं जानाति।
"गुप्तचरस्य सूचनानुसारम् आरक्षकेण मिथ्यामुद्राप्रकाशकसमूहः गृहीतः।"
Synonyms:
गतिमत्, चल, चर, सर, सरण, चलत्, सरत्, चरत्, चलन, जङ्गम, कम्पन, गामी, चारी, सारी, यायी, सर्पी, गत्वर, सृत्वर
adjective
यस्मिन् गतिः अस्ति।
"कालः गतिमान् अस्ति।"
शब्दकल्पद्रुमः
Sanskrit
चारी,
स्त्री,
(चारः पदनिक्षेपभेदः गतिभेदो वाअस्त्यस्यामिति “अर्शआदिभ्योऽच् ।” १२७ ।इत्यच् ततो ङीष् ।) नृत्याङ्गविशेषः यथा, --“न हि चारीं विना नृत्ये नृत्यस्याङ्गं प्रवर्त्तते ।शृङ्गारादिरसानान्प्तु भावोद्दीपनकारिका
माधुर्य्योद्वर्त्तना नित्यं चारी चारुगतिर्म्मता
”अन्ये तु ।“एकपादप्रचारो यः सा चारी तु निगद्यते ।पादयोश्चारणं यच्च सा चारीति निगद्यते
करणानां समायोगः खण्डकः परिकीर्त्तितः ।त्रिभिः खण्डैश्चतुर्भिर्व्वा मण्डलं समुदाहृतम्
समनखा नूपुरविद्धा तिर्य्यङ्मुखी सबला ।कातरा कुवीरा विश्लिष्टा रथचक्रिका
पार्ष्णिरेचितका तलदर्शिनी गजहस्तिका ।परावित्ततला चोरुताडिताप्यर्द्धमण्डला
स्तम्भक्रीडनिका हरिणत्रासिका चोरुरेचिका ।तलोद्वृत्ता सञ्चरिता स्फुरिकापि तथैव
लङ्घितजङ्घा सङ्घट्टिता स्यादथ मदालसा ।उत्कुञ्चितातितिर्य्यक्कुञ्चिता चापकुञ्चिता
षड्विंशतिर्भौमचार्य्य इत्याख्याता मनीषिभिः
”अन्ये तु ।“समपादस्थिता वर्णा शकटास्याध्यर्द्धिकापि ।विव्याधा ताडिता बद्धा एडकाक्रीडिता तथा
ऊरुवृत्ता छन्दिता जनितापस्पन्दिता तथा ।स्पन्दितावत्समतन्वी समोत्सारितमड्डिता
उच्छन्दिता विज्ञेयाश्चार्य्यः षोडश भूमिगाः ।”इति भूमिचारी
*
आकाशचारी यथा, --“चारीश्चाकाशगा वक्ष्ये विक्षेपा त्वधरी तथा ।अङ्घ्रिताडिता भ्रमरी पुरःक्षेपा सूचिका
अपक्षेपा जङ्घावर्त्ता विद्धा हरिणप्लुता ।ऊकजङ्घान्दोलिता जङ्घा जङ्घनिका तथा
विद्युत्क्रान्ता भ्रमरिका दण्डपार्श्वेति षोडश
”अन्ये तु ।“विभ्रान्तातिक्रान्तापक्रान्ता पार्श्वक्रान्तिका ।ऊर्द्घजानुर्दोलपादाद्वृत्ता नूपुरपादिका
भुजङ्गभासिका क्षिप्ताविद्धा ताला सूचिका ।विद्युत्क्रान्ता भ्रमरिका दण्डपादा तथैव
आकाशचारिका एताः षोडशैव निरूपिताः
”एतास्वेव भूमिचारीष्वप्यन्तरभेदोऽस्ति तिर्य्यक्-चारी ऊर्द्ध्वचारी अधश्चारीति ता ऊहनीयाः
“तैलाभ्यक्तेन गात्रेण लध्वाहारो जितश्रमः ।स्तम्भे वा भित्तिदेशे वा प्रथमं ताः प्रयोजयेत्
रूक्षाहारं तथाम्लञ्च भुक्त्वा तां समाचरेत् ।नृत्यपादस्य विन्यासश्चारी सैवाभिधीयते
शृङ्गारादिरसानान्तु भवेद्दीपनकारणम् ।माधुर्य्यो भूममा नित्यं हृद्यतालत्रयान्विता
नियतोऽङ्गविशेषाणां चारी सञ्चारतो भवेत्
”इति सङ्गीतदामोदरोक्तचारीलक्षणम्
वाचस्पत्यम्
Sanskrit
चारी स्त्री चारो गतिभेदोऽस्त्यस्या अच् गौरा० ङीष् ।गतिभेदयुक्तनृत्यक्रीडायां सङ्गी० दा० तद्भेदलक्षणादि-कमुक्तं यथा“न हि चारीं विना नृत्ये नृत्यस्याङ्ग” प्रवर्त्तते शृङ्गा-रादिरसानान्तु भावोद्दीपनकारिकाम् माघुर्य्योद्वर्त्तनानृत्ये चारी चारुगतिर्मता” अन्येतु “एकपादप्रचारो यःसा चारी निगद्यते पादयोश्चारणं यच्च सा चारी-ति निगद्यते करणानां समायोगः खण्डकः परिकी-र्त्तितः त्रिभिः खण्डैश्चतुर्भिर्व्वामण्डलं समुदाहृतम् ।समनखा नूपुरविद्धा तिर्य्यङ्मुखी सरला कातराच कुवीरा विश्लिष्टा रथचक्रिका पार्ष्णिरेचि-तका तलदर्शिनी गजहस्तिका परावृत्ततला चास-ताडिताप्यर्द्धमण्डला स्तम्भक्रीडनिका मृगत्रा-सिका चारुरोचिका तलोद्वृत्ता सञ्चरिता स्फुरिका-पि तथैवच लङ्घिञङ्घा सङ्घटिता स्यादथैव मदालसा ।उत्कुञ्चिता तिर्य्यगूर्द्ध्वं कुञ्चिता चापकुञ्चिता षड्विंशतिर्भौमचार्य्य इत्याख्याता मनीषिभिः” अन्ये तु “समपादस्थिता विद्धा शकटस्यार्द्धिकापि विय्याघाताडिताऽऽबद्धा एकैका क्रीडिता तथा ऊरुवृत्ता छ-न्दिता जनिता स्पन्दिता तथा स्पन्दितावत् सम-तन्वी समोत्सारितघट्टिता उच्छन्दिता विज्ञेयाश्चार्य्यः षोढश भूमिगाः इति भूमिचारी आकाशचारी यथा “चारीश्चाकाशगा वक्ष्ये विक्षेपा त्वधरीतथा अङ्घिताडिता भ्रमरी पुरःक्षेपा सूचिका ।अपक्षेपा जङ्घावर्त्ता विद्धा हरिणप्लुता “ऊकज-ङ्घान्दोलिता जङ्घाजङ्घालिका तथा विद्युत्क्रान्ताभ्रमरिका दण्डपार्श्वेति षोडश” अन्थे तु “विभ्रान्ता-तिक्रान्ताऽपक्रान्ता पार्श्वक्रान्तिका ऊर्द्धजानुर्दोल-पादोद्वृत्ता नूपुरषादिका भुजङ्गनासिका क्षिप्ताऽऽविद्धाताला सूचिका विद्युत्क्रान्ता भ्रमरिका दण्डपादातथैव आकाशचारिका एताः षोडशैव निरूपिताः” ।एताष्वेव भूमिचारीष्वप्यन्तरभेदोऽस्ति “तिर्य्यक्चारीऊर्द्ध्वचारी अधश्चारी ति ता ऊहनीयाः “तैलाभ्यक्तेनगात्रेण लब्धाहारो जितश्रमः स्तम्भे वा भित्तिदेशे वाप्रथमं ताः प्रयोजयेत् रूक्षाहारं तथाम्लञ्च भुक्त्वा तांन समाचरेत् नृत्ये पादस्य विन्यासश्चारी सैवाभिधीयते ।शृङ्गारादिरसानान्तु मवेद्दीपनकारणम् माधुर्य्यभूयसानृत्ये हृद्यतालत्रयान्विताः नियतार्द्धविशेषाणां चारीसञ्चारतो भवेत्” स० दामो०