| YouTube Channel

चन्दनधेनु (candanadhenu)

 
शब्दकल्पद्रुमः
Sanskrit
चन्दनधेनुः,
स्त्री,
(चन्दनेन अङ्किता धेनुः मध्य-पदलोपिकर्म्मधारयः ।) पतिपुत्त्रवन्मृतनार्य्युद्देश्यकोत्सृष्टचन्दनाङ्कितसवत्सगौः तत्प्रमाण-प्रयोगौ लिख्येते ।“नत्वा शिवं चन्दनचर्च्चितायाधेनोः प्रदाने सविधिप्रयोगम् ।रत्नाकरादेर्लिखितं विलोक्यतनोति वाचस्पतिरग्र्यबुद्धिः
”अथ चन्दनधेनुदानविधिः तत्र रत्नाकरे देवलः ।जीवद्भर्त्री तु या नारी पुत्त्रिणी म्रियते यदि ।सवत्सामङ्कितां धेनुमाचार्य्याय प्रदापयेत्
पतिपुत्त्रवती नारी म्रियते याग्रतस्तयोः ।वृयं चोत्सृजेत् पुत्त्रः पिता यावच्च जीवति
तथा कर्म्मोपदेशिन्यां ब्राह्मणसर्व्वस्वे हला-युधधृतानि वचनानि यथा स्मृतिः ।पतिपुत्त्रवती नारी म्रियते भर्त्तुरग्रतः ।चन्दनेनाङ्कितां धेनुं तस्याः स्वर्गाय कल्पयेत्
तथा जातूकर्णः ।धेनुं चन्दनमालिप्य यो दद्यान्मातृहेतवे ।यदि पापशतैर्युक्ता तथापि स्वर्गमाप्नुयात्
तथा वशिष्ठः ।न युक्तश्च वृषोत्सर्गो यावत् पितरि जीवति ।चन्दनेनाङ्कितां धेनुमाचार्य्याय प्रदापयेत्
*
चतुर्हस्तो भवेद्यूपो यज्ञवृक्षसमुद्भवः ।वर्त्तुलः शोभनः स्थूलः कर्त्तव्यो धेनुमौलिकः
विल्वस्य वकुलस्यैव कलौ यूपः प्रशस्यते ।अभावे वारुणेनापि यूपं कुर्य्याद्विधानतः
वृषोत्सर्गे तु वृषमौलिकः ।तरुणी रूपसम्पन्ना सुशीला पयस्विनी ।न्यायार्ज्जिता गृहे जाता देया सा श्रोत्रियायगौः
नदीतीरे वने गोष्ठे देवतायतनेषु ।व्रीहिक्षेत्रे कुशक्षेत्रे राजद्वारे चतुष्पथे
एषु वचनेषु वृषोत्सर्गनिषेधचन्दनधेनूतसर्ग-विध्योर्युगपदुपसंहारदर्शनात् वृषोत्सर्गस्थानेप्रधानतया चन्दनधेनूत्सर्गः प्रतीयते अतो-ऽस्य वृषोत्सर्गकार्य्यकारित्वात् तत्फलहेतुत्वंलभ्यते एकोद्दिष्टं कुर्व्वीत न्यासिनाञ्चैवसर्व्वदा अहन्येकादशे प्राप्ते पार्व्वणन्तु विधी-यते
इति श्राद्धविवेकधृतोशनोवचने त्रिदण्ड-सन्न्यासिनां एकोद्दिष्टनिषेधपार्व्वणविध्योर्युग-पदुपसंहारात् एकोद्दिष्टस्थाने पार्व्वणमिव ।यद्वा पतिपुत्त्रवतीरूपप्रेतविशेषाधिकृतवृषं नचोत्सृजेदिति निषेधचन्दनधेनूत्सर्गविधिभ्यांप्रेतमात्राधिकृतसामान्यवृषोत्सर्गविध्यवगतफल-भावनाकरणीभूतवृषकर्म्मकत्यागमनूद्य तत्कर्म्मी-भूतवृषमपंहाय तत्स्थाने धेनुमात्रगुणविधि-र्लाघवादवगम्यते पशुयागे सामान्यविध्यव-गतापः प्रणयनीयाधिकरणीभूतचमसस्थाने गो-दोहेनापः प्रणयेदिति विशेषविधिना गोदोह-गुणविधिवत् नालाभेऽपि प्रवेशिनीम् उपोष्यद्वादशीं तत्र त्रयोदश्यान्तु पारणमित्यत्र एका-दशीरूपनिमित्तस्थाने द्वादशीमात्रगुणविधि-वच्च अन्यथा धेनूत्सर्गस्य पृथक्कर्म्मत्वे फल-भावना तत्करणनियोज्यानां पृथक्कल्पनेगौरवं स्यात् उक्तविधिनिषेधयोरुपसंहारवैय-र्थञ्च स्यात् ततश्च करणैक्यात् फलैक्यमिति ।चन्दनधेनूत्सर्गेऽपि प्रेतत्वविमुक्तिपूर्व्वकस्वर्ग-प्राप्तिः फलम् एवं कपिलमन्त्रस्थपापव्यपग-मस्वर्गप्रार्थनाया अपि तथैव तात्पर्य्यम् तथाजातूकर्णवचनस्थपापस्वर्गपदयोरपि तथैव तात्-पर्य्यं बोध्यम् भूतार्थानां विधिशेषिणामेव जैमि-न्युक्तप्रामाण्येन प्रकृते सिद्धे विधिशेषित्वे लाघ-वात् पापिष्ठमपि शुद्धेन शुद्धं पापकृतापि वेतिकात्यायनवचनस्थपापपदस्य प्रेतत्वे एव तात्-पर्य्यदर्शनाच्च अत्र यद्यपि पतिपुत्त्रवतीत्यत्रपतिपुत्त्रवत्त्वस्य विशेष्यीभूतकर्त्त्रन्वयिमरणान्वयि-त्वेन विशेषणत्वं किन्तूपलक्षणत्वमेव ततश्चकाकवन्तो देवदत्तस्य गृहा इतिवत् कादाचित्कतद्वत्तामादायापि पतिपुत्त्रवतीतिप्रयोग उप-पद्यते तथापि अग्रतस्तयोर्भर्त्तुरग्रत इत्याभ्यांमरणकालिकी पतिपुत्त्रसत्तावगम्यते गवांगोष्ठे इतिवत् अथवा परार्द्धान्वयेन धेनूत्-सर्मकालिकीति नचापुप्पिता मृता काचित्तस्या धेनुर्विगर्हिता इति कपिलवचनेअपुष्पितायाः पुत्त्रकर्त्तृकधेनूत्सर्गनिषेधस्या-प्रसक्ततया सपत्नीपुत्त्रकर्त्तृकधेनूत्सर्गनिषेध-प्राप्तौ तद्दृष्ट्या पतिपुत्त्रवतीत्यस्य सपत्नीपुत्त्र-वतीपरत्वं अवश्यं वाच्यम् तदेकवाक्यतयापुत्त्रिणीत्यादावपि तथात्वमिति वाच्यम् ।अपुष्पितेति कपिलार्द्धस्य प्रसक्तिपूर्व्वकतार्थंपतिपुत्त्रवत् निवृत्तरजस्काया धेनूत्सर्गनिषे-धार्थत्वात् गत्यां सत्यां लक्षणाया बीजाभावात् ।प्रतियोगिवत्ध्वंसप्रागभावयोरपि अत्यन्ताभाव-विरोधित्वमते तु अजातपुष्पस्त्रीपरत्वं वा भवतुतथात्वेऽपि तस्या धेनुर्व्विगर्हितेति अप्रसक्ता-र्थापि अपुष्पिताधेनुदाननिन्दा पतिपुत्त्रवत्या-श्चन्दनधेनुदानस्तुतिपरा यथा हरेरुत्थानेपौष्णशेषेण किन्तेन प्रतिपद्यथ यो निशीत्य-प्रसक्तापि निन्दा एकादश्यादिपौर्णमास्यन्त-पञ्चके रेवत्यन्तपादयोगविधिस्तुतिपरा यथावा वेदगाने यो गिरा गिरेति ब्रूयात् आत्मान-मपि गिरेत् इत्यप्रसक्तनिन्दा ऐरं कृत्वा अव-गिरेदिति बिधेः स्तुतिपरा अतएव उक्तंशावरभाष्ये हि निन्दा निन्द्यं निन्दितुंप्रवर्त्तते अपि तर्हीतरत् स्तोतुमिति स्तुतौ हिअप्रसिद्धगुणदोषारोपणदोषाय चात्र काम्य-स्यैव कार्त्तिक्यादिवृषोत्सर्गस्य स्थाने धेनुदानंविधीयते इति वाच्यम् तन्मात्रपरत्वे माना-भावात् प्रत्युत म्रियत इति वर्त्तमानार्थक-विभक्त्या वर्त्तमानसामीप्येनाचिरप्रमीतोप-स्थितेश्च ये तु बह्वीनामेकपत्नीनामेका चेत्पुत्त्रिणी भवेत् सर्व्वास्तास्तेन पुत्त्रेण प्राह पुत्त्र-वतीर्म्मनुरिति मनुना पुत्त्रवतीत्वाभिधानादेवपतिपुत्त्रवतीत्यत्र सपत्नीपुत्त्रवती प्रतीयते इतिब्रुवते तेऽतीवभ्रान्ताः पुत्त्रवतीति पदस्याखण्ड-तया मतुपा पतिपदस्यान्वये तटस्थत्वापत्तेः
*
ननु वृषतुल्यवयो वर्णो वृषः स्याद्दक्षिणा द्विजाः ।वृषोत्सर्गे तथा पुंसां स्त्रीणां स्त्रीगौर्विशिष्यते
इति भविष्यसंवादाद्धेनुदानमिदं पतिपुत्त्रवत्यावृषोत्सर्गे दक्षिणादानस्य विशेषरूपम् तुप्रधानकर्म्मान्तरं गौरवात् दक्षिणायाअङ्गत्वेन फलासङ्गतिः यस्य पर्णमयी जुहू-र्भवति पापश्लोकं शृणोतीतिवत्तदुपपत्ते-रिति चेत् वृषोत्सर्गदक्षिणातश्चन्दना-ङ्कितधेनुदानस्य प्रकरणान्तराम्नायेन प्रकरणा-न्तरन्यायतः प्रधानत्वसिद्धेः वृषोत्सर्गस्थानीय-त्वेनानुवर्त्तमानशिष्टाचारात् धेनुदानयुगनद्ध-वृषोत्सर्गनिषेधानामसङ्गतेः कपिलपञ्चरात्रेचन्दनधेनुदानस्यापीति कर्त्तव्यतायां वृषरूप-दक्षिणादानविधानाच्च
*
यथा कपिल उवाच ।अतः परं प्रवक्ष्यामि धेनुदानमनुत्तमम् ।पतिपुत्त्रवती नारी म्रियते भर्त्तुरग्रतः
चन्दनेनाङ्कितां धेनुपाचार्य्याय निवेदयेत्
तथा ।जीवद्भर्त्ती तु या नारी पुत्त्रिणी म्रियते यदि ।सवत्सामङ्कितां धेनुमाचार्य्याय निवेदयेत्
साध्वी पतिव्रता नारी म्रियते याऽग्रतस्तयोः ।वृषं नैवोत्सृजेत् पुत्त्रो यावत् पितरि जीवति
मृतपुत्त्रा या नारी संगृहीता तु या भवेत् ।तस्या धेनुर्न दातव्या वृषोत्सर्गो विधीयते
अपुष्पिता मृता काचित्तस्या धेनुर्विगर्हिता ।दद्याद्धेनुं सुतो ज्येष्ठः कनिष्ठो वृषमुत्सृजेत्
द्वयोः सोदरयोरेको भवेत् ज्येष्ठः प्रधानतः ।त्रयाणां द्वौ सुतौ ज्येष्ठौ चतुर्णाञ्च त्रयः स्मृताः
पञ्चानां सोदराणाञ्च त्रयो ज्येष्ठाः प्रकीर्त्तिताः ।ज्येष्ठेनैव तु कर्त्तव्यं धेनुदानं विधानतः
हेमशृङ्गीं खुरै रूप्यैः सुशीलां वस्त्रसंयुताम् ।कांस्योदरीं ताम्रपृष्ठां घण्टाचामरभूषिताम्
प्रबालमालिकां दद्यात् कर्णयोरुभयोरपि ।चन्दनेनाङ्कितां धेनुमाचार्य्याय निवेदयेत्
गवां लोकमवाप्नोति दिवि देवैश्च मोदते ।चन्दनेनाङ्कितां धेनुं दत्त्वा गच्छेत् सुरालयम्
तावत्तिष्ठति स्वर्लोके यावदाहूतसंप्लवम् ।न चोत्सर्गो वृषस्यात्र वत्सतर्य्यन्वितस्य
वृषोत्सर्गविधानेन कर्त्तव्यं सर्व्वकर्म्म ।मा नस्तोकेति मन्त्रेण दक्षे वृषाज्यसीति
धेनोश्च सक्थिदेशे तु त्रिशूलाङ्कं समालिखेत् ।वामभागे विशेषोऽयं दक्षे चक्रं समालिखेत्
तत्रान्यद्वर्ज्जयेद्विद्वानाचार्य्यस्तु विधानवित् ।ततो वै संलिखेच्चक्रं पञ्चाङ्गुलप्रमाणकम्
शूलं षडङ्गुलं कार्य्यं दक्षे वामेयथाविधि ।पूर्व्वाशाभिमुखीं धेनुं यजमानोत्तरामुखः
मस्तकादिक्रमेणैव प्रतिमन्त्रैः प्रपूजयेत्
*
शिरसि ओँ ब्रह्मणे नमः ललाटे ओँवृषभध्वजाय नमः कर्णयोः ओम् अश्विनी-कुमाराभ्यां नमः चक्षुषोः ओँ शशिभास्क-राभ्यां नमः जिह्वायां ओँ सरस्वत्यैनमः दन्तेषु ओँ वसुभ्यो नमः ओष्ठयोःओँ सन्ध्यायै नमः ग्रीवायां ओँ नील-कण्ठाय नमः हृदि ओँ स्कन्दाय नमः ।रोमकूपेषु ओम् ऋषिभ्यो नमः दक्षिणपार्श्वेओँ कुवेराय नमः वामपार्श्वे ओँ वरु-णाय नमः रोमाग्रेषु ओँ रश्मिभ्यो नमः ।ऊरुषु ओँ धर्म्माय नमः जङ्घासु ओम्अधर्म्माय नमः श्रोणितटे ओँ पितृभ्योनमः खुरमध्ये ओँ गन्धर्व्वेभ्यो नमः ।खुराग्रे ओम् अप्सरोभ्यो नमः लाङ्गूले ओँद्वादशादित्येभ्यो नमः गोमये ओँ महालक्ष्म्यैनमः गोमूत्रे ओँ गङ्गायै नमः पयोधरेषुओँ चतुःसागराय नमः ।एवमङ्गानि संपूज्य पठेन्मन्त्रं समाहितः ।ओम् इन्द्रस्य त्वमिन्द्राणी विष्णोर्लक्ष्मीश्च यास्मृता ।रुद्रस्य गौरी या देवी सा देवी वरदास्तु मे
ओँ या लक्ष्मीर्लोकपालानां या देवेष्ववस्थिता ।धेनुरूपेण सा देवी तस्याः पापं व्यपोहतु
ओँ देहस्था या रुद्राणी शङ्करस्य सदा प्रिय
धेनुरूपेण सा देवी तस्याः शान्तिं प्रयच्छतु
ओँ सर्व्वदेवमयी दोग्ध्री सर्व्वलोकमयी तथा ।धेनुरूपेण सा देवी तस्याः स्वर्गं प्रयच्छतु
ग्रहीत्वार्ध्यञ्च पाद्यञ्च उत्सृजेत्तामलङ्कृताम् ।दीयते ब्राह्मणायैषा आचार्य्याय महात्मने
एवंविशिष्टां तां धेनुं दत्त्वा तर्पणमारभेत् ।पुच्छं गृहीत्वा पित्रादीन् वृषोत्सर्गंविधानतः
ऐशान्याञ्चालयेत् किञ्चिदाचार्य्याय दक्षिणाम् ।वृषभञ्च ततो दद्यादाचार्य्याय गुणान्वितम्
पूजयेद्ब्राह्मणांश्चैव वस्त्रमाल्यादिभिस्ततः ।कांस्यपात्रं वस्त्रयुग्मं सुवर्णञ्च विशेषतः
आचार्य्याय प्रदातव्यं ब्रह्मणे कनकं तथा ।आगतान् पूजयेद्भक्त्या यथाशक्ति विधानतः
दीनार्त्तकृपणादींश्च अन्नाद्यैः परितोषयेत्
”इति कापिले धेनुदानप्रमाणम्
*
पुस्तकान्तरे पाठाधिक्यं यथा, --“एकादशाहे प्रेतायाः षण्मासे चाब्दिके तथा ।त्रिपक्षे मासिके वापि दद्याद्गां चन्दनाङ्किताम्
तथा वराहपुराणम् ।अयने विषुवेऽष्टम्यां युगाद्यापूर्णिमासु ।दर्शे मन्वन्तरे चैव धेनुं दद्यात् सुपूजिताम्
ननु आद्यश्राद्धे त्रिपक्षे वेत्यादिना आद्यश्राद्ध-कर्त्तव्यनित्यवृषोत्सर्गकालस्य परपरकालोगौणः वा सर्व्वे कालाः स्युः तत्र नाद्यःत्रिपक्षादौ शिष्टाचारविरोधात् नापि द्वितीयःत्रिपक्षादौ नित्यत्वबोधकाभावात् वस्तुतःआद्यश्राद्धे वृषोत्सर्गस्य नित्यत्वं त्रिपक्षादौकाम्यत्वम् आद्यश्राद्वपदं अशौचान्तद्वितीय-दिनपरम् अशौचान्ताद्द्वितीयेऽह्नीत्याद्येक-वाक्यत्वात् अत्र आद्यश्राद्धस्य विघ्नपतित-त्वन एकादश्यादौ क्रियमाणत्वे वृषोत्सर्गमपिन कुर्य्यात् आद्यश्राद्धदिने वृषोत्सर्गाकरणेत्रिपक्षाद्यन्यतमकालेऽपि वृषोत्सर्गस्यावश्य-प्रेतत्वपरीहारकत्वेन तस्य पुनः संवत्सरसाध्य-सकृत्कृतस्य नित्यत्वं कल्प्यम् एवं धेनुदान-स्यापि अतएव पूर्णसंवत्सरे मलमासपातेऽपिप्रागकृतश्चेत् कार्य्य एव इति नवीना जगुः ।एककर्त्तृकानेकवृषोत्सर्गोऽपि शिष्टाचार एक-दिनेऽपि तथा हि स्वर्गलोकगमनफलश्रुतेःकाम्यत्वेन यो भूय आरभते तस्मिन् फले विशेषइति न्यायादविरोधः
ननु नैमित्तिकत्वात्कथमावृत्तिः सकृत्कृते कृतः शास्त्रार्थ इतिन्यायात् चैकत्र क्रियाद्वयमिति वचनाच्च ।अत्रायं विशेषः काम्यनैमित्तिकं फलविशेषार्थंभूयः कार्य्यं नैमित्तिकमात्रं सकृदेव किञ्च ।संक्रान्त्यादिनिमित्तकश्राद्धमपि पुनः पुनः स्यात् ।मैवं तत्र पितृतृप्तिरूपप्रधानफलस्य सत्त्वेनचरितार्थ इति
*
अत्रोक्तानि सर्व्वाण्यतानिवचनानि तिर्य्यगधिकरणन्यायमूलानि तथाहि तिर्य्यगधिकरणे तिर्य्यक्पङ्गुत्र्यार्षेयदेवताना-मनधिकार इति यागमात्रे उक्तम् तत्रहेतवः तिरश्चां घिशिष्टान्तःकरणविरहात्पङ्गोः प्रचरणविरहात् त्र्यार्षेयाणां अन्धवधिर-मूकानामवेक्षणश्रवणोच्चारणविरहात् साङ्ग-यागासामर्थ्ये तेषां यथा यागानधिकारस्तद्वदत्रस्वपितुः पितृकृत्येषु अधिकारो विद्यते इतिछन्दोगपरिशिष्टे अग्निष्वात्ताद्यन्तर्गणमुक्त्वाजीवत्पितृकश्चैतानन्यांश्चेतर इति कात्यायन-सूत्रे जीवत्पितृकस्य पितृतर्पणनिषेधात्वृषोत्सर्गे तदङ्गभूततत्पुच्छगलितोदकतर्पण-विरहात् साङ्गकरणासामर्थ्ये वृषोत्सर्गानधि-कारः अतएव द्वैतनिर्णयेऽपि अनूचितस्त्रियांकरणीभूतर्ग्बाधेन यागवद्वृषोत्सर्गस्य बाधउक्तो वाचस्पतिमिश्रेण धेनुदानाङ्गतर्पणे तुप्रधानाधिकारश्रुतेः जीवत्पितृकाधिकृतविशेष-विधानाच्चाधिकार एवाभ्युदयिकश्राद्धवत् जन्म-मास्युपनयनाङ्गसशिखवपनवच्च अयन्तु सामान्य-शास्त्रोपजीवित्वेन निषेधः पर्य्युदास एव तुयदि पतिपुत्त्रवद्भिन्नाया वृषोत्सर्गं कुर्य्यादित्येवमात्रस्तदा पुत्त्र इत्यादिवचनभागवैयर्थ्यं स्यात् ।यदि जीवत्पितृकभिन्नो वृषोत्सर्गं कुर्य्यात्इत्येव मात्रस्तदा पूर्व्वभागवैयर्थ्यं स्यात् यदिवा पतिपुत्त्रवत्या जीवत्पितृकपुत्त्रभिन्नोवृषोत्-सर्गं कुर्य्यादिति विशिष्टरूपस्तथापि पतिपुत्त्र-घत्यास्तदुभयरहितायाश्च जीवत्पितृकपौत्त्रा-दिना वृषोत्सर्गः स्यात् चायुक्त एवप्रागुक्तवचनन्यायविरोधात् तस्मात् समुदाय-वचनसार्थक्याय पतिपुत्त्रवद्भिन्नाया वृषोत्सर्गंकुर्य्यात् तथा जीवत्पितृकभिन्नो वृषोत्सर्गंकुर्य्यात् इति वचनन्यायसंवादाद्वाक्यद्वयमेवसिध्यति प्रमाणवद्गौरवस्य सर्व्वाङ्गीकृतत्वात् ।दर्शपौर्णमासयोः षट्प्राधानापूर्व्ववत् अथ-वोक्तदेवलादिवचने ज्येष्ठेनैव तु कर्त्तव्यं धेनुदानंविधानत इत्यन्तकापिलसकलवचनपर्य्यालोचनयाकनिष्ठपुत्त्रवतीभिन्नपतिपुत्त्रवतीतरजनस्यकापिल-प्रतिप्रसूतकनिष्ठपुत्त्रभिन्नजीवत्पितृकात् अन्योजनो वृषोत्सर्गं कुर्य्यात् इति सामान्यतएव वृषोत्सर्गविधिः तथा पतिपुत्त्रवत्या ज्येष्ठ-पुत्त्र एव चन्दनाङ्कितधेनुमुत्सृजेदिति विधिश्चसिध्यति ततश्च पतिपुत्त्रवत्याः कनिष्ठपुत्त्रसत्त्वएव तेन तदन्यमृतपितृकेण वा वृर्षोत्सर्गःकार्य्यः कनिष्ठपुत्त्राभावे तु केनापि एवंपत्यादिना चन्दनधेनुदानमिति प्रतिप्रसूत-कनिष्ठान्यजीवत्पितृकेण कस्यापि वृषोत्सर्गःकार्य्य इत्यपि चपर्य्यवसितम्
वस्तुतस्तु पतिपुत्त्र-वत्या वृषोत्सर्गनिषेधे तत्पुत्त्रस्य जीवत्पितृक-त्वनानधिकार एव हेतुः तु स्त्रियाः पति-सत्त्वंपुत्त्रसत्त्वं वा मृतपुत्त्रेत्यादिप्रागुक्तकापिल-वचने पतिसत्त्वे कनिष्ठपुत्त्रसत्त्वे वृषोत्सर्गा-वगतेः तत्पुत्त्रस्य पितुः सत्त्व एवानधिकारोक्त्यातन्मरणे वृषोत्सर्गावगमाच्च वा तदुभय-सत्त्वं मिलितं उक्तन्यायावगततत्पुत्त्रस्य जीवत्-पितृकत्वहेतोरेव तादृशनिषेधप्राप्तेः पतिपुत्त्र-सत्त्वयोर्निर्बीजहेतुत्वकल्पनानौचित्यात् तयो-र्व्वाचनिकहेतुत्वे तु अदृष्टकल्पनाया अन्याय्य-त्वात् सिद्धजीवत्पितृकनिषेधप्रपञ्चतया पति-पुत्त्रवत्या निषेधोपपत्तौ अधिकनिषेधकल्पनेगौरवाच्च यस्तु जीवत्पितृकवृषोत्सर्गनिषेधेपतिपुत्त्रवत्याः पृथगुपसंहारः सोऽपि तस्याःपुत्त्रानधिकारमात्रप्रयुक्तसिद्धवृषोत्सर्गाभावभा-गित्वानुवादः पूर्व्ववाक्यावगतधेनुदानस्य वृषोत्-सर्गस्थानीयत्वज्ञापनार्थ एवेति प्रागपि निरू-पितम् ततश्चोक्तवचने तिर्य्यगधिकरणन्याय-प्राप्तं जीवत्पितृकस्य वृषोत्सर्गकर्त्त त्वाभाव-मनूद्य सपतिकाया वृषोत्सर्गस्थाने चन्दनाङ्कित-धेनूत्सर्ग एव विधीयते एतेन वृषोत्सर्गकर्त्तरिकपिलप्रतिप्रसूतसपतिकावृषोत्सर्गकृतिमत्-कनिष्ठपुत्त्रान्यजीवत्पितृकेतरत्वविशेषणं सपति-काया वृषोत्सर्गस्थाने ज्येष्ठपुत्त्रस्यैव चन्दना-ङ्कितधेनूत्सर्गमात्रश्च लभ्यते अतो जीवत्-पितृकेण काम्ववृषोत्सर्गः पतिते प्रव्रजिते वापितरि जीवति पितामहादिवृषोत्सर्गश्च नकार्य्यः एवं सपतिकाया अपि पुत्त्रस्य कर्म्मयोग्यत्वे असत्त्वे वा पत्या कन्यादिना वा वृषोत्-सर्गः कार्य्य एवेति स्थितम् इदन्तु रत्ना-करहलायुधाचार्य्यचूडामणिविद्याभूषणशुभङ्कर-महादेवभदृआचार्य्यप्रभृतीनामपि सम्मतं तेषांपृथक् पृथक् पद्धतिरपि प्रचरति क्वचिद्देशेस्मार्त्तभदृआचार्य्यस्यापि समूलपद्धतिर्दृश्यते ।अतएवात्र विशेषादर्शिनामनाचारोऽनाचार-एव अत्र भविष्योक्तप्रकारस्तु वैकल्पिक एव ।स्मृतिशास्त्रे विकल्पो हि आकाङ्क्षापूरणेसतीति जैमिन्युक्तेः तत्रत्यपूजाहोमाद्यङ्गेषुविशेषमन्त्रतन्त्रोक्तेः कापिलकल्पेन वृषोत्सर्ग-धर्म्मातिदेशेन विशेषोक्तनिरासाच्च
*
सम्प्रतिविचारितकापिलकल्पप्रयोगोऽभिधीयते यथा ।गोशालादौ वितानयुक्ते प्रागुदक्प्लवनं देशंगोमयेनोपलिप्य कृतनित्यक्रिय आचान्तः कुश-हस्तो द्विवासाः प्राङ्मुखः ओँ तद्विष्णोः परमंपदं इति विष्णुं स्मृत्वा नत्वा उदङ्मुखः ओँतत् सदित्युच्चार्य्य कुशतिलजलपूर्णताम्रपात्र-मादाय विशेषानुपदेशात् मुख्यचान्द्रमासो-ल्लेखेन अद्यामुके मासि अमुके पक्षे अमुकतिथौअमुकगोत्रायाः प्रेतायाः अमुकायाः अशौ-चान्ताद्द्वितीयेऽह्नि अमुकगोत्रायाः प्रेतायाःअमुकायाः प्रेतलोकविमुक्तत्वस्वर्गलोकगमन-कामः चन्दनाङ्कितसवत्सधेनुदानकर्म्माहंकरि-ष्यामीति संकल्पयेत् ततस्तज्जलमैशान्यांक्षिपेत् ततः स्वस्वरीत्या सङ्कल्पसूक्तं पठेत् ।ततः प्रथमं ब्रह्मवरणम् तत्र उत्तरामुखंब्रह्माणमुपवेश्य तत्समीपे आसनमानीय प्राङ्-मुखो यजमानः प्राञ्जलिः ओँ साधुभवानास्तांइति वदेत् ओँ साध्वहमासे इति प्रतिवचनंदत्त्वा ब्रह्मा तदासने उपविशति ततः कर्त्ताओम् अर्च्चयिष्यामो भवन्तं इति वदेत् ओम्अर्च्चयेति प्रतिवचनम् ततो गन्धपुष्पताम्बूल-वस्त्रालङ्कारैर्ब्रह्माणं संपूज्य तद्दक्षिणं जानु स्पृष्ट्वाओम् अद्यामुकेमासि अमुकेपक्षेऽमुकतिथौअमुकगोत्रायाः प्रेतायाः अमुकाया अशौ-चान्ताद्द्वितीयेऽह्नि अमुकगोत्रममुकप्रवरं श्री-अमुकदेवशर्म्माणं त्वामस्मिन् चन्दनाङ्कितधेनु-दानाङ्गहोमकर्म्मणि ब्रह्मकर्म्मकरणाय गन्धा-दिभिरभ्यर्च्च्याहं वृणे इति ब्रह्माणं वृणुयात् ।ओँ वृतोऽस्मीति प्रतिवचनम् ओँ यथाविहितंब्रह्म कर्म्म कुरु ओँ यथाज्ञानं करवाणीतिप्रतिवचनम् स्वयं गानाशक्तौ ब्रह्मकर्म्म कर-णायेत्यत्र ब्रह्मादिकर्म्मकरणायेति वदेत् स्वयंहोमासामर्थ्ये होतारं वृणुयात् तत्र होतृकर्म्म-करणायेति विशेषः एवं तन्त्रधारकाचार्य्य-मपि आचार्य्यान्तराभावे ब्रह्मैवाचार्य्यत्वेनापिवरणीयः तत्र ब्रह्माचार्य्यकर्म्मकरणायेतिविशेषः एवं प्रागुक्तवत् सदस्यवरणमपि ।हस्ताङ्गुल्यादिमानन्तु याजमानिकमेव सर्व्वत्रग्राह्यम् ततः पुण्याहस्वस्त्यृद्धिवाचनं कृत्वाचन्दनाङ्कितधेनुदाननिमित्तकहोमीयहविरक्षय-त्वकामो भारतनामोच्चारणं कुर्य्यात् ततोयजमानो होता वा गायत्त्र्या गोमूत्रं गन्ध-द्वारेत्यादिना गोमयं ओम् आप्यायस्वेत्यादिनादुग्धं ओँ दधिक्राव्न इत्यादिना दधि ओँ तेजो-ऽसीत्यादिना घृतं ओँ देवस्य त्वा सवितुःप्रसवेश्विनोर्ब्बाहुभ्यां पूष्णी हस्ताभ्यामाददे इतिकुशोदकञ्च शोधयित्वा गायत्त्र्या सर्व्वमेकीकृत्यतेन वेदीमभ्युक्ष्य तत्र घटान् संस्थाप्य गणेशंग्रहान् विष्णुञ्च संपूजयेत् ततो हस्तप्रमाणंस्थण्डिलं शर्कराङ्गारास्थिकेशतुषादिरहितंपूर्व्वोत्तरप्लवं समं वा गोमयेनोपलिप्य तत्रस्वगृह्योक्तविधिनाग्निं संस्थाप्य स्वस्वगृह्योक्त-वृषोत्सर्गपद्धतिक्रमेण कर्म्म कृत्वा प्राङ्मुखींधेनुमग्निसमीपं नीत्वा ओँ मा नस्तोके तनयेमा आयुषि मा नो गोषु मा नोऽश्वेषु रीरिषः ।वीरान्मा नो रुद्रभामिनोऽवधीर्हविष्वन्तः सद-मित्त्वा हवामहे इति मन्त्रेण धेनोर्वामसक्-थिनि षडङ्गुलं त्रिशूलं चन्दनेन कुशेन लिखेत् ।वीरान्मा इति सामगानाम् यजुषान्तु मा नोवीरानिति मन्त्रभागे पाठः ततः ओँ वृषो-ह्यसि भानुना द्युमन्तं त्वा हवामहे पवमानःस्वर्दृ शम् इति मन्त्रेण दक्षसक्थिनि पञ्चाङ्गुलंआरहीन चक्रञ्च तथैवाचार्य्यो लिखेत् अस्मि-न्नवसरे अग्नेरुत्तरे सवत्सधेनुमौलिकं यूप-मारोपयेत् ततः स्वस्वगृह्योक्तविधिना वृष-वद्धेनुं स्नापयेत् ततः सितवाससा जलमपनीयगन्धचन्दनपुष्पाञ्जनसिन्दूरगोरोचनाद्रव्यैः स्वर्ण-शृङ्गाभ्यां रूप्यसफैश्च वस्त्रेण कांस्यक्रोडेनताम्रपृष्ठेन घण्टाचामराभ्याञ्च यथायोग्यं तथाकर्णयोः प्रबालमालिकाभ्याञ्च धेनुं भूषयित्वापाद्यादिभिरभ्यर्च्च्य स्वस्वगृह्योक्तश्राव्यमन्त्रान्श्रावयित्वा प्राङ्मुखीं धेनुं शुक्लवाससा यूपेबध्नीयात् ततो यजमान उत्तरामुखः धेनो-र्मस्तकादिक्रमेण तत्तन्मन्त्रैः पूजयेद्यथा शिरसिओँ ब्रह्मणे नमः एवं ललाटे वृषभध्वजायनमः कर्णयोः अश्विनीकुमाराभ्याम् चक्षुषोःशशिभास्कराभ्याम् जिह्वायां सरस्वत्यै दन्तेषुवसुभ्यः ओष्ठयोः सन्ध्यायै ग्रीवायां नील-कण्ठाय हृदि स्कन्दाय रोमकूपेषु ऋषिभ्यः ।दक्षपार्श्वे कुवेराय वामपार्श्वे वरुणाय रोमाग्रेरश्मिभ्यः ऊरुषु धर्म्माय जङ्घासु अधर्म्माय ।श्रोणीतटे पितृभ्यः खुरमध्ये गन्धर्व्वेभ्यः ।खुराग्रेषु अप्सरोभ्यः लाङ्गूले द्बादशादित्येभ्यः ।गोमये महालक्ष्म्यै गोमूत्रे गङ्गायै पयोधरेषुचतुःसागराय एवं संपूज्य पठेत् ।ओम् इन्द्रस्य त्वमिन्द्राणी विष्णोर्लक्षीश्च यास्मृता ।रुद्रस्य देवी या गौरी सा देवी वरदास्तु मे
ओँ या लक्ष्मीर्लोकपालानां या देवेष्व-वस्थिता ।धेनुरूपेण सा देवी मम पापं व्यपोहतु
ओँ देहस्था या रुद्राणी शङ्करस्य सदाप्रिया ।धेनुरूपेण सा देवी तस्याः शान्तिं प्रयच्छतु
ओँ सर्व्वदेवमयी दोग्ध्री सर्व्वलोकमयी तथा ।धेनुरूपेण सा देवी तस्याः स्वर्गं प्रयच्छतु
ततः ओम् आचार्य्याय नमः इत्यनेनोदङ्मुखंसम्प्रदानब्राह्मणं पाद्यादिभिः संपूज्य एवं ओँरुद्राय नमः इति तद्देवतां संपूज्य ओँ चन्दना-ङ्कितसवत्सधेनवे नमः इत्यनेन पाद्यार्ध्याचम-नीयगन्धपुष्पैर्धेनुं संपूज्य संप्रोक्ष्य ब्राह्मण-हस्ते जलं दत्त्वा कुशतिलजलान्यादाय ओँ तत्सदद्यामुके मासि अमुके पक्षे अमुकतिथाव-मुकगोत्रायाः प्रेताया अमुकाया अशौचान्ता-द्द्वितीयेऽह्नि अमुकगोत्रायाःप्रेताया अमुकायाःप्रेतलोकविमुक्तत्वस्वर्गलोकगमनकामोऽहं एतांसालङ्कारां चन्दनाङ्कितसवत्सधेनुं रुद्रदेवताकांअमुकगोत्राय श्रीअमुकदेवशर्म्मणे आचार्य्य-ब्राह्मणाय तुभ्यं ददानीति ब्राह्मणहस्ते जलंदद्यात् ततः सम्प्रदानब्राह्मणः पुच्छं धृत्वाओमित्युक्त्रा प्रतिगृह्य स्वस्तीत्युक्त्रा सावित्रींपठेत् ततो धेनुरियं रुद्रदेवताकेति वदेत् ।यथाशाखं कामस्तुतिञ्च पठेत् यथा साम-वेदे ओँ इदं कस्मा अदात् कामः कामाया-दात् कामो दाता कामः प्रतिग्रहीता कामःससुद्रमाविशत् कामेन त्वा प्रतिगृह्णामि कामै-तत्ते
यजुर्व्वेदे तु ओँ द्यौस्त्वा परिददातुपृथिवी त्वा प्रतिगृह्णातु कोऽदात् कस्मा अदात्कामः कामायादात् कामो दाता कामः प्रति-ग्रहीता कामैतत्ते तव कामशतात् भुनजामहे
ऋग्वेदे तु सामगमन्त्रान्ते ओँ वृष्टिरसिद्यौस्त्वा परिददातु पृथिवी त्वा प्रतिगृह्णातु ।इदमधिकम् ततो यजमानः ओँ अद्योत्यादिकृतैतत्सालङ्कारचन्दनाङ्कितसवत्सधेनुदानर्क-र्म्मणः साङ्गतार्थं दक्षिणामिमं वृषं तन्मूल्यं वाविष्णुदैवतं अमुकगोत्राय श्रीअमुकदेवशर्म्मणेआचार्य्याय ब्राह्मणाय तुभ्यमहं ददानीत्या-चार्य्याय दद्यात् आचार्य्यस्तु ओमिति गृहीत्वास्वस्तीति वदेत् ततो वृषोत्सर्गवन्मन्त्रोहेनस्वस्वगृह्योक्तश्राव्यादिशेषं कर्म्म समापयेत् ।ततः सदस्यदक्षिणां दत्त्वा आहूतान् वस्त्र-माल्यादिभिः पूजयेत् सामगश्चेदिदानीं ब्रह्म-होत्राचार्य्यसदस्येभ्यो ब्राह्मणेभ्यो दक्षिणांवृषोत्सर्गवद्दद्यात् अन्यवेदी तु स्वस्वगृह्योक्त-रीत्या यथास्थानं दक्षिणां वृषोत्सर्गवद्दद्यात् ।शूद्रस्तु यजुर्व्वेदिवत् संर्व्वं कुर्य्यात् किन्तु मन्त्र-पाठं ब्राह्मणेन कारयेत् दीनानाथादींश्चवस्त्रान्नाद्यैस्तोषयेदिति
*
इति श्रीचन्द्रशेखर-वाचस्पतिभट्टाचार्य्यविरचितः चन्दनाङ्कितधेनु-दानसविधिप्रयोगः समाप्तः
वाचस्पत्यम्
Sanskrit
चन्दनधेनु स्त्री पतिपुत्रवत्या मृताया नार्य्या उद्देशेन पुत्रदात-व्यायां चन्द्रनाङ्कितधेनौ तद्विधिमाह रत्नाकरे देवलः“जीवद्भर्त्री तु या नारी पुत्रिणी म्रियते यदि सवत्-सामङ्कितां धेनुमाचार्य्याय प्रदापयेत् पतिपुत्रवती नारीम्रियते याग्रतस्तयोः वृषं नचोत् सृजेत् पुत्रः पितायावच्च जीवति” तथा कर्मोपदेशिन्यां ब्राह्मणसर्वस्नेचाहलायुधधृतानि वचनानि स्मृतिः “पतिपुत्रबतीनारी म्रियते भर्त्तुरग्रतः चन्दनेनाङ्कितां “धेनुंतस्याःस्वर्गाय कल्पयेत्” तथा जातूकर्णः घेनुं चन्द-नमालिप्य यो दद्यान्मातृहेतवे यदि पापणतैर्युक्तातथापि स्वर्गमाप्नुयात्” तथा वशिष्ठः “न युक्तश्चवृषोत्सर्गः पिता यावत् तु जीवति चन्दनेनाङ्कितांधेनुमाचार्य्याय प्रदापयेत्” “चतुर्हस्तो भवेद्पूपो यज्ञ-वृक्षसमुद्भवः वर्त्तुलः शोभनः स्थूनः कर्त्तव्यो घेनु-मौलिकः विल्वस्य बकुलस्यैव कलौ यूपः प्रशस्यते ।अभावे वारुणेनापि यूपं कुर्य्याद्विधानतः” “तरुणीरूपसम्पन्नः सुशीला पयस्विनी न्यायार्ज्जिता गृहेजाता देया सा श्रोत्रियाय गौः नदीतीरे वने गोष्ठेदेवतायतनेषु व्रीहिक्षेत्रे कुशक्षत्रे राजद्वारेचतुष्पथे” एषु वचनेषु वृषोत्सर्गनिषेधचन्दनधेनूत्सर्गविध्योर्युगपदुपसंहारदर्शनात् वृषोत्सर्गस्थानेप्रधानतया चन्दनधेनूत्सर्गः प्रतीयते अतोऽस्यवृषोत्सर्गकार्य्यकारित्वात् तत्कलहेतुत्वं लभ्यते ।“एकोद्दिष्टं कुर्व्वीत न्यासिनाञ्चैव सर्वदा अहन्ये-कादशे प्राप्ते पार्वणं तु विधीयते” इति श्राद्धविवेकधृतो-शनोवचने त्रिदण्डसन्न्यासिनाम् एकोद्दिष्टनिषेधपार्वणविध्योर्युगपदुपसंहारात् एकोद्दिष्टस्थाने पार्वणमिव ।यद्वा पतिपुत्रवतीरूपप्रेतविशेषाधिकृतवृषं चोत्सृजेदिति निषेधचन्दनधेनूत्सर्गविधिभ्यां प्रेतमात्राधिकृतसामान्यवृषोत्सर्गविध्यवगतफलभावनाकरणी-भूतवृषकर्मकत्यागमनूद्य तत्कर्मीभूतवृषमपहाय तत्स्थानेधेनुमात्रगुणविधिर्लाथयादवगम्यते पशुयागे सामा-न्यविध्यवगतापःप्रणयणीयाधिकरणचमसस्थाने “गो-दोहेनापः प्रणवेदिति” विशेषविधिना गोदोहगुणविधिवत् “नालाभेऽपि प्रवेशिनीम् उपोष्यद्वादशीं तत्र त्रयोदश्यान्तु पारणम्” इत्यत्रएकादशीरूपनिमित्तस्थाने द्वादशीमात्रगुणविधिवच्च ।अन्यथा धेनूत्सर्गस्य पृथक्कर्मत्वे फलभावनातत्करणनियोज्यानां पृथक्कल्पने गोरवं स्यात् उक्त-विधिनिषेधयोरुपसंहारवैयर्थ्यञ्च स्यात् ततश्चकारणैक्यात् फलैक्यमिति चन्दनधेनूत्सर्गेऽपि प्रेन्तत्वविमुक्तिपूर्वकस्वर्गप्राप्तिः फलम् एवं किपिलोक्तमन्त्रस्थपापव्यपगमस्वर्गप्रार्थनायाअपि तथैव तात्पर्य्यम् ।तथा जातूकर्णवचनस्थपापस्वर्गपदयोरपि तथैव तात्-पर्य्यं वोध्यम् भूतार्थानां विधिशेषिणामेव जैमिन्युक्तप्रामाण्येन प्रकृते सिद्धे विधिशेषित्वे लाघवात् “पापि-ष्ठमपि शुद्धेन शुद्धं पापकृत्यापि वेति” कात्यायनवचनस्यपापपदस्य प्रेतत्व एव तात्पर्य्यदर्शगाच्च अत्र यद्यपिपतिपुत्रवतीत्यत्र पतिपुत्रवत्त्वस्य विशेष्यीभूतकर्त्रन्वयिमरणानन्वयित्वेन विशेषणत्वं किन्तूपलक्षणत्वमेव ततश्चकाकवन्तो देवदत्तस्य गृहा इतिवत् कादाचित्कतद्वत्ता-मादायापि पतिपुत्रवतीति प्रयोग उपपद्यते तथापि“अग्रतस्तयोः” “भर्त्तुरग्रतः” इत्याभ्यां मरणकालिकी पतिपुत्रसत्ताऽवगम्यते गवां गोष्ठे इतिवत् अथ वापरार्द्धान्वयेन धेनूत्सर्गकालिकीति नच “अपुष्पितामृता काचित् तस्याधेनु र्विगर्हिता” इति कपिलवचनेअपुष्पितायाः पुत्रकर्त्तृकधेनूत्सर्गनिषेघस्याप्रसक्त-तया सपत्नीपुत्रकर्त्तृकधेनूत्सर्गनिषेधप्राप्तौ तद्दृष्ट्यापतिपुत्रवतीत्यस्य सपत्नीपुत्रवतीपरत्वम् अवश्यंवाच्यम् तदेकवाक्यतया पुत्रिणीत्यादावपि तथात्वमिति वाच्यम् अपुष्पितेति कपिलार्द्धस्य प्रसक्तिपर्वकतार्थं पतिपत्रवद्निवृत्त रजस्काया धेनूत्सर्गनिषेधार्थत्वात् गत्यां सत्यां लक्षणाया वीजाभावात् ।पतिवोगिवत् ध्वंसप्रागभावयोरपि अत्थन्ताभावविरो-वित्वमते तु अजातपुष्पस्त्रीपरत्वं वा भवतु तथात्वेऽपि“तस्या धेनुर्विगर्हितेति” अप्रसक्तार्थाप्रि अपुष्पिताधेनुदाननिन्दा स्तुतिपरा यथा हरेरुत्थाने “पौष्णशेप्रेण किन्तेन प्रतिपद्यथ योनिशि” इत्यप्रसक्तापि निन्दाएकादश्यादिपौर्णमास्यन्तपञ्चके रेवत्यन्तपादयोनविधिस्तुतिपरा यथा वा वेदगाने “यो गिरा गिरेति ब्रूयात्स आत्मानमपि गिरेत्” इत्यप्रसक्तनिन्दा “ऐरं कृत्वाअवगिरेदिति विधेः स्तुतिपरा अतएव उक्तंशा-वरमाष्ये “न हि निन्दा निन्द्यं निन्दितुं प्रवर्त्ततेअपि तर्द्वीवरत् स्तोतुमिति” स्तुतौ हि अप्रसिद्धगुणदोषारोपो दोषाय नचात्र काम्यस्यैव कार्त्तिवचादिवृषोत्सर्गस्य स्थाने धेनुदानं विधीयते इतिवाच्यम् तन्मात्रपरत्वे मानामावात् प्रत्युतम्रियत इति वर्त्तमानार्थकविभक्त्या वर्त्तमानसामीप्ये-नाचिरप्रमीतोपस्थितेश्च ये तु “बह्वीनामेकपत्नीनामेका चत् पुत्रिणी भवेत् सर्वास्तास्तेन पुत्रैण प्राहपुत्रवतीर्मनुरिति” मनुना पुत्रववीत्वामियावादेव पति-पुत्रवतीत्यत्र सपत्नीपुत्रवती प्रतीयते इति ब्रुवतेतेऽतीव भ्रान्ताः पुत्रवतीतिषदस्याखण्डतया मतुपापतिपदस्यान्वये तटस्थत्वापत्तेः गनु वृषतुल्यवयोवर्णोवृषः स्याद्दक्षिणा द्विजाः वृषोत्सर्भे ततापुंसां स्त्रीणां स्त्रीगोर्विशिष्यते” इति भविष्यसंवा-दाद्धेनुदानमिदं पतिपुत्रवत्या वृषोत्सर्गे दक्षिणादानस्य विशेषरूपम्, तुप्रधानकर्म्मान्तरं गौरवात् ।न दक्षिणाया अङ्गत्वेन फलासङ्गतिः “यस्म पर्ण-सयी जुहूभवति पापश्लोक शृणोतीति” वत्तदुप-पत्तेरिति चेत् वृषोत्सर्गदक्षिणातश्चन्दनाङ्कितधेनुदानस्य प्रकरणान्तराम्नायन प्रकरणान्तरन्यायतःप्रधानत्वसिद्धेः वृषोत्सर्गस्थानीयत्वेनानुवर्त्तमानशिष्टाचारात् धेनुदानयुगनद्धवृषोत्सर्गनिषेधाना-मसङ्गतेः कपिलपञ्चरात्रे चन्दनधेनुदानस्यापीतिकर्त्तव्यतायां वृषरूपदक्षिणादागविधानाच्च यथाकपिल उवाच “अतःपरं प्रवक्ष्मामि धेनुदानमनु-त्तमम् पतिपुत्रवती नारी म्रियते भर्त्तुरग्रतः ।चन्दनेनाङ्कितां धेनुमाचार्य्याय निवेदयेत्” तथा-“जीवद्भत्रीतु या नारी पुत्रिणी त्रियते यदि सवत्सा-मङ्कितां धेनुमाचार्य्याय निवेदयेत् साध्वी पतिव्रता नारीम्रियते याग्रतस्तयोः वृषं नैवोत्सृजेत् पुत्रः पितायावत् तु जीवाति मृतपुत्रा या नारी संगृहीता तुया भवेत् तस्या धेनुर्न दातव्या वृषोत्सर्गो विधीयते ।“अपुष्पिता मृता काचित्तस्या धेनुर्विगर्हिता दद्याद्धेनुंसुतो ज्येष्ठः कनिष्ठो वृषमुत्सृजेत् द्वयोः सोदरयोरेकोभवेत् ज्येष्ठः प्रधानतः त्रयाणां द्वा सुतौ ज्येष्ठौ, चतु-र्णाञ्च त्रयः स्मृताः पञ्चानां सोदराणाञ्च त्रयोज्येष्ठाःप्रकीर्त्तिताः ज्येष्ठेनैव तु कर्त्तव्यं धेनुदानं विधा-नतः हेमशृङ्गींस्मुरै रूप्यैः सुशीलां वस्त्रसंयताम् ।कांस्योदरीं ताम्रपृष्ठां घण्टाचामरभूषिताम् प्रबालषालिकां दद्यात् कर्णयोरुभयोरपि चन्दनेनाङ्कितांधेनुमाचार्य्याय निवेदयेत् मवां लोकमवाप्नोतिदिवि देवैश्च मोदते चन्दनेनाङ्कितां धेनुं दत्त्वा-गच्छेत् सुरालयम् तावत्तिष्ठति स्वर्लोके यावदाहूलसंप्लवम् नचोत्सर्गो वृषस्यात्र वत्सतर्य्यत्वितस्यच वृषोत्सर्ग विधानेन कर्त्तव्यं सर्वकर्म मानंस्तोकेति मन्त्रेण दक्षे वषोऽज्यसीति धेनोश्चसक्थिदेशे तु त्रिशूलाङ्कं समालिखेत् वामभागे विशेषोऽयं दक्षे चक्रं समालिखेत् तत्रान्यद्वर्जयेद्विद्वानाचा-र्य्यस्तु विधानवित् ततो वैसंलिखेच्चकं पञ्चाङ्गुलप्रमाणकम् शूलं षडङ्गुलं कार्य्यं दक्षे वामे यथाविधि ।पूर्वाशाभिमुखीं धेनुं यजमानोत्तरामुखः मस्तकादिक्रमेणैव प्रतिमन्त्रः प्रपूजयेत्” ।“एवंविशिष्टां तां धेनुं दत्त्वा तपणमारभेत् पुच्छंगृहीत्वा पित्रादीन् वर्षोत्सर्गविधानतः ऐशान्यांचालयेत् किञ्चित् आचार्य्याय दक्षिणाम् वृषभञ्चततो दद्यादाचार्य्याय गुणान्वितम् पूजयेत् ब्राह्मणांश्चैववस्त्रमाल्यादिभिस्ततः कांस्यपात्रं वस्त्रयुग्मं सुवर्णञ्चविशेषतः आचार्य्याय प्रदातव्यं ब्रह्मणे कनकन्तथा ।आगतान् पूजयेद्भक्त्या यथाशक्ति विधानतः दीनार्त्त-कृपणादींश्च अन्नाद्यैः परिपोषयेत्” पुस्तकान्तरेपाठाधिक्यं यथा“एकादशाहे प्रेतायाः षण्मासे चाविदके तथा त्रिपक्षेमासिके वापि दद्याद् गां चन्द्रनाङ्किताम्” तथा वराह-पुराणम् “अयने विषुवेऽष्टम्यां युगाद्यापूर्णिमासु दर्शेमन्वन्तरे चैव धेनुं दद्यात् सुपूजिताम्” नर्नु आद्यश्राद्धेत्रिपक्षे बा” इत्यादिना आद्यश्राद्धकर्त्तव्यनित्यवृषोत्सर्गकालस्य परपरकालो गौणः वा सर्वे मुख्याः का-लाःस्युः तत्र नाद्यः त्रिपक्षादौ शिष्टाचारविरोधात् ।नापि द्वितोयः त्रिपक्षादौ नित्यत्वबोधकाभावात् वस्तुतःआद्यश्राद्धे वृषोत्सर्गस्व नित्यत्वं त्रिपक्षादौ काम्यत्वम् ।आद्यश्राद्धपदम् अशौचान्तद्वितीयदिनपरम् “अशौ-चान्तात् द्वितीयेऽह्नीत्याद्येकवाक्यत्वात् अत्र आद्यश्राद्धस्य विघ्नपतितत्वेन एकादश्यादौ क्रियमाणत्वेवृषोत्सर्गमपि कुर्य्यात् आद्यश्राद्धदिने वृषोत्सर्गा-करणे त्रिपक्षाद्यान्यतमकालेऽपि वृषोत्सर्गस्यावश्यप्रेतत्यकरीहारकत्वेन तस्य पुनः संवत्सरसाध्यसकृत्कृतस्यनित्यत्वं कल्प्यम् एवं धेनुदानस्यापि अतएव पूर्णसंवत्सरे मलमासपातेऽपि प्रागकृतश्चेत् कार्य्यएव इतिनवीनाजगुः एककर्त्तृकानेकवृषोत्सर्गोऽपि शिष्टा-चारादेकदिनेऽपि तथा हि स्वर्गलोकगमनफलश्रुतेःकाम्यत्वेन “यो भूय आरभते तस्मिन् फले विशेषः” इतिन्यायादविरोधः ननु नैमित्तिकत्वात् कथमावृत्तिः“सकृत् कृते कृतः शास्त्रार्थः” इति न्यायात् नचैकत्रक्रियाद्वयमिति वचनाच्च अत्रायं विशेषः काम्य-नैमित्तिकं फलविशेषार्थं भूयः कार्य्यं, नैमित्तिकमात्रं तुसकृदेव किञ्च संक्रान्त्यादिनिमित्तकश्राद्धमपिपुनः पुनः स्यात् मैवं तत्र पितृतृप्तिरूपप्रधानफलस्यसत्त्वेन चरितार्थत्वात् अत्रोक्तानि सर्वाण्येतानिवचनानि निर्य्यगधिकरणन्यायमूकानि तथा हि ति-र्य्यगधिकरणे तिर्य्यक्पङ्गुत्र्यार्षेयदेवतानामनघिकारइति यागमात्रे उक्तम् तत्र हेतवः तिरश्चां विशि-ष्टान्तःकरणविरहात् त्र्यार्षेयाणाम् अन्धवधिरमूका-नामवेक्षणश्रवणोच्चारणविरहात् साङ्गयागासामर्थ्येतेषां यथा यागानधिकारस्तद्वदत्र “स्वपितुः पितृकृत्येषु“कारो विद्यते” इति छन्दोगपरिशिष्टे अग्नि-ष्वात्ताद्यन्तर्गणानुक्त्वा “जीवत्पितृकश्चैतानन्याश्चेतर”इति कात्यायनसूत्रे जीवत्पितृकस्य पितृतर्पणनिषेधात् वृषोत्सर्गे तदङ्गभूततद्पुच्छगलितोदकतर्पणविरहात् साङ्गकरणासामर्थ्ये वृषोत्सर्गेऽनघि-कारः अतएव द्वैतनिर्णयेऽपि स्त्रियाः “किर-णीभूतऋग्वाधेन यागवद्वृषोत् सर्गस्य वाघ उक्तो वाच-स्पतिमिश्रेण धेनुदानाङ्गतर्पणे तु प्रधानापिकारश्रुतेः जीवत्पितृकाधिकृतविशेषविघानाच्चाधिकार एवा-भ्युदयिकश्राद्धवत् जन्ममास्यु पनयनाङ्गमशिखवपनवच्च ।अयन्तु सामान्यशास्त्रोपजीवित्वेन निपेधः पर्य्युदासएव यदि पतिपुत्रवतोभिन्नाया वृषोत्मर्गं कुर्य्यात् इत्ये-वंमात्रस्तदा पूर्व्वभागवैयर्थ्यं स्यात् यदि पतिपुत्रवत्याजीवत्पितृकपुत्रभिन्नो वृषोत्सर्गं कुर्य्यादिति विशिष्ट-रूपस्तथापि पतिपुत्रवत्यास्तदुभयरहितायाश्च जीवत्-पिवृकपौत्रादिना वृषोत्सर्गः स्यात् चायुक्तएवप्रागुक्तवचनन्यायविरोधात् तस्मात् ममुदायवचनसा-र्थक्याय पतिपुत्रवतीभिन्नाया वृषोत्सर्गं कुर्य्यात् तथाजीवतपिवृकमिन्नो वृषोत्सर्गं कुर्य्यात् इति वचनन्यायसंवादाद्वाक्यद्वयमेवं सिद्ध्यति प्रमाणद्वौरवस्य म-र्वैरङ्गीकृतत्वात् दर्शपौर्णमासयोः षट्प्राधानापूर्व्व-वत् अय वोक्तदेवलादिवचने “ज्येष्ठेनैव तु कर्त्तव्यधेनुदानं विधानतः” इत्यन्तकापिलादिसकलवचनपर्य्यालोच-नया कनिष्ठपुत्रवतीभिन्नपतिपुत्रवतीतरजनस्य कापिलपतिप्रसूतकनिष्ठपुत्रभिन्नजोवत्पितृकादन्यो जनो वृषोत्मगकुर्य्यात् इति सामान्यत एव वृषोत्सर्गविधिः तथापतिपुत्रवत्या ज्येष्ठपुत्रएव चन्दनाङ्गितघेनुमुत्सृजेदितिविधिश्च सिद्ध्यति ततश्च पतिपुत्रवत्याः कनिष्ठपुत्रसत्त्व-एव तदन्यमृतपितृकेण वा वृषोत्सर्गः कार्य्यः कनिष्ठ-त्राभावे तु केनापि एवं पत्यादिना चन्दनधेनुदानामिति प्रतिप्रसूतकनिष्ठान्यजोवत्पितकेण क-स्यापि वृषोत्सर्गः कार्य्य इत्यपि पर्य्यवस्तितम् वस्तु-तस्तु पतिपुत्रवत्या वृषोत्सर्गनिषेधे तत्पुत्रस्य जीवत्पित-कत्वेनानधिकार एव हेतुः तु स्त्रियाः पतिसत्त्वंपुत्रसत्त्वं वा मृतपुत्रेत्यादिपागुक्तकापिलवचनेपतिसत्त्वे कनिष्ठपुत्रसत्त्व वृषोत्सर्गावगतेः तत्-पुत्रस्य पितुः सत्त्व एवानघिकारोक्त्या तन्मरणे वृषोत्सर्गावगमाच्च वा तदुभयसुत्त्व भिलितम् उक्त-न्यायावगतस्य तत्पुत्रस्य जीवत्पितृकत्वहेतोरेव तादृशनिषेधप्राप्तेः पतिपुत्रसत्त्वयोर्निर्वीजहेतुत्वकल्पनानौचित्यात् तयोर्वाचनिकहेतुत्वे तु अदृष्टकल्पनायाअनाय्यत्वात् सिद्धजीवत्पितृकनिषेधप्रपञ्चतयापतिपुत्रवत्या निषेधोपपत्तौ अधिकनिषेधकल्पनेगौरवाच्च यस्तु जीवत्पितृकवर्षोत्सर्गनिषेधे पति-पुत्रवत्याः पृथमुपसंहारः सोऽपि तस्याः पुत्रानधिकार-मात्रप्रयुक्तसिद्धवृषोत्सर्गाभावभागित्वानुवादः पूर्व-वाक्यावगतधेनुदानस्य वृषोत्सर्गस्थानीयत्वज्ञापनार्थएवेति प्रागपि निरूपितम् ततश्चोक्तवचने तिर्य्य-गधिकरणन्यायप्राप्तं जीवत्पितृकस्य वृषोत्सर्गकर्तृ-त्वाभावमन्द्य सपतिकाया वृषोत्सर्गस्थाने चन्दना-ङ्कितधेनूत्सर्ग एव विधीयते एतेन वृषोत्सर्गकर्त्तरिकपिलप्रतिप्रसूतसपतिकावृषोत्सर्गकृतिमत्कनिष्ठपुत्रान्य-जीवत्पितृकेतरत्वविशेषणं सपतिकाया वृषोत्-सर्गस्थाने ज्येष्ठपुत्रस्यैव चन्दनाङ्कितधेनूत्सर्गमात्रश्चलभ्यते अतोजीवत्पितृकेण काम्यवृषोत्सर्गः पतितेप्रव्रजिते वा पितरि जीवति पितामहादिवृषोत्सर्गश्चन क्तार्य्यः एवं सपतिकाया अपि पुत्रस्य कर्मायो-ग्यत्वे असत्त्वे वा पत्या कन्यादिना वा वृषोत्सर्गःकार्य्य एवेति स्थितम् इदन्तु रत्नाकरहलायुधाचार्य्यचूडामणिविद्याभूषणशुभङ्करमहादेवभट्टाचार्य्य प्रभृ-तीनामपि सम्मतं तेषां पृथक् पृथक् पद्धतिरपिप्रसिद्धास्ति कृचिद्देशे स्मार्त्तभट्टाचार्य्यस्यापि समूलपद्धतिर्दृश्यते अत एवात्र विशेषादर्शिनामनाचारो-ऽनाचार एव अत्र भविष्योक्तप्रकारस्तु वैकल्पिकएव“स्मृतिशास्त्रे विकल्पो हि आकाङ्क्षापूरणे सतीति” जैमि-न्युक्तेः तत्रत्यपूजाहोमाद्यङ्गेषु विशेषमन्त्रोक्तेः ।कपिलकल्पेन वृषोत्सर्गधर्म्मातिदेशेन विशेषोक्त-निरासाच्च” नव्यवाचस्पतिमतम् रघुनन्दनमते तु चन्द-नधेनोः काम्यत्वमात्रत्वात् वृषोत्सर्गं व्रिहाय केबल चन्द-नधेनुदानं शास्त्रसिद्धं काम्येन नित्यबाधायोगात् सतिसामर्थ्ये उभयकर्त्तव्यतार्थं वृषोत्सर्गनिन्दा चन्दनधेनुदानस्तुतिपरा रघुनन्दनकृततत्पद्धतिसत्त्वेऽपि तस्यकाम्यस्यैव विधानार्थत्वम् इति साम्प्रदायिकाः