चक्षूरोग (cakSUroga)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
Spoken Sanskrit
Englishचक्षूरोग - cakSUroga - - eyedisease
चक्षूरोग - cakSUroga - - disease of the eye
चक्षूरोग - cakSUroga - - ocular disease
Help us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
Apte Hindi
Hindiचक्षूरोगः
चक्षुस्-रोगः -
आँख की बीमारी
Shabdartha Kaustubha
Kannadaचक्षूरोग
पदविभागः - > पुल्लिङ्गः
कन्नडार्थः - > ನೇತ್ರ ರೋಗ /ಕಣ್ಣಿನೊಳಗುಂಟಾಗುವ ರೋಗ
व्युत्पत्तिः - > चक्षुषो रोगः
वाचस्पत्यम्
Sanskritचक्षूरोग ६ त० । नेत्ररोगे नेत्रावयवविभागः सुश्रुतोकःअक्षिशब्दे ४५ पृ० दर्शितः । तत्र निदानादि सुश्रुते उक्तं“उष्णाभितप्तस्य जलप्रवेशाद्दूरेक्षणात् सप्नविपर्य्ययाच्च ।प्रसक्तसंरोदनशोककोपक्लेशाभिघातादतिमैथुनाच्च । शु-क्तारनालाम्लकुलत्थमाषनिषेवणाद्वेगविनिग्रहाच्च । स्वे-दाद्रजोधूमनिषेवणाच्च छर्देर्विघाताद्वमनातियोगात् । वा-ष्पग्रहात्सूक्ष्मनिरीक्षणाच्च नेत्रे बिकारान् जनयन्तिदोषाः । वाताद्दश तथा १० पित्तात् कफाच्चैव त्रयोदश । र-क्तात् षोडश विज्ञेया सर्वजाः पञ्चविंशतिः । तथा बाह्यौपुनर्द्वौ च रोगाः षट्सप्ततिः स्मृताः । हताधिमन्थोऽ-निमिषो दृष्टिर्गम्भीरिका च या । यच्च वातहतं वर्त्मन ते सिध्यन्ति वातजाः । याप्योऽथ तन्मयः काचःसाध्याः स्युः सान्यमारुताः । शुष्काक्षिपाकाधीमन्थस्यन्द-मारुतपर्य्ययाः । असाध्योह्रस्वजात्यो यो जलस्रावश्चपैत्तिकः । परिम्लायी च नीलश्च याप्यः काचोऽथ त-न्मयः । अभिष्यन्दोऽधिमन्थोऽम्लाध्युषितं शुक्तिका-ह्वया । दृष्टिः पित्तविदग्धा च पोथक्यो लगणश्च यः ।असाध्यः कफजस्रावो याप्यः काचोऽथ तन्मयः । अ-भिष्यन्दोऽधिमन्थश्च बलासग्रथितञ्च यत् । दृष्टिः श्ले-ष्मविदग्धा च पोथक्यो लगणश्च यः । क्रिमिग्रन्थि-प्ररिक्लिन्नवर्त्मशुक्लार्म्मपिष्टकाः । श्लेष्मोपनाहः साध्यस्तुकथिताः श्लेष्मजेषु तु । रक्तस्रावोऽजकाजातं शोणि-तार्शोऽवलम्बितम् । शुक्रं न साध्यं काचश्च याप्य-स्तज्जः प्रकीर्त्तितः । मन्थस्यन्दौ क्लिष्टवर्त्महर्षोत्पातौतथैव च । सिराजावञ्जनाख्या च सिराजालञ्च यत्स्मृतम् । पर्वण्यथाव्रणं शुक्रं शोणितार्म्मार्ज्जुनश्चयः । एते साध्या विकारेषु रक्तजेषु भवन्ति हि । पू-यस्रावो नाकुलान्ध्यमक्षिपाकात्ययोऽलजी । असाध्याःसर्वजा याप्याः काचः कोपश्च पक्ष्मणः । वर्त्मावबन्धोयो व्याधिः सिरासु पिडका च या । प्रस्तार्य्यर्माधि-मांसार्मस्नाय्वर्मोत्सङ्गिनी च या । पूयालसश्चार्वुदञ्च श्या-वकर्दमवर्त्मनी । तथार्शोवर्त्मशुक्रार्मः शर्करावर्त्म यच्चवै । सशोफश्चाप्यशोफश्च पाको बहलवर्त्म च । अ-क्लिन्नवर्त्म कुम्भीका विसवर्त्म च सिध्यति । सनिमित्तोऽनिमित्तश्च द्वावसाध्यौ तु वाह्यजौ । षट्सप्ततिविका-राणामेषा संग्रहकीर्त्तना । नव सन्ध्याश्रयास्तेषु व-र्त्मजास्त्वेकविंशतिः । शुक्रभागे दशैकश्च चत्वारः कृ-ष्णभागजाः । सर्व्वाश्रयाः सप्तदश दृष्टिजा द्वादशैव तु ।वाह्यजौ द्वौ समाख्यातौ रोगौ परमदारुणौ । भूयएतान् प्रवक्ष्यामि सङ्ख्यारूपचिकित्सितैः” ।“अथातः सन्धिगतरोगविज्ञानीयमध्यायं व्याख्यास्यामः ।पूयालसः १ सोपनाहः २ स्रावाः ३ । ४ । ५ । ६ पर्वणिका-लजी ७ । ८ । कृमिग्रन्थिश्च९ विज्ञेया रोगाः सन्धि-गता नव । पक्वः शोफः सन्धिजः संस्रवेद्यः सान्द्रंपूयं पूति पूयालसः १ सः । ग्रन्थिर्नाल्पो दृष्टिसन्धा-वपाकः कण्डूप्रायो नीरुजस्तूपनाहः २ । गत्वासन्धीनश्रुमार्गेण दोषाः कुर्युः स्रावान् रुग्विहीनान्स्वलिङ्गान् । तान् वै स्रावान् नेत्रनाडीमथैकेतस्या लिङ्गं कीर्त्तयिष्ये चतुर्द्धा । पाकः सन्धौसंस्रवेद्यश्च पूयं पूयास्रावो२ नैकरूपः प्रदिष्टः । श्वेतंसान्द्रं पिच्छिलं यः स्रवेच्च श्लेष्मास्रावो नीरुजः स प्र-दिष्टः । रक्तास्रावः ३ शोणितोत्थः सरक्तं कोष्णं नाल्पंसंस्रवेन्नातिसान्द्रम् । पीताभासं नीलमुष्णं जलाभंपित्तस्रावं४ संस्रवेत् सन्धिमध्यात् । ताम्रा तन्वी दाह-शूलोपपन्ना रक्ताज्ज्ञेया पर्वणी ७ वृत्तशोफा जाता सन्धौकृष्णशुक्ले ऽलजी८ स्यात्तस्मिन्नेवाख्यापिता पूर्वलिङ्गैः ।क्रिमिर्ग्रन्थिर्वर्त्मनः पक्ष्मणश्च कण्डूं कुर्य्युः कृमयः ९सन्धिजाताः । नानारूपा वर्त्मशुक्लस्य सन्धौ चरन्तोऽ-न्तर्नयनं दूषयन्ति ।” “अथातोवर्त्मगतरोगविज्ञानीयम-ध्यायं व्याख्यास्यामः । पृथग्दोषाः समस्ताश्च यदावर्त्मव्यपाश्रयाः । सिरा व्याप्यावतिष्ठन्ते वर्त्मस्वधिक-मूर्च्छिताः । विवर्द्ध्य मांसं रक्तञ्च तदा वर्त्मव्यपाश्र-यान् । विकारान् जनयन्त्याशु नामतस्तान्निबोधत ।उत्सङ्गिन्यथ १ कुम्भीका २ पोथक्यो ३ वर्त्मशर्करा ४ ।तथार्शोवर्त्म ५ शुष्कार्श ६ स्तथैवाञ्जननामिका ७ । बहल-वर्त्म ८ यच्चापि व्याधिर्वर्त्मावबन्धकः ९ । क्लिष्टकर्दमव-र्त्माख्यौ १० श्याववर्त्म ११ तथैव च । प्रक्लिन्न १२ मपरि-क्लिन्नं१ १३ वर्त्म १४ वातहत १५ न्तु यत् । अर्वुदं १६निमिष १७ श्चापि शोणितार्श १८ श्च यत् स्मृतम् ।लगणो १९ विसनामा २० च पक्ष्मकोप २१ स्तथैव च ।एकविंशतिरित्येते विकारा वर्त्मसंश्रयाः । नामभिस्तेसमुद्दिष्टा लक्षणैस्तान् प्रचक्ष्महे । पिडकाम्यन्तरमुखीबाह्याधोवर्त्मसंश्रया । विज्ञेयोत्सङ्गिनी१ नाम तद्रूपपिड-कान्विता । कुम्भीकवीजप्रतिमाः पिडकाः पक्ष्मवर्त्मनोः ।आध्मायन्ते तु भिन्ना याः कुम्भीकपिडकास्तु ताः २ ।कण्डूस्रावान्विता गुर्व्योरक्तसर्षपसन्निभाः । पिडकाश्च रु-जावत्यः पोथक्य३ इति संज्ञिताः । पिडकाभिः ससू-क्ष्माभिर्थनाभिरभिसंवृता । पिडका या खरा स्थूलासा ज्ञेया वर्त्मशर्करा४ । सूक्ष्माः खराश्च वर्त्मस्थास्तदर्शोबर्त्म५ कीर्त्त्यते । दीर्घोऽङ्करः खरः स्तब्धो दारुणो वर्त्मसम्भवः । व्याधिरेष समाख्यातः शुष्कार्श६ इति संज्ञितः ।दाहतोदवती ताम्रा पिडका वर्त्मसम्भवा । मृद्वीमन्दरुजा सूक्ष्मा ज्ञेया सा ऽञ्जननामिका७ । बर्त्मोपचीयते यस्य पिडकाभिः समन्ततः । सवर्णाभिः समाभिश्चविद्याद्वहलवर्त्म८ तत् । कंण्डूमताल्पतोदेन वर्त्मशोफेनयो नरः । न समं छादयेदक्षि भवेद्बन्धः९ स वर्त्मनः ।मृद्वल्पवेदनं ताम्रं यद्वर्त्म सममेव च । अकस्माच्च भवे-द्रक्तं क्लिष्टवर्त्म१० तदादिशेत् । क्लिष्टं पुनः पित्तयुक्तं वि-दहेच्छोणितं यदा । तदा क्लिन्नत्वमापन्नमुच्यते वर्त्मक-र्दमम्११ । यद्वर्त्म बाह्यतोऽन्तश्च श्यावं शूनं सवेदनम् ।दाहकण्डूपरिक्लेदि श्याववर्त्मेति १२ तन्मतम् । अरुजंबाह्यतः शूनमन्तः क्लिन्न स्रवत्यपि । कण्डूनिस्तोदभू-यिष्ठं क्लिन्नवर्त्म १३ तदुच्यते । यस्य धौतानि धौतानिसम्बन्ध्यन्ते पुनः पुनः । वर्त्मान्यपरिपक्वानि विद्यादक्लि-न्नवर्त्म १४ तत् । विमुक्तसन्धिनिश्चेष्टं वर्त्म यन्न निमी-ल्यते । एतद्वातहतं १५ विद्यात् सरुजं यदि वाऽ-रुजम् । वर्त्मान्तरस्थं विषमं ग्रन्थिभूतमवेदनम् । वि-ज्ञेयमर्बुदं१६ पुंसां सरक्तमवलम्बितम् । निमेषणीःसिरा वायुः प्रविष्टो वर्त्मसंश्रयाः । चालयेदतिवर्त्मानिनिमेषः १७ स गदो मतः । छिन्नाश्छिन्ना विवर्द्धन्ते व-त्मेस्था मृदवोऽङ्कुराः । दाहकण्डूरुजोपेतास्तेऽर्शः शो-णितसम्भवाः १८ । अपाकः कठिनः स्थूलो ग्रन्थिर्व्वर्त्मभवोऽरुजः । सकण्डूः पिच्छिलः कोलप्रमाणो लगणस्तु १९सः । शूनं यद्वर्त्म बहुभिः सूक्ष्मैश्छिद्रैः समन्वितम् । विसम-न्तर्जल इव विसवर्त्सेति २० तन्मतम् । पक्ष्माशयगता दोषा-स्तीक्ष्णाग्राणि खराणि च । निर्वर्त्तयन्ति पक्ष्माणितैर्ज्जुष्टञ्चाक्षि दूयते । उत्पाटितैः पुनः शान्तिः पक्ष्मभि-श्चोपजायते । बातातपानलद्वेषी पक्ष्मकोपः २१ स उच्यते ।”शुक्लभागरोगभेदास्तु ११ अर्म्मन शब्दे ३७९ पृ० सुश्रुतोक्तादर्शिताः तत्रत्यं ततः शेषन्तु यथा“स्नाय्यर्मेत्यभिपठितं खरं प्रपाण्डु ५ । श्यावाः स्युः पिशि-तनिभास्तु विन्दवो ये शुक्तिर्वा सितनयने स शुक्तिसंज्ञः ६ ।एको यः शशरुधिरोपमः सुविन्दः शुक्लस्थो भवति तम-र्ज्जुनं७ वदन्ति । उत्सन्नः सलिलनिमोऽथ पिष्टशुक्लोविन्दुर्यः स भवति पिष्टकः ८ सुवृत्तः । जालाभः कठिन-सिरो महान् स रक्तः सन्तानः स्मृत इह जालसंज्ञि-त९ स्तु । शुक्लस्थाः सितपिडकाः सिरावृता यास्ता वि-द्यादसितसमीपजाः सिराजाः१० । कांस्याभो भवतिसिरावृतः सिते यो विन्दुर्व्वा स तु निरुजोबलासकाख्यः११ ।”कृष्णभागतरोगास्तु तत्रोक्ताः ४ कृष्णगतशब्दे २२१३ पृ०दर्शिताः । सर्वगतरोगास्तु१५ तत्रोक्ता यथा“अथातः सर्वगतरोगविज्ञानीयमध्यायं व्याख्यास्यामः ।स्यन्दास्तु ४ चत्वार इहोपदिष्टास्तावन्त एवेह तथाधि-मन्थाः ४ । शोफान्वितो०ऽशोफयुत १७ श्च पाकावित्येवमेते दशसम्प्रदिष्टाः । हताधिमन्थो ११ऽनिलपर्य्यय १२ श्च शुष्काक्षि-षाकोऽन्यंत एव वातः १४ । दृष्टिस्तथाम्लाध्युषिता १५सिराणामुत्पातहर्षावपि १६ सर्वभागाः । प्राथेण सर्वेनयनामयास्ते भवन्त्यभिष्यन्दनिमित्तमूलाः । तस्मादभि-ष्यन्दमुदीर्य्यमाणमुपाचरेदाशु हिताय धीमान् । नि-स्तोदनं स्तम्भनरोमहर्षसङ्घर्षपारुष्यशिरोऽभितापाः ।विशुष्कभावाः शिशिराश्रुता च वाताभिपन्ने नयने भवन्ति १ ।दाहप्रपाकौ शिशिरामिनन्दा धूमायनं वाष्यसमुच्छ्रयश्च ।उष्णाश्रुता पीतकनेत्रता च पित्ताभिपन्ने नयने भवन्ति २ ।उष्णाभिनन्दा गुरुताक्षिशोफः कण्डूपदेहौ सिततातिशैत्यम् । स्रावो मुहुः पिच्छिल एव चापि कफाभिपन्नेनयने भवन्ति३ । ताम्राश्रुता लोहितनेत्रता च राज्यःसमन्तादतिलोहिताश्च । पित्तस्य लिङ्गानि च यानि तानिरक्तामिपन्ने नयने भवन्ति ४ । वृद्धैरेतैरभिष्यन्दैर्तरा-णामक्रियावताम् । तावन्तस्त्वधिमन्थाः स्युर्नयने तीव्रवे-दनाः । उत्पाट्यत इवात्यर्थं नेत्रं निर्मथ्यते तथा ।शिरसोऽर्द्धन्तु तं विद्यादधिमन्थं स्वलक्षणैः । नेत्रमु-त्पाट्यत इव मथ्यतेऽरणिवच्च यत् । सङ्घर्षतोदनिर्भेद-मांससंरब्धप्ताविलम् । कुञ्चनास्फोटनाध्मानवेपथुव्यथनैर्यु-तम् । शिरसोऽर्द्धञ्च येन स्यादधिमन्थः स मारुतात्५ ।रक्तराजिचितं स्रावि वह्निनेवावदह्यते । यकृत्पि-ण्डोपमं दाहि क्षारेणाक्तमिव क्षतम् । प्रपक्वोच्छून-वर्णान्तमस्वेदं पीतदर्शनम् । मूच्छोशिरोदाहयुतं पि-त्तेनाक्ष्यधिमन्थितम् ६ । शोफवन्नातिसंरब्धं स्रावकण्डूस-मन्वितम् । शैत्यगौरवपैच्छिल्यदूषिकाहर्षणान्वितम् ।रूपं पश्यति दुःखेन पांशुपूर्णमिवाविलम् । नासाध्मा-नशिरोदुःखयुतं श्लेष्माधिमन्थितम् ७ । बन्धुजीवप्रतीकाशंताम्यति स्पर्शनाक्षमम् । रक्तास्रावं सनिस्तोदं पश्य-त्यग्निनिभा दिशः । रक्तमग्नारिष्टवच्च कृष्णभागश्चलक्ष्यते । यद्दीप्तं रक्तपर्य्यन्तं तद्रक्तेनाधिमन्थितम् ८ ।हन्याद्दृष्टिं सप्तरात्रात्कफोत्थोऽधीमन्थोऽसृक्सम्भवः प-ञ्चरात्रात् । षड्रात्राद्वा मारुतोत्थो निहन्यान्मिथ्या-चारात्पैत्तिकः सद्यएव । कण्डूपदेहाश्रुयुतः पक्वोडु-म्बरसन्निभः । दाहसंहर्षताम्रत्वशोफनिस्तोदगौरवैः ।जुष्टो मुहुः स्रवेद्वास्नमुष्णशीताम्बुपिच्छिलम् । संरम्भीपच्यते यश्च नेत्रपाकः स शोफजः ९ ॥
शोफहीनानि लि-ङ्गानि नेत्रपाके त्वशोफजे १० । अन्तःसिराणां श्वसनः स्थितोदृष्टिं प्रतिक्षिपन् ॥
हताधिमन्थं ११ जनयेत्तमसाध्यं विद-र्बुधाः । पक्ष्मद्वयाक्षिभ्रुवमाश्रितस्तु यत्रानिलः सञ्चरतिप्रदुष्टः । पर्य्यायशश्चापि रुजः करोति तं वातपर्य्याय-१२ मुदाहरन्ति ॥
यत्कूणितं दारुणरूक्षवर्त्म विलोकनेवाविलदर्शनं यत् । सुदारुणं यत्प्रतिबोधने च शुष्का-क्षिपाकोपहतं १३ तदक्षि ॥
यस्यावटूकर्ण्णशिरोहनुस्थोमन्यागतो वाप्यनिलोऽन्यतो वा । कुर्य्याद्रुजोऽतिभ्रुविलोचने वा तमम्यतोवात १४ मुदा हरन्ति ॥
अम्लेन भुक्तेनविदाहिना वा सञ्छाद्यते सर्वत एव नेत्रम् । शोफा-न्वितं लोहितकं सनीलैरेतादृगम्लाध्युषितं १५ वदन्ति ॥
अवेदना वापि सवेदना वा यस्याक्षिराज्यो हि भवन्तिताम्राः । मुहुर्विरज्यन्ति च ताः समन्ताद्व्याधिः सिरो-त्पात१६ इति प्रदिष्टः ॥
महान्सिरोत्पातौपेक्षितस्तु जायेतरोगस्तु सिराप्रहर्षः १७ । ताम्राच्छमस्रं स्रवति प्रगाढंतथा न शक्नोत्यभिवीक्षितुञ्च ॥
अथातो दृष्टिगतरोग-विज्ञानीयमध्यायं व्याख्यास्यामः ॥
मसूरदलमात्रान्तुपञ्चभूतप्रसादजाम् । खद्योतविस्फुलिङ्गाभां सिद्धांतेजोभिरव्ययैः ॥
आवृतां पटलेनाक्ष्णार्बाह्येन विवरा-कृतिम् । सीतसात्म्या नृणां दृष्टिमाहुर्नयनचिन्तकाः ॥
रोगांस्तदाश्रयान् घोरान् षट् च षठ् च प्रचक्ष्महे । पट-लानुप्रविष्टस्य तिमिरस्य च लक्षणम् ॥
सिराभिरभिस-म्प्राप्य विगुणोऽभ्यन्तरे भृशम् । प्रथमे पटले दोषो यस्यदृष्टौ व्यवस्थितः ॥
अव्यक्तानि स रूपाणि सर्वाण्येवप्रपश्यति । दृष्टिर्भृशं विह्वलति द्वितीयं पटलं गते ॥
मक्षिकान् लशकान् केशान् जालकानि च पश्यति ।मण्डलानि पताकाश्च मरीचीः कुण्डलानि च ॥
परि-प्लवांश्च विविधान् वर्षमभ्रं तमांसि वा । दूरस्थान्यपिरूपाणि मन्यते च समीपतः ॥
समीपस्थानि दूरे चदृष्टेर्गोचरविभ्रमात् । यत्नवानपि चात्यर्थं सूचीपाशं नपश्यति ॥
ऊर्द्ध्वं पश्यति नाधंस्तात्तृतीयं पटलं गते ।महान्त्यपि च रूपाणि च्छादितानीव वाससा ॥
कर्ण-नासाक्षियुक्तानि विपरीतानि वीक्षते । यथादोषञ्चरज्येत दृष्टिर्दोषे बलीयसि ॥
अधःस्थिते समीपस्यं दूर-स्थञ्चीपरिस्थिते । पार्श्वस्थिते तथा दोषे पार्श्वस्थानि नपश्यति ॥
समन्ततः स्थिते दोषे सङ्कुलानीव प्रश्यति ।दृष्टिमध्यगते दोषे स एकं मन्यते द्विधा ॥
द्विधास्यितेत्रिधा पश्येद्बहुधा चानवस्थिते । तिमिराख्यः स वैदोषश्चतुर्थपटलङ्गतः ॥
रुणद्धि सर्वतो दृष्टिं लिङ्गनाशःस उच्यते । तस्मिन्नपि तमोभूते नातिरूढे महागदे ॥
चन्द्रादित्यौ सनक्षत्रावन्तरिक्षे च विठ्युतः । निर्मलानिच तेजांसि भ्राजिष्णूनि च पश्यति ॥
स एव लिङ्ग-नाशस्तु नीलिकाकाचसंज्ञितः । तत्र घातेन चारूणिभ्रमन्तीव स पश्यति ॥
आविलान्यरुणाभानि व्यावि-द्धानि च मानवः । पित्तेनादित्यखद्योतशक्रचापतडि-द्गुणान् ॥
शिखिवर्हविचित्राणि नीलकृष्णानि पश्यति ।गौरचामरगौराणि श्वेताभ्रप्रतिमानि च ॥
पश्येद-सूक्ष्माण्यत्यर्थं व्यभ्रे चैवाभ्रसंप्लवम् । सलिलप्लाविता-नीव परिजाड्यानि मानवः ॥
तथा रक्तेन रक्तानितमांसि विविधानि च । कफेन पश्येद्रूपाणि स्निग्धानिच सितानि च । हरितश्यावकृष्णानि धूमधूम्राणिचेक्षते ॥
सन्निपातेन चित्राणि विप्लुतानीव पश्यति ।बहुवा वा द्विधा वापि सर्वाण्येव समन्ततः । हीनाधि-काङ्गान्यथ वा ज्योतींप्यपि च पश्यति ॥
पित्त कर्यात-परिम्लायि मूर्च्छितं रक्ततेजसा । पीता दिशस्तथी-द्यन्तमादित्यमिव पश्यति ॥
विकीर्यमाणान् खदोतै-र्वृक्षांस्ते जोभिरेव च । वक्ष्यामि षड्विधैरागैर्लिङ्गना-शमतः परम् ॥
रागोऽरुणो मारुतजः प्रदिष्टः पित्तात्परिम्लाय्यथवापि नीलः । कफात् सितः शोणितजस्तुरक्तः समस्तदोषोऽथ विचित्ररूपः ॥
रक्तजं मण्डलं दृष्टौस्थूलकाचारुणप्रभम् । परिम्लायिनि रोगे स्यान्म्लाय्या-नीलञ्च मण्डलम् ॥
दोषक्षयात् कदाचित् स्यात्स्वयं तत्रच दर्शनम् ॥
अरुणं मण्डलं वाताच्चञ्चलं परुषन्तथा ।पित्तान्मण्डलमानीलं कांस्याभं पीतमेव वा ॥
श्लेष्मणाबहलं स्निग्धं शङ्खकुन्देन्दुपाण्डुरम् । चलत्पद्मपला-शस्थः शुक्लविन्दुरिवाम्भसः ॥
मृद्यमाने च नयने मण्डलंतद्विसर्पति । प्रबालप्रद्मपत्राभं मण्डलं शोणितात्मकम् ॥
दृष्टिरागो भवेच्चित्रो लिङ्गनाशे त्रिदोषजे । यथास्वदोष-लिङ्गानि सर्वेष्वेव भवन्ति हि ॥
षड्लिङ्गनाशाःषडिमेच रोगा दृष्ट्याश्रयाः षड्च षडेव च स्युः । तथानरः पित्तविदग्धदृष्टिः१ कफेन चान्य२ स्त्वथ धूमदर्शी ३ ॥
यो ह्रस्वजात्यो४ नकुलान्ध्यता५ च गम्भीरसंज्ञा६ च तथैवदृष्टिः ॥
पित्तेन दुष्टेन गतेन दृष्टिं पीता भवेद्यस्यनरस्य दृष्टिः । पीतानि रूपाणि च मन्यते यः समानवः पित्तविदग्धदृष्टिः १ ॥
प्राप्ते तृतीयं पटलन्तु दोषेदिवा न पश्येन्निशि वीक्षते च । तथा नरः श्लेष्म-विदग्धदृष्टि २ स्तान्येव शुक्लानि हि मन्यते तु ॥
त्रिषुस्थितोऽल्पः पटलेषु दोषो नक्तान्ध्यमापादयति प्रसह्य ।दिवा स सूर्य्यानुगृहीतदृष्टिर्वीक्षेत रूपाणि कफाल्प-भावात् ॥
शोकज्वरायासशिरोभितापैरभ्याहता यस्यनरस्य दृष्टिः । सधूमकान् पश्यति सर्वभावांस्तं धूम-दर्शीति ३ वदन्ति रोगम् ॥
स ह्रस्वजात्यो ४ दिवसेषु कृच्छा-द्ध्रस्वानि रूपाणि च यो न पश्येत् । रात्रौ सशीतानुगृहीतदृष्टिः पित्ताल्पभावादपि तानि पश्येत् ॥
विद्योतते येन नरस्य दृष्टिर्दोषाभिपन्ना नकुलस्य यद्वत् ।चित्राणि रूपाणि दिवा स पश्येत् स वै विकारोनकुलान्ध्यसंज्ञः५ । दृष्टिर्विरूपा श्वसनोपसृष्टा सङ्गुच्यतेऽभ्यन्तरतश्च याति ॥
रुजावगाढा च तमक्षिरोगंगम्भीरिकेति६ प्रवदन्ति तजज्ञाः । बाह्यौ पुनर्द्वाविहसम्प्रदिष्टौ निमित्ततश्चाप्यनिमित्ततश्च ॥
निमित्ततस्तत्रशिरोऽभितापाज्ज्ञेयस्त्वभिष्यन्दनिदर्शनैश्च । सुरषि-गन्धर्वमहोरगाणां सन्दर्शनेनापि च भासुराणाम् ॥
हन्येत दृष्टिर्मनुजस्य यस्य स लिङ्गनाशस्त्वनिमित्तसंज्ञः ।तत्राक्षि विस्पष्टमिवावभाति वैदूर्यवर्णा विमला च दृष्टिः ।विदीर्य्यते सीदति हीयते वा नृणामभीघातहता तुदृष्टिः । इत्येते नयनगता महाविकाराः सङ्ख्याताः पृथ-गिह षड् च सप्ततिश्च । एतेषां पृथगिह विस्तरेण सर्वंवक्ष्येऽहं तदनु चिकित्सितञ्च तावत्” ॥
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
