| YouTube Channel

चक्रकः (cakrakaH)

 
Apte Hindi
Hindi
चक्रकः
पुं*
- -
मण्डल में तर्क करना
शब्दकल्पद्रुमः
Sanskrit
चक्रकः, त्रि, (चक्र इव कायति प्रकाशते इति कै +कः ।) तर्कविशेषः तस्य लक्षणं यथा स्वापेक्ष-णीयापेक्षितसापेक्षितत्वनिबन्धनप्रसङ्गत्वम् ।अपेक्षा ज्ञाप्तौ उत्पत्तौ स्थितौ ग्राह्या ।तत्राद्या यथा एतद्घटज्ञानं यद्येतद्घटज्ञान-जन्यज्ञानजन्यं स्यात् तदा एतद्घटज्ञानजन्य-ज्ञानभिन्नं स्यात् द्वितीया यथा घटोऽयंयद्येतद्घटजन्यजन्यजन्यः स्यात् तदा एतद्घटजन्य-जन्यभिन्नः स्यात् तृतीया यथा घटोऽयंयद्येतद्घटवृत्तिवृत्तिः स्यात् तथात्वेनोपलभ्येतइति इति तर्कशास्त्रम्
(वेदान्तदर्शनमते तु“स्वग्रहसापेक्षग्रहकत्वं आत्माश्रयः स्वग्रहसापेक्ष-ग्रहसापेक्षग्रहकत्वं अन्योन्याश्रयः स्वग्रहसापेक्ष-ग्रहसापेक्षग्रहसापेक्षग्रहकत्वम् चक्रकम्
”)