| YouTube Channel

घोलं (gholaM)

 
शब्दकल्पद्रुमः
Sanskrit
घोलं,
क्ली,
(घुट्यते आलोड्यते यत् घुट + अच् ।पृषोदरादित्वात् साधुः ।) ससरं निर्जलं मथितंदधि (यथा, सुश्रुते सूत्रस्थाने ४५ अध्याये ।“यत्तु सस्नेहमजलं मथितं घोलमुच्यते
”)तत्पर्य्यायः दण्डाहतम् कालसेयम् अरि-ष्टम् गोरसः घलम् मलिनम् ७केवलम् भग्नसन्धिकम् तस्य भेदाः ।“तक्रं ह्युदश्विन्मथितं पादाम्ब्वर्द्धाम्बुनिर्जलम् ।ससारं यद्भवेत्तक्रं कट्वरं तत् प्रकीर्त्तितम्
”इति शब्दचन्द्रिका
अस्य विशेषाः तक्रशब्दे द्रष्टव्याः