| YouTube Channel

घृतपूरः (ghRtapUraH)

 
Apte Hindi
Hindi
घृतपूरः
पुं*
घृतम्- पूरः -
एक प्रकार की मिठाई
शब्दकल्पद्रुमः
Sanskrit
घृतपूरः,
पुं,
(घृतेन पूर्य्यते इति पुरी यपूर्त्तौ + कर्म्मणि अप् प्रचुरघृतपाच्यत्वादेवास्यतथात्वम् ।) पिष्टकविशेषः यथाह राजवल्लभः ।“मर्द्दितां समितां क्षीरनारिकेलघृतादिभिः ।अवग्राह्य घृते पक्त्रा घृतपूरोऽयमुच्यते
घृतपूरो गुरुर्वृष्यः कफकृद्रक्तमांसदः ।रक्तपित्तहरो हृद्यः स्वादुः पित्तहरोऽग्निदः
”तत्पर्य्यायः पिष्टपूरः घृतवरः घार्त्तिकः ।इति हेमचन्द्रः ६४
(अस्य पाक-प्रकारादि यदुक्तं चिन्तांमणौ ।“क्षीरेण मर्द्दितं चूर्णं गोघूमानां सुगालितम् ।विस्तार्य्य सर्पिषा पाच्यं कटाहेऽथ सितान्वितम्
घृतपूरोऽयमुद्दिष्टः कर्पूरमरिचान्वितः
”नारिकेलजो यथा, --“समिता मर्द्दिता क्षीरे नारिकेलसितार्द्रकैः ।अवगाह्य घृते पाच्या घृतपूरोऽपरः स्मृतः
”दुग्धजो यथा, --“पाकपिण्डीकृतं क्षीरं शर्कराचूर्णमिश्रितम् ।घृतपूरविनिर्म्माणं कारयेत् स्वल्पसर्पिषि
”शालिभवो यथा, --“सुशालिपिष्टं दुग्धन्तु कथितं वस्त्रगालितम् ।खण्डयुक्तं घृते पक्वं घृतपूरो भवेदयम्
”कशेरुभवो यथा, --“कशेरुचूर्णं निःक्षिप्य पाकपिण्डीकृतं पयः ।निर्म्माणं घृतपूराणां शर्करासहितं भवेत
”आम्रजो यथा, --“पक्वाम्रस्य घृते तप्ते रसस्त्वनलपिण्डितः ।शुद्धशर्करया योज्यो घृतपूरो यदृच्छया
क्षीरमाद्यं स्वरूपं हि खण्डं चूर्णं ततः स्मृतम् ।योजिते यो विशेषोऽत्र तदाख्यास्वर्णसंज्ञितः
घृतपूरो गुरुर्हृष्यो हृद्यः पित्तानिलापहः ।सद्यः प्राणप्रदो बल्यः सुरुच्योऽग्निप्रदीपनः
शृङ्गाटकसुखानामप्येवं स्यात् घृतपूरकः ।विचार्य्य वस्तुसंयोगं तद्गुणानपि चाहरेत्
”)