घृतपूर (ghRtapUra)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
शब्दसागरः
EnglishWilson
EnglishHelp us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
Monier Williams Cologne
EnglishApte Hindi
Hindiघृतपूरः
घृतम्- पूरः -
एक प्रकार की मिठाई
Shabdartha Kaustubha
Kannadaघृतपूर
पदविभागः - > पुल्लिङ्गः
कन्नडार्थः - > ತುಪ್ಪದಲ್ಲಿ ಪಕ್ವವಾದ ಗೋಧಿಹಿಟ್ಟಿನ ಒಂದು ಭಕ್ಷ್ಯ
प्रयोगाः - > "क्षीरेण मर्दितं चूर्णं गोधूमानां सुगालितम् । विस्तार्य सर्पिषा पाच्यं कटाहेऽथ सितान्वितम् । घृतपूरोऽयमुद्दिष्टः कर्पूरमारिचान्वितः ॥"
अभिधानचिन्तामणिः
Sanskritघृतपूरो घृतवरः पिष्टपूरश्च घार्तिकः ।
घृतपूर (क्ली), घृतवर (क्ली), पिष्टपूर (क्ली), घार्त्तिक (क्ली)
शब्दकल्पद्रुमः
Sanskritघृतपूरः, (घृतेन पूर्य्यते इति । पुरी ङ यपूर्त्तौ + कर्म्मणि अप् । प्रचुरघृतपाच्यत्वादेवास्यतथात्वम् ।) पिष्टकविशेषः । यथाह राजवल्लभः ।“मर्द्दितां समितां क्षीरनारिकेलघृतादिभिः ।अवग्राह्य घृते पक्त्रा घृतपूरोऽयमुच्यते ॥
घृतपूरो गुरुर्वृष्यः कफकृद्रक्तमांसदः ।रक्तपित्तहरो हृद्यः स्वादुः पित्तहरोऽग्निदः ॥
”तत्पर्य्यायः । पिष्टपूरः २ घृतवरः ३ घार्त्तिकः ४ ।इति हेमचन्द्रः । ३ । ६४ ॥
(अस्य पाक-प्रकारादि यदुक्तं चिन्तांमणौ ।“क्षीरेण मर्द्दितं चूर्णं गोघूमानां सुगालितम् ।विस्तार्य्य सर्पिषा पाच्यं कटाहेऽथ सितान्वितम् ॥
घृतपूरोऽयमुद्दिष्टः कर्पूरमरिचान्वितः ॥
”नारिकेलजो यथा, --“समिता मर्द्दिता क्षीरे नारिकेलसितार्द्रकैः ।अवगाह्य घृते पाच्या घृतपूरोऽपरः स्मृतः ॥
”दुग्धजो यथा, --“पाकपिण्डीकृतं क्षीरं शर्कराचूर्णमिश्रितम् ।घृतपूरविनिर्म्माणं कारयेत् स्वल्पसर्पिषि ॥
”शालिभवो यथा, --“सुशालिपिष्टं दुग्धन्तु कथितं वस्त्रगालितम् ।खण्डयुक्तं घृते पक्वं घृतपूरो भवेदयम् ॥
”कशेरुभवो यथा, --“कशेरुचूर्णं निःक्षिप्य पाकपिण्डीकृतं पयः ।निर्म्माणं घृतपूराणां शर्करासहितं भवेत ॥
”आम्रजो यथा, --“पक्वाम्रस्य घृते तप्ते रसस्त्वनलपिण्डितः ।शुद्धशर्करया योज्यो घृतपूरो यदृच्छया ॥
क्षीरमाद्यं स्वरूपं हि खण्डं चूर्णं ततः स्मृतम् ।योजिते यो विशेषोऽत्र तदाख्यास्वर्णसंज्ञितः ॥
घृतपूरो गुरुर्हृष्यो हृद्यः पित्तानिलापहः ।सद्यः प्राणप्रदो बल्यः सुरुच्योऽग्निप्रदीपनः ॥
शृङ्गाटकसुखानामप्येवं स्यात् घृतपूरकः ।विचार्य्य वस्तुसंयोगं तद्गुणानपि चाहरेत् ॥
”)
वाचस्पत्यम्
Sanskritघृतपूर घृतेन पूर्य्यते पूरि--कर्म्मणि अच् । घक्वान्नभेदेतस्य प्रचुरघृतेन पक्वत्वात्तव्यात्वत् तत्पाकप्रकारादि शब्दार्थचि० । “मर्द्दितां समितां क्षीरनालिकेरघृतादिभिः । अव-गाल्य घृते पक्त्वा घृतपूरोऽयमुच्यते । घृतपूरो गुरुर्वृष्यःकफकृद्रक्तमांसदः । रक्तपित्तहरोहृद्यः स्वादुः पित्तहरोऽ-ग्निदः । अपि च “क्षीरेण मर्दितं चूर्णं गोधूमानां सुगालितम् । विस्तार्य्य सर्पिषा पाच्यं कटाहेऽथ सितान्वितम् । घृतपूरोऽयमुद्दिष्टः कर्पूरमरिचान्वितः” ।नारिकेलजस्तु “समिता मर्दिता क्षीरे नालिकेलसिता-र्द्रकेः । अवगाल्य घृते पाच्यो घृतपूरोऽपरः स्मृतः” ।दुग्धजोऽपि “पाकपिण्डीकृतंक्षीरं शर्कराचूर्णमिश्रि-तम । घृतपूरविनिर्माणंकारयेत् स्वल्पसर्पिषि” ।शालिभवोऽपि “सुशालीपिष्टं दुग्धन्तु क्वाथितं वस्त्रगा-लितम् । खण्डयुक्तं घृते पक्वं घृतपूरो भवेदयम्” ।कमेरुजोऽपि “कसेरुचूर्णे निःक्षिस्य पाकपिण्डीकृतंपयः । निर्माणं घृतपूराणां शर्करासहितं भवेत्” ।आम्ररसजः “पक्वाम्रस्य घृते तप्ते रसस्त्वनलपिण्डितः ।शुद्धशर्करया योज्यो घृतपूरो यद्दृच्छया । क्षीरमाद्यंस्वरूपं हि खण्डं चूर्णं ततः स्मृतम् । योजिते योविशेषोऽत्र तदाख्यावर्णसंज्ञितः । घृतपूरो गुरुर्वृष्योहृद्यः पित्तानिलापहः । सद्यः प्राणप्रदोवल्यः सुरु-च्योऽग्निप्रदीपनः । शृङ्गाटकमुखानामप्येवं स्याद् घृत-पूरकः । विचार्य्य वस्तुसंयोगं तद्गुणानपि चाहरेदिति” ।
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
