घुषिँर् (ghuSi~r)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
In this section, you'll find information about the dhatus (verbal roots) related to your search. This includes details like dhatu information, forms, and any available commentaries.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
धातुप्रदीपः
Sanskritघुषिर् शब्दार्थः
- घोषति । जुघोष ।अघुषत्। अघोषीत्। घुष्टम् । घुषिर् अविशब्दन इति चुरादौ तस्य घोषयति ।। 654।।
घुषिर् अविशब्दने
- घोषयति अजूघुषत् घुषिरविशबदने (7223) इत्यत्र विशब्दनप्रतिषेधाद् घुषेर्णिज् विकल्प्यत इत्येतत् साधितमनेन घोषति ''जुघुषुः पुष्यमाणवा'' इति विशब्दने सिध्यति एतदुपलक्षणम् तेन विचटति तनतीत्यादि सिध्यति भ्वादिपठितस्य घोषति अधुषद् अघोषीदिति 187
क्षीरतरङ्गिणी
Sanskritघुषिर शब्दार्थः
- इतोऽर्हपर्यन्ताः (1488) अष्टाशीतिः सेटः परस्मैपदिनश्च घोषति अघुषत्, अघोषीत् घुषिरविशब्दने (7223) निष्ठायां नेट्-घुष्टा रज्जुः नेह- संघुषितं वाक्यम् चुरादौ घुषिर् विशब्दने ( 10172) घोषयति इत्नुच् घोषयित्नुः 633
घुषिर् विशब्दने
-(अर्थविवरणम्) विशब्दनं विशिष्टशब्दकरणम्
उद्घोषयति अविशब्दन इत्येके अपघोषयति पापम्, अपह्नुत इत्यर्थः इरित्त्वमनित्यण्यन्तत्वे लिङ्गम्-अघुषत्, अजूघुषत् घुष विशब्दने इति कौशिकः भ्वादौ (1434) घोषति 192
धातुवृत्तिः
Sanskritघुषिर् (अर्थः) अविशब्दने
उदात्तधातुसाम्यादिह पठितः, घुषाद्यन्ता उदात्ता अनुदात्तेतः घुषिरविशब्दनार्थः इतो ऽर्हत्यन्ता उदात्ता उदात्तेतः विशब्दनं प्रतिज्ञानं, तच्च शब्देन स्वाभिप्रायप्रकाशनमिति न्यासे अस्मादन्यस्मिन्नर्थं यथाप्रयोगमयं धातुर्वर्त्तत इति पुरुषकारे सर्वत्र क्षीरस्वामिधनपालभागवृत्तिकारा घुषिं शब्दार्थं पेठुः चन्द्रदुर्गौ त्वर्थशब्दमपहायशब्दइत्येवं पठेतुः घुष शब्द इति पठन् शाकटायनोप्यत्रैवानुकूलः तेन हि य इति स्थाने अनेति न क्रियते यदि शब्द इत्यर्थः स्यात् तर्हि "घुषिरविशब्दने'' इति इट् प्रतिषेधेति लघु घुषिरविशब्द इत्येव वाच्यं स्यात् इति घुषिरविशब्दार्थ इति मैत्रेयादिपाठो ज्यायान् ( घोषति जुघोष, घोषिता ), लुङि "हरितो वा'' इति परस्मैपदेषु च्लेरङादेशविकल्पनात् ( अघुषत् अघुषताम् अघोषीत् अघोषिष्टाम् )इत्याद्युभयं भवति "लुग्वा दुह ''इत्यत्र न्यासे व्यत्यघुक्षतेति वृत्तौ प्रत्युदाहरणमुपादायानित्यमागमशासनमित्यनिट्त्वमुक्त्वा "शलइगुपधात्''इति क्स उक्तः हरदत्तादयस्तु प्रत्युदाहरणं घुष्यतेरिति मन्वाना इड्भावाय यत्नंकृतवन्तः घुष्यतिर्हि नित्यानिट् ( जुघुषिषति जुघोषिषति घुषित्वा घोषित्वा ) "रलो व्युपधात्'' इति कित्त्वविकल्पः ( जोघुष्यते जोघोष्टि ) लोटि हेर्घित्वे ष्टुत्वे च जश्त्वे च षकारस्य ( जोघुड्ढि ) लङि तिप्सिपोः ( अजोघोट् घोषयति अजूघुषत् घुष्टा रज्जुः ) "घुषिरविशिब्दने'' इति निष्ठायामनिट्त्वं संपूर्वत्वे तु "रुष्यमत्वरसंघुषास्वनाम्'' इति इटो विकल्पनात् (संघुष्टा रज्जुः, संघुषिता रञ्जुः, ) इत्युभयं भवति घुषिरविशब्दन इति चुरादौ 643
घुषिर् (अर्थः) विशब्दने
(अर्थविवरणम्) विशब्दनं प्रतिज्ञा
"घुषिरविशब्दने'' इति सूत्रेऽविशब्दनइति निषेधाल्लिङ्गादनित्योऽस्य णिच् "घुषिरविशब्दने'' इत्यनेनाविशब्दने निष्ठाया इण्णिषिध्यते शब्दार्थादेतस्मादनन्तरा निष्ठा नेति किं प्रतिषेधेन इदञ्च घोषतावित्युक्तम् मन्दबुद्ध्यनुग्रहायेह स्मारितम् एवं चेरित्त्वमघुषदधोषीदित्यत्र पक्षेऽङर्थत्त्वेनावयवे चरितार्थमिति ( अजृघुषद् ) इत्यत्र "णिश्री'' इति चङ् न बाध्यते (घोषयति घोषति) अवघुषितमिति, इट्प्रतिषेधो भौवादिकस्येत्युक्तम् 191
Help us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
