| YouTube Channel

ग्रुचु (grucu)

 
धातुपाठः (Krishnacharya)
Sanskrit
धातुः:
ग्रुच्
मूलधातुः:
ग्रुचु
धात्वर्थः:
स्तेयकरणे
गणः:
भ्वादिः
कर्मकत्वं:
सकर्मकः
इट्त्वं:
सेट्
उपग्रहः:
परस्मैपदी
रूपम्:
ग्रोचति
अनुबन्धादिविशेषः:
उदित्
धातुप्रदीपः
Sanskrit
ग्रुचुँ ग्रुचु
मानकरूपान्तरम् - ग्लुचुँ
ग्लुचु
मानकरूपान्तरम् - कुजुँ
कुजु
मानकरूपान्तरम् - खुजुँ
खुजु स्तेयकरणे
-ग्रोचति ग्लोचति अग्लुचत् अग्लोचीत् कोजति कुजः कुक्तः कुक्तवान् खोजति ।। 194-197 ।।
क्षीरतरङ्गिणी
Sanskrit
ग्रुचुँ ग्रुचु
मानकरूपान्तरम् - ग्लुचुँ
ग्लुचु
मानकरूपान्तरम् - कुजुँ
कुजु
मानकरूपान्तरम् - खुजुँ
खुजु स्तेयकरणे
- अग्रुचत्, अग्रोचीत्, अग्लुचत्, अग्लोचीत् घञ्-ग्लोचः, क्वादेः (7359) कुत्वाभावः 194-197
धातुवृत्तिः
Sanskrit
ग्रुचुँ ग्रुचु
मानकरूपान्तरम् - ग्लुचुँ
ग्लुचु
मानकरूपान्तरम् - कुजुँ
कुजु
मानकरूपान्तरम् - खुजुँ
खुजु (अर्थः) स्तेयकरणे
( ग्रोचति जुग्रोच ग्रोचितेत्यादि ग्लोचतीत्यादि म्लुचिवत्) जॄस्तम्भुसूत्रे ग्रुचिमपि केचित्पठन्ति ( कोजति खोजति ) इमावपि म्लुचि वत्, अङ्भावो विशेषः ( प्रणिकोजति प्रणिखोजति ) ( सूत्रम्) शेषे विभाषा (इति सूत्रम्) इति उपसर्गस्थान्निमित्तात्परस्य नेर्णत्वं तत्रैव सूत्रे "कखादावषन्तउपदेश'' इति पर्युदासान्न भवति, शेषाश्च गदादिव्यतिरिक्तो धातुः(ग्रोकंग्रक्यं) घञ् ण्यतो "चजोः कु घिण्ण्यतोः'' निष्ठायामनिटः इति वार्त्तिकसूत्रेण कुत्वम् 198
कृदन्तरूपमाला
Sanskrit
1 {@“ग्रुचु स्तेयकरणे”@} 2 ग्रोचकः-चिका, ग्रोचकः-चिका, 3 जुग्रोचिषकः-जुग्रुचिषकः-षिका, 4 जोग्रुचकः-चिका
ग्रोचिता-त्री, ग्रोचयिता-त्री, जुग्रोचिषिता-जुग्रुचिषिता-त्री, जोग्रुचिता-त्री
ग्रोचन्-न्ती, ग्रोचयन्-न्ती, जुग्रोचिषन्-जुग्रुचिषन्-न्ती
-- ग्रोचिष्यन्-न्ती-ती, ग्रोचयिष्यन्-न्ती-ती, जुग्रोचिषिष्यन्-जुग्रुचिषिष्यन्-न्ती-ती
-- -- ग्रोचयमानः, ग्रोचयिष्यमाणः, जोग्रुच्यमानः, जोग्रुचिष्यमाणः
5 ग्रुक्-ग्रुग्-ग्रुचौ-ग्रुचः
-- -- -- 6 ग्रुक्तः-क्तम्, ग्रोचितः, जुग्रोचिषितः-जुग्रुचिषितः, जोग्रुचितः-तवान्
7 ग्रुचः, ग्रोचः, जुग्रोचिषुः-जुग्रुचिषुः, जोग्रुचः
ग्रोचितव्यम्, ग्रोचयितव्यम्, जुग्रोचिषितव्यम्-जुग्रुचिषितष्यम्, जोग्रुचितव्यम्
ग्रोचनीयम्, ग्रोचनीयम्, जुग्रोचिषणीयम्-जुग्रुचिषणीयम्, जोग्रुचनीयम्
8 ग्रोक्यम्, ग्रोच्यम्, जुग्रोचिष्यम्-जुग्रुचिष्यम्, जोग्रुच्यम्
ईषद्ग्रोचः-दुर्ग्रोचः-सुग्रोचः
-- -- ग्रुच्यमानः, ग्रोच्यमानः, जुग्रोचिष्यमाणः-जुग्रुचिष्यमाणः, जोग्रुच्यमानः
ग्रोकः, ग्रोचः, जुग्रोचिषः-जुग्रुचिषः, जोग्रुचः
ग्रोचितुम्, ग्रोचयितुम्, जुग्रोचिषितुम्-जुग्रुचिषितुम्, जोग्रुचितुम्
9 ग्रुक्तिः, ग्रोचना, जुग्रोचिषा-जुग्रुचिषा, जोग्रुचा
10 प्रणिग्रोचनम्-प्रनिग्रोचनम्, ग्रोचनम्, जुग्रोचिषणम्-जुग्रुचिषणम्-जोग्रुचनम्
11 ग्रोचित्वा-ग्रुचित्वा-ग्रुक्त्वा, ग्रोचयित्वा, जुग्रोचिषित्वा-जुग्रुचिषित्वा, जोग्रुचित्वा
संग्रुच्य, संग्रोच्य, सञ्जुग्रोचिष्य-सञ्जुग्रुचिष्य, सञ्जोग्रुच्य
ग्रोचम् २, ग्रोचित्वा ग्रुचित्वा २, ग्रुक्त्वा २, ग्रोचम् २, क्ग्रोचयित्वा २, जुग्रोचिषम् २-जुग्रुचिषम् २, जुग्रोचिषित्वा २-जुग्रुचिषित्वा २, जोग्रुचम्
जोग्रुचित्वा २।
प्रासङ्गिक्यः
01
=>
(४४३)
02
=>
(१-भ्वादिः-१९७। सक। सेट्। पर।)
03
=>
[[१। ‘रलो व्युपधात्--’ (१-२-२६) इति सेटः सनः कित्त्वविकल्पः। कित्त्वपक्षे गुणो न। कित्त्वाभावपक्षे गुणः। एवं सन्नन्ते सर्वत्र रूपद्वयं बोध्यम्।]]
04
=>
[[२। ‘सन्यङोः’ (६-१-९) इति द्वित्वे, ‘यस्य हलः’ (६-४-४९) इति यलोये, अकारस्य लोपे च, ‘गुणो यङ्लुकोः’ (७-४-८२) इत्यभ्यासस्य गुणः। एवं यङन्ते सर्वत्र।]]
05
=>
[[३। अवसाने चर्त्वविकल्पः।]]
06
=>
[[४। उदित्त्वेन क्त्वायामिड्विकल्पनात्, ‘यस्य विभाषा’ (७-२-१५) इति निष्ठायामि- ण्णिषेधः। चर्त्वम्।]]
07
=>
[[५। ‘इगुपधज्ञा--’ (३-१-१३५) इति कर्तरि कप्रत्ययः।]]
08
=>
[[६। अस्माद्धातोः ण्यति प्रत्यये, ‘चजोः कु घिण्ण्यतोः’ (७-३-५२) इति कुत्वं ‘न क्वादेः’ (७-३-५९) इति यद्यपि प्रतिषिद्धम्
\n\n अथापि, ‘निष्ठायामनिट इति वक्तव्यम्’ (वा। ७-३-५२) इति वार्तिकात्, अस्य धातोः निष्ठायामनिट्त्वात् कुत्वं भवत्येव
\n\n यथोत्तरं मुनीनां प्रामाण्यात्। एवं घञ्यपि ज्ञेयम्।]]
09
=>
[पृष्ठम्०४४२+ २२]
10
=>
[[१। ‘शेषे विभाषाऽकखादावषान्त उपदेशे’ (८-४-१८) इति णत्वविकल्पः।]]
11
=>
[[२। ‘उदितो वा’ (७-२-५६) इति क्त्वायामिड्विकल्पः। इट्पक्षे ‘रलो व्युपधात्’ (१-२-२६) इति कित्त्वविकल्पः। तेन रूपत्रयम्।]]