ग्रीष्म (grISma)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
In this section, you'll find information about the dhatus (verbal roots) related to your search. This includes details like dhatu information, forms, and any available commentaries.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
शब्दसागरः
EnglishHelp us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
Spoken Sanskrit
Englishग्रीष्म - grISma - - summer
ग्रीष्म - grISma - - heat
ग्रीष्म - grISma - - hot season
ग्रीष्म - grISma - - summer heat
Wilson
EnglishApte
Englishग्रीष्म [grīṣma], [ग्रसते रसान्
ग्रस्-मनिन् 1.147] Hot, warm.
ष्मः The summer, the hot season, corresponding to the months of Jyeṣṭha and Āṣāḍha
ग्रीष्म- समयमधिकृत्य गीयताम् 1
16.54
1.35.
Heat, warmth. -ष्मी The नवमल्लिका plant. -कालीन pertaining to summer. -उद्भवा, -जा, -भवा the Navamallikā creeper, (double jasmine). -वनम् a grove frequented in summer
अत्रान्तरे ग्रीष्मवनं मल्लिकामोदि मारुतम् 122.65. -हासम् The flocculent seeds, down blown about in the air in summer.
Apte 1890
Englishग्रीष्म a. [ग्रसते रसान्
ग्रस्-मनिन् Uṇ. 1. 147] Hot, warm.
ष्मः 1 The summer, the hot season, corresponding to the months of Jyeshṭha and Āṣāḍha
ग्रीष्मसमयमधिकृत्य गीयतां Ś. 1
R. 16. 54
Bv. 1. 35.
2 Heat, warmth.
ष्मी The नवमल्लिका plant.
Comp.
कालीन a. pertaining to summer.
उद्भवा,
जा,
भवा the Navamallikā creeper, (double jasmine).
Monier Williams Cologne
EnglishMonier Williams 1872
Englishग्रीष्म ग्रीष्म, अस्, आ, अम् (said to be fr. rt.
ग्रस्), hot, warm
(अस्), m. the summer, the hot
season, consisting of the months Śuci and Śukra or
Jyeṣṭha and Āṣāḍha (from the middle of May to
the middle of July)
heat, warmth
N. of a man
(आ), f., N. of a tree [cf. लोध्र]
(ई), f. the tree
Jasminum Sambac
[cf. नव-मल्लिका
cf. also Hib.
gris, ‘fire
’ griosgaim, ‘I fry, boil
’ griosach,
‘burning embers
’ Lith. karsztas and karsztis.]
—ग्रीष्म-काल, अस्, m. the hot season (see above).
—ग्रीष्मकालीन, अस्, आ, अम्, pertaining to the hot
season.
—ग्रीष्म-ज, अस्, आ, अम्, produced by heat,
produced in the hot season
(आ), f. a kind of fruit-
tree, Anona Reticulata
[cf. लवनी।]
—ग्रीष्म-
धान्य, अम्, n. summer corn.
—ग्रीष्म-पुष्पी,
f., N. of a plant, = करुणी.
—ग्रीष्म-भव, अस्,
आ, अम्, produced by heat or in the hot season
(आ),
f. Jasminum Sambac.
—ग्रीष्म-सुन्दरक, अस्,
m. a kind of pot-herb, Erythræa Centaureoides,
commonly called गिमा
also the plant Pharnaceum
Mollugo.
—ग्रीष्म-हास, अस्, m. the flocculent
seeds, down, &c., blown about in the air in summer
(compared from their white colour to ‘the smiles of
the season’).
—ग्रीष्मोद्भव (°म-उद्°), अस्, आ,
अम्, produced by heat or in the hot season
(आ), f.
double jasmine, Jasminum Sambac.
Apte Hindi
Hindiग्रीष्म
वि* - ग्रसते रसान् - ग्रस् - मनिन्
"गरम, उष्ण"
ग्रीष्मः
- -
"गर्मी का मौसम, गरम ऋतु"
ग्रीष्मः
- -
"गर्मी, उष्णता"
ग्रीष्म
वि* - ग्रस्+ मनिन्
"गर्म, उष्ण"
ग्रीष्मः
- -
ग्रीष्म ऋतु
Shabdartha Kaustubha
Kannadaग्रीष्म
पदविभागः - > पुल्लिङ्गः
कन्नडार्थः - > ಗ್ರೀಷ್ಮಕಾಲ /ಬೇಸಿಗೆಕಾಲ
निष्पत्तिः - > ग्रसु (अदने) - "मक्" ईत्वं च (उ० १-१४७)
प्रयोगाः - > "विहर्तुमिच्छा वनितासखस्य तस्याम्भसि ग्रीष्मसुखे बभूव" । "अत्यासन्नतया तेन ग्रीष्मे तीव्रकराः रवेः । देवभागेऽसुराणां तु हेमन्ते मन्दताऽन्यथा ॥" "ग्रीष्मे तीव्रकरो भानुर्न हेमन्ते तथाविधः" ॥
उल्लेखाः - > रघु० १६-५४, सू० सि० १२-४६, सू० सि० १२-८
ग्रीष्म
पदविभागः - > पुल्लिङ्गः
कन्नडार्थः - > ಉಷ್ಣತೆ /ಕಾವು /ಬಿಸಿ
L R Vaidya
EnglishBopp
LatinAnekartha-Dvani-Manjari
Sanskritनिदाघ
पु
निदाघ, प्रस्वेद, ग्रीष्म
प्रस्वेदोऽथ निदाघः स्यान्निदाघो ग्रीष्म उच्यते ।
verse 2.1.1.26
page 0009
Indian Epigraphical Glossary
EnglishSchmidt Nachtrage zum Sanskrit Worterbuch
GermanWordnet
Sanskrit उष्म, उष्ण, तप्त, चण्ड, प्रचण्ड, उचण्ड, सन्तप्त, उपतप्त, तापिन्, कोष्ण, सोष्म, नैदोष, अशिशिर, अशीत, तिग्म, तीव्र, तीक्ष्ण, खर, ग्रीष्म
यस्मिन् औष्म्यम् अस्ति।
"वसन्ताद् अनन्तरं वायुः उष्मं भवति।"
अभिधानचिन्तामणिः
Sanskritउष्ण उष्णागमो ग्रीष्मो निदाघस्तप ऊष्मकः ।
उष्ण (पुं), उष्णागम (पुं), ग्रीष्म (पुं), निदाघ (पुं), तपस् (पुं), ऊष्मक (पुं)
अभिधानरत्नमाला
Sanskritऋतु
ऋतु, वसन्त, ग्रीष्म, प्रावृष्, शरद्, हेमन्त, शिशिर
त्रिंशदहोरात्रः स्यान्मासस्ताभ्यामृतुर्वसन्ताद्याः ।
ग्रीष्मः प्रावृट् शरदा हेमन्तः शिशिर इति ते षट् ॥ ११३ ॥
verse 1.1.1.113
page 0014
निदाघ
निदाघ, ग्रीष्म
निदाघः कथ्यते ग्रीष्मो वर्षाः प्रावृट् तपात्ययः ॥ ११६ ॥
verse 1.1.1.116
page 0015
वैजयन्तीकोषः
SanskritWord: ग्रीष्मः
Root: ग्रीष्म
Gender: पुं
Number: all
अर्थः ⇒ ज्येष्ठाषाढाभ्याम् ऋतुः
Meaning(s):
⇒ Summer season consisting of the months Jyaiṣṭha and Āṣāḍha
Shloka(s):
2|1|88|1 ► पुष्पकालोऽपीध्ममस्त्री ग्रीष्मस्त्वारखोर ऊष्मकः। (अन्तरिक्षकाण्डः/ज्योतिरध्यायः)
2|1|88|2 ► शुचिरुष्णागमः पात्म उष्ण ऊष्माऽप्यथ क्षरी॥ (अन्तरिक्षकाण्डः/ज्योतिरध्यायः)
Synonym(s):
➠ 2|1|88|1 ⇢ ग्रीष्मः (ग्रीष्म) (पुं) ⇒ Summer season consisting of the months Jyaiṣṭha and Āṣāḍha ⇒ ज्येष्ठाषाढाभ्याम् ऋतुः
➠ 2|1|88|1 ⇢ आखोरः (आखोर) (पुं) ⇒ Epithet of Griṣma season ⇒ ज्येष्ठाषाढाभ्याम् ऋतुः
➠ 2|1|88|1 ⇢ ऊष्मकः (ऊष्मक) (पुं) ⇒ Epithet of Griṣma season ⇒ ज्येष्ठाषाढाभ्याम् ऋतुः
➠ 2|1|88|2 ⇢ शुचिः (शुचि) (पुं) ⇒ Epithet of Griṣma season ⇒ ज्येष्ठाषाढाभ्याम् ऋतुः
➠ 2|1|88|2 ⇢ उष्णागमः (उष्णागम) (पुं) ⇒ Epithet of Griṣma season ⇒ ज्येष्ठाषाढाभ्याम् ऋतुः
➠ 2|1|88|2 ⇢ पात्मः (पात्म) (पुं) ⇒ Epithet of Griṣma season ⇒ ज्येष्ठाषाढाभ्याम् ऋतुः
➠ 2|1|88|2 ⇢ उष्णः (उष्ण) (पुं) ⇒ Epithet of Griṣma season ⇒ ज्येष्ठाषाढाभ्याम् ऋतुः
➠ 2|1|88|2 ⇢ ऊष्मा (ऊष्मन्) (पुं) ⇒ Epithet of Griṣma season ⇒ ज्येष्ठाषाढाभ्याम् ऋतुः
Related word(s):
अवयव_अवयवीसंबन्धः ➡ ज्यैष्ठः
परा_अपरासंबन्धः ➡ ऋतुः
जातिः ➡ कालः
Tamil
Tamilக்3ரீஷ்ம : கோடைக்காலம், உஷ்ணமான காலம்.
शब्दकल्पद्रुमः
Sanskritग्रीष्मः, (ग्रसते रसान् इति । ग्रसु अदने +“ग्रीष्मः ।” उणां । १ । १४९ । इति मक्ग्रीभावश्च घातोः षुगागमश्च निपात्यते ।) ऋतु-विशेषः । (यथा, मनुः । ६ । २३ ।“ग्रीष्मे पञ्चतपास्तु स्याद्वर्षास्वभ्रावकाशिकः ॥
”)स तु ज्यैष्ठाषाढौ । तत्पर्य्यायः । उष्णकः २निदाघः ३ उष्णोपगमः ४ उष्णः ५ उष्मागमः ६तपः ७ । इत्यमरः । १ । ४ । १९ ॥
घर्म्मः ८तापनः ९ उष्णागमः १० उष्णकालः ११ ।“ग्रैष्मिकन्त्वनभिस्यन्दि जलमित्येष निश्चयः ॥
”इति राजनिर्घण्टः ॥
(“दीर्घवासरकं तीक्ष्णं ज्वालामालाकुलं जगत् ।दिशि ग्रीष्मे मृगतृष्णाः स्विन्नाः स्युर्मृगवाजिनः ॥
नैरृतो मारुतो रूक्षः शीर्णपर्णा महीरुहाः ।दग्धं तृणाकुलारण्यं दावाग्निश्च दिशो दश ॥
एवं लक्षणके ग्रीष्मे पित्तरक्तमुदीर्य्यते ।तस्मात् क्रिया प्रतीकारं कुर्य्यात् संशमनं भिषक् ॥
जलक्रीडा दिवानिद्रा सेवनं सुखसाधनम् ।श्यामारामारतं शस्तं कुञ्जकिञ्जल्कशीतलम् ॥
नीलनालदलोपेतः श्रमघ्नो व्यजनानिलः ।केतक्या मोदकुसुमचन्दनोशीरशीतलैः ॥
लेपनं शीतलं सम्यक् धारागाराश्रयः पुनः ।एवं क्रिया समापन्ने ग्रीष्मे च सुखसङ्गमः ॥
”इति ग्रीष्मोपचारः ॥
इति हारीते प्रथमे स्थाने पञ्चभेऽध्याये ॥
“तीक्ष्णांशुरतितीक्ष्णां शुर्गीष्मे संक्षिपतीव यत् ।प्रत्यहं क्षीयते श्लेष्मा तेन वायुश्च वर्द्धते ॥
अतोऽस्मिन् पटुकट्वम्लव्यायामार्ककरांस्त्यजेत् ।भजेन्मधुरमेवान्नं लधुस्निग्धं हिमं द्रवम् ॥
सुशीततोयसिक्ताङ्गो लिह्यात् शक्तून् सशर्करान् ॥
मद्यं न पेयं पेयं वा स्वल्पं सुबहु वारि वा ॥
अन्यथा शोफशौथिल्यदाहमोहान् करोति तत् ।कुन्देन्दुधवलं शालिमश्नीयाज्जाङ्गलैः पलैः ॥
पिबेद्रसं नातिघनं रसालां रागखाण्डवौ ।पानकं पञ्चसारं वा नवमृद्भाजनस्थितम् ॥
मोचचोचदलैर्युक्तं साम्लं मृण्मयशुक्तिभिः ।पटलावासितञ्चाम्भः सकर्पूरं सुशीतलम् ॥
शशाङ्ककिरणान् भक्ष्यान् रजन्यां भक्षयन् पिबेत्ससितं माहिषं क्षीरं चन्द्रनक्षत्रशीतलम् ॥
अभ्रङ्कषमहाशालतालरुद्धोष्णरश्मिषु ।वनेषु माधवीश्लिष्टद्राक्षास्तवकशालिषु ॥
सुगन्धिहिमपानीयसिच्यमानपटालिके ।कायमाने चिते चूतप्रवालफललम्बिभिः ॥
कदलीदलकह्लार-मृणालकमलोत्पलैः ।कल्पिते कोमलैस्तल्पे हसत्कुसुमपल्लवे ॥
मध्यदिनेऽर्कतापार्त्तः स्वप्याद्धारागृहेऽथवा ।पुस्तस्त्रीस्तनहस्तास्यप्रवृत्तोशीरवारिणि ॥
निशाकरकराकीर्णे सौधपृष्ठे निशासु च ।आसनास्वस्थचित्तस्य चन्दनार्द्रस्य मालिनः ॥
निवृत्तकामतन्त्रस्य सुसूक्ष्मतनुवाससः ।जलार्द्रास्तालवृन्तानि विस्तृताः पद्मिनीपुटाः ॥
उत्क्षेपाश्च मृदूत्क्षेपा जलवर्षिहिमानिलाः ।कर्पूरमल्लिकामाला हाराः सहरिचन्दनाः ॥
मनोहरकलालापाः शिशवः शारिकाः शुकाः ।मृणालवलयाः कान्ताः प्रोत्फुल्लकमलोज्ज्वलाः ॥
जङ्गमा इव पद्मिन्यो हरन्ति दयिताः क्लमम् ॥
”इति वाभटे सूत्रस्थाने तृतीयेऽध्याये ॥
“ग्रीष्मे पुनर्भृशौष्ण्योपहतत्वात् शरीरमसुखोप-पन्नं भवति । उष्णवातावध्मातमतिशिथिल-मत्यन्तप्रविलीनदोषं भेषजं पुनः संशोधनार्थ-मुष्णस्वभावमुष्णानुगमनात्तीक्ष्णतरत्वमापद्यते ।तस्मात्तयोः संयोगे संशोधनमतियोगायोप-पद्यते शरीरं पिपासोपद्रवाय ।” इति चरकेविमानस्थानेऽष्टमेऽध्याये ॥
“मयूखैर्जगतः सारं ग्रीष्मे पेपीयते रविः ।स्वादुशीतं द्रवं स्निग्धमन्नपानं तदा हितम् ॥
शीतं सशर्करं मन्थं जाङ्गलान्मृगपक्षिणः ।घृतं पयः स शाल्यन्नं भजन् ग्रीष्मे न सीदति ॥
मद्यमल्पं न वा पेयमथवा सुबहूदकम् ।लवणाम्लकटूष्णानि व्यायामञ्चात्र वर्ज्जयेत् ॥
दिवा शीतगृहे निद्रां निशि चन्द्रांशुशीतलम् ।भजेच्चन्दनदिग्धाङ्गः प्रवाते हर्म्म्यमस्तके ॥
व्यजनैः पाणिसंस्पर्शैश्चन्दनोदकशीतलैः ।सेव्यमानो भजेदास्यां मुक्तामणिविभूषितः ॥
काननानि च शीतानि जलानि कुसुमानि च ।ग्रीष्मकाले निषेवेत मैथुनाद्विरतो नरः ॥
”इति च सूत्रस्थाने षष्ठेऽध्याये चरकेणोक्तम् ॥
)तत्र जातफलं यथा, कोष्ठीप्रदीपे ।“ग्रीष्मोद्भवो भोगभवानुरक्तोवक्ता सुशीलो जलकेलिशीलः ।विद्याधनैश्वर्य्ययशोमनोज्ञोधन्वी सुवेशः परदारचित्तः ॥
”उष्णः । इति मेदिनी । मे । १० ॥
गर्मि इतितात् इति च भाषा ॥
तद्वति त्रि ॥
वाचस्पत्यम्
Sanskritग्रीष्म ग्रसते रसान् ग्रस--मनिन् । ज्यैष्ठाषाढमास-द्वयात्मके १ ऋतुभेदे । “ग्रीष्मे तीव्रकरोभानुर्न हेमन्तेतथाविधः” सूर्य्यसि० । “विहर्त्तुमिच्छोर्वनितासखस्यतस्याम्भसि ग्रीष्मसुखे बभूव” रघुः । “अनेन विधिनाश्राद्धं त्रिरव्दस्येह निर्वपेत् । हेमन्तग्रीष्मवर्षासु-पाञ्चयज्ञिकमन्वहम्” “ग्रीष्मे पञ्चतपास्तु स्यात् वर्षास्वनवकाशिकः” मनुः । स्वार्थे अण् । ग्रैष्म तत्रार्थे तस्ये-दमण् । तत्सम्बन्धिनि “शुक्रश्च शुलिश्चग्रैष्मावृतू”यजु० १ । ६ । “ग्रैष्मौ ग्रैष्मसम्बन्धिनौ ऋतू ऋत्ववयवौ”वेददी० । ऋतोश्च यथा चान्द्रमासात्मकता तथर्त्तु-शब्दे १४३७ पृ० दर्शिता । सौरत्वं तु ज्योतिर्शण-नामात्रोपयोगित्वेन ज्योतिषे व्यवह्रियते तदपि तत्रैवशब्देदर्शितम् । सुश्रुतोक्तग्रीष्मगुणादिकं ऋतुशव्दे दतितम् ।ग्रीष्मे सूर्य्यकिरणस्य तीव्रत्वे कारणम् सू० सि० उक्तं यथा“मेषादौ देवभागस्थे देवानां याति दर्शनम् । असु-राणां तुलादौ तु सूर्यस्तद्भागसञ्चरः” सू० ।“जम्बुद्वीपलवणससुद्रसन्धौ परिधिवृत्तं भूगोलमध्ये तत्स-मसूत्रेणाकाशे वृत्तं विषुवद्वृत्तं तत्र क्रान्तिवृत्तं षड्भान्तरेणस्थानद्वये लग्नं तन्मेषतुलास्थानं प्रवहवायुना विषुवद्वृत्त-मार्गे भ्रमति मेपस्थानात् कर्कादिस्थानं विषुवद्वृत्ताच्चतु-र्विंशत्यंशान्तर उत्तरतः, मकरादिस्थानं विषुवद्वृत्ता-च्चतुर्विशत्यंशान्तरे दक्षिणतः, तत् स्वस्थाने प्रवहवायुनाभ्रमति । एवं क्रान्तिवृत्तप्रदेशाः स्वस्वस्थाने प्रवहवायुनाभ्रमन्ति । तत्र मेषादौ देवभागस्थः “जम्बुद्वीपं च देवानांदेवासुरविभागकृदिति” पूर्वोक्तेः । तत्सम्बद्धा मेषादिक-न्यान्ता राशय उत्तरगोलः । तत्रस्थः सूर्यो मेषादौ मे-षादिपदेशे देवानां मेरोरुत्तराग्रवर्तिनां दर्शनं षण्मासा-गन्तरं प्रथमदर्शनं याति गच्छति प्राप्नोतीत्यर्थः विषुवद्बृत्तस्यतत्क्षितिजत्वात् । एवं दैत्यानां मेरोर्दक्षिणाग्रवर्तिना-मित्यसुराणामित्युक्तेनैवोक्तम् । तद्भागसञ्चरो दैत्यभागेसमुद्रादिदक्षिणविभागस्थस्तुलादिमीनान्ता राशयो दक्षिण-गोलस्तत्र सञ्चरो गमनं यस्येत्येतादृशः सूर्यस्तुलादिप्रदेशेतुकराददर्शनानन्तरं प्रथमदर्शनं प्राप्नोतीत्यर्थः तेषामपिविषुवद्वृत्तक्षितिजत्वात् । अथ प्रसङ्गाद्ग्रीष्मे तीव्रकरःइत्याद्यर्घोक्तप्रश्नस्योत्तरमाह” रङ्गना० ।“अत्यासन्नतया तेन ग्रोष्मे तीव्रकरा रवेः । देवभागेऽ-सुराणां तु हेसन्ते मन्दताऽन्यथा” सू० सि० ।“तेन--उत्तरदक्षिणगोलयोः सूर्यस्योत्तरदक्षिणसञ्चार-रूपकारणेनेत्यर्थः । देवभागे जम्बुद्वीपे अत्यासन्नतयासूर्य्यस्यात्यन्तनिकष्टस्यत्वेन ग्रीष्मे ग्रीष्मर्तौ सूर्यस्य तेजो-गोलकस्य किरणास्तीक्ष्णा अन्युष्णाः, असुराणां देवभागइत्यस्यासन्नतया भाग इत्यस्य समन्वयाद्दैत्यानां भागे समु-द्रादिदक्षिणपदेशे हेमन्ते हेमन्तर्तौ तुकारात् अन्यथासूर्यस्य दूरस्यत्वेन मन्दता किरणानामत्युष्णताभावः ।देवभागे हेमन्तर्तौ कराणां मन्दता । अतएव तत्रशीताधिक्यं च । तथाच देवभागे दक्षिणगोले सूर्यस्यदूरस्थत्वमुत्तरभोले निकटस्थत्वं मध्याह्ने नतांशानांक्रमेणाधिकाल्पत्वादिति भावः” र० ना० ।२ तत्कालभवे ऊष्मणि ३ तद्वति मेदि०
Burnouf
Frenchग्रीष्म ग्रीष्म a. chaud. -- S. chaleur
la saison des
chaleurs [juin-juillet].
ग्रीष्मजा (जन्) anona reticulata, bot.
ग्रीष्मभवा (भू) jasmin double.
ग्रीष्मसुन्दरक esp. d'herbe potagère.
ग्रीष्महास (हस्) m à sourire de l'été,
c-à-d. les duvets, les semences ailées, etc., qui voltigent dans
l'air pendant les chaleurs.
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
