ग्रहभक्ति (grahabhakti)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
Monier Williams Cologne
Englishवाचस्पत्यम्
Sanskritग्रहभक्ति स्त्री ६ त० । ग्रहाणां विभागरूपे देशपुरुषद्रव्यादिभेदे सा च वृ० स० १६ अ० उक्ता यथारवेः--“प्राङ्नर्मदार्धशोणोड्रवङ्गसुह्माः कलिङ्गवाह्लीकाः ।शकयवनमगधशवरप्राग्ज्योतिषचीनकाम्बोजाः । मेक-लकिराताटविका बहिरन्तःशैलजाः पुलिन्दाश्च । द्रवि-डानां प्रागर्धं दक्षिणकूलं च यमुनायाः । चम्पोदुम्बर-कौशाम्बिचेदिविन्ध्याटवीकलिङ्गाश्च । पुण्ड्रा गोलाङ्गूल-श्रीपर्वतवर्द्धमानाश्च । इक्षुमतो त्वथ तस्करपारतकान्ता-रगोपबीजानाम् । तुषधान्यकटुकतरुकनकदहनविषसम-रशूराणाम् । भेषजभिषक्चतुष्पदकृषिकरनृपहिंस्रया-यिचौराणाम् । व्यालारण्ययशोयुततीक्ष्णानां भास्करःस्वामी” ।विधोः--“गिरिसलिलदुर्गकोसलमरुकच्छसमुद्ररोमकतुषा-राः । वनवासितङ्गणहलस्त्रोराज्यमहार्णवद्वीपाः ।मधुरसकुसुमफलसलिललबणमणिशङ्खमौक्तिकाब्जानाम् ।शालियवौषधिगोधूमसोमपाक्रन्दविप्राणाम् । सितसुभ-गतुरगरतिकरयुवतिचमूनाथभोज्यवस्त्राणाम् । शृङ्ग-निशाचरकर्षकयज्ञविदां चाधिपश्चन्द्रः” ।कुजस्य--“शोणस्य नर्मदाया भीमरथायाश्च पश्चिमार्द्धस्थाः ।निर्विन्ध्या वेत्रवती सिप्रा गोदावरी वेणा । मन्दाकिनीपयोष्णी महानदी सिन्धुमालतीपाराः । उत्तरपाण्ड्यम-हेन्द्राद्रिविन्ध्यमलयोपगाश्चोलाः । द्रविडविदेहान्ध्राश्म-कभासापुरकोङ्कणाः समं त्रिशिखाः । कुन्तलकेरलदण्डक-कान्तिपुरम्लेच्छसङ्करजाः । नासिक्यगोवर्द्धनविराटविन्ध्या-द्रिपार्श्वगा देशाः । ये च पिबन्ति सुतोयां तापींये चापि गोमतीसलिलम् । नागरकृषिकरपारतहुता-शनाजीविशस्त्रवार्त्तानाम् । आटबिकदुर्गकर्वटबधकनृ-शंसावलिप्तानाम् । नरपतिकुमारकुञ्जरदाम्भिकडिम्भाभि-घातप्रशुपानाम् । रक्तफलकुसुमविद्रुमचमूपगुडमद्यती-क्ष्णानाम् । कोशभवनाग्निहोत्रिकधात्वाकरशाक्यभिक्षु-चौराणाम् । शठदोर्घवैरबह्वाशिनां च वसुधासुतोऽधिपतिः” ।बुधस्य--“लौहित्यः सिन्धुनदः सरयूर्गम्भीरिका रथाह्वाच । गङ्गाकोशिक्याद्याः सरितो वैदेहकाम्बोजाः ।मथुरायाः पूर्वार्द्धं हिमवद्गोमन्तचित्रकूटस्थाः । सौराष्ट्रसेतुजलमार्गपपयबिलपर्वताश्रयिणः । उदपानयन्त्रगा-न्धर्वलेख्यमणिरागगन्धयुक्तिविदः आलेख्यशब्दगणित-प्रसाधकायुयशिल्पज्ञाः । चरपुरुषकुहकजीवकशिशुक-विशठसूचकाभिचाररताः । दूतनपुंसकहास्यज्ञमूतत-न्त्रेन्द्रजालज्ञाः । आरक्षकनटनर्तकघृततैलस्नेहवीजति-क्तानि । व्रतचारिरसायनकुशलवेसराश्चन्द्रपुत्रस्य”गुरोः--“सिन्धनदपूर्बभागो मथुरापश्चार्द्धभरतसौवीराः ।स्रुघ्णोदीचाविपाशासरिच्छतद्रूरमठसाल्वाः । त्रैगर्तपौ-रवाम्बष्ठपारतावाटधानयौधेयाः । सारस्वतार्जुनायनमत्-स्यार्द्धग्रामराद्नाणि । हस्त्यश्वपुरोहितभूपमन्त्रिमाङ्गल्यपौ-ष्टिकासक्ताः । कारुण्यसत्यशौचव्रतविद्यादानधर्मयुताःपीरमहाधनशब्दार्थवेदविद्वदभिचारनीतिज्ञाः । मनु-जेश्वरोपकरणं छत्रध्वजचामराद्यं च । शैलेयकमसीतगरकुष्ठरससैन्धवानि वल्लीजम् । मधुररसमधूच्छि-ष्टानि चोरकश्चेति जीवस्य” ।भृगोः--“तक्षशिलामार्तिकावतबहुगिरिगान्धारपुष्कलावत-काः । प्रस्थलमालवकैकयदाशार्णोशीनराः शिवयः । ये चपिबन्ति वितस्तामिरावतीं चन्द्रभागसरितं च । रथरज-ताकरकुञ्जरतुरगमहामात्रधनयुक्ताः । सुरभिकुसुमा-नुलेपनमणिवज्रविभूषणाम्बुरुहशय्याः । वरतरुणयुव-तिकामोपकरणमृष्टान्नमधुरभजः । उद्यानसलिलकामु-कयशःसुखौदार्यरूपसम्पन्नाः । विद्वदमात्यवणिग्जनघट-कृच्चित्राण्डजास्त्रकलाः । कौशेयपट्टकम्बलपत्रौर्णिकरो-ध्रपत्रचोचानि । जातीफलागुरुवचापिप्पल्यश्चन्दनं चभृगोः” ।शनेः--“आनर्त्तार्वुदपष्करसौराष्ट्राभीरशूद्ररैवतकाः । नष्टा-यस्मिन्देशे सरस्वती पश्चिमो देशः । कुरुभूमिजाः प्रभासंविदिशा वेदस्मृतीमहीतटजाः । खलमलिननीचतैलि-कविहीनसत्त्वोपहतपुंस्त्वाः । बन्धनशाकुनिकाशुचिकैवर्त्त-विरूपवृद्धसौकरिकाः । गणपूज्यस्खलितव्रतशवरपुलिन्दा-र्थपरिहीनाः । कटुतिक्तरसायनविधवयोषितो भुजगत-स्करमहिष्यः । खरकरभचणकवातुलनिष्पावाश्चार्कपुत्रस्य” ।राहोः--“गिरिशिखरकन्दरदरीविनिविष्टा म्लेच्छजातयःशूद्राः । गोमायुभक्षशूलिकवोक्काणा मुखविकलाङ्गाः ।कुलपांसनहिंस्रकृतव्नचौरनिःसत्यशौचदानाश्च । खर-चरनियुद्धवित्तीव्ररोषगर्भाशया नीचाः । उपहतदाम्भि-कराक्षसनिद्रावहुलाश्च जन्तवः सर्वे । धर्मेण च स-न्त्यक्ता माषतिलाश्चार्कशशिशत्रोः” ।केतोः--“गिरिदुर्गपह्नवश्वेतहूणचोलावगाणमरुचीनाः । प्र-त्यन्तधनिमहेच्छव्यवसायपराक्रमोपेताः । परदारविवाद-रताः पररन्ध्रकतूहला मदोत्सिक्ताः । मूर्खाधा-र्मिकविजिगीषवश्च केतोः समाख्याताः” ।“उदयसमये यः स्निग्धांशुर्महान् प्रकृतिस्थितो यदि च नहतो निर्घातोल्कारजोग्रहमर्दनैः । स्वभवनगतः स्वोच्च-प्राप्तः शुभग्रहवीक्षितः स भवति शिवस्तेषां येषां प्रभुःपरिकीर्त्तितः । अभिहितविपरीतलक्षणैः क्षयमुपगच्छतितत्परिग्रहः । डमरभयगदातुरा जना नरपतयश्चभवन्ति दुःखिताः । यदि न रिपुकृतं भयं नृपाणांस्वसुतकृतं नियमादमात्यजं वा । भवति जनपदस्य चा-प्यदृष्ट्या गमनमपूर्वपुराद्रिनिम्नगासु” ।
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
