| YouTube Channel

ग्रस (grasa)

 
शब्दसागरः
English
ग्रस r. 1st cl. (उ) ग्रसु (ग्रसते) 1. To eat.
2. To swallow, to devour. r. 1st
and 10th cls. (ग्रसति ग्रासयति) To take, to seize. भ्वा-आत्म-सक-सेट्
चुरा-उभ०
Yates
English
ग्रस (उ, ङ) ग्रसते 1.
d. To eat, to
swallow, to devour. (कि) ग्रसति,
ग्रासयति 10.
a. To take or seize.
Wilson
English
ग्रस r. 1st cl. (उ) ग्रसु (ग्रसते)
1 To eat.
2 To swallow, to devour. r. 1st and 10th cls. (ग्रसति ग्रासयति) To take,
to seize.
धातुपाठः (Krishnacharya)
Sanskrit
धातुः:
ग्रस्
मूलधातुः:
ग्रस
धात्वर्थः:
ग्रहणे
गणः:
चुरादिः
कर्मकत्वं:
सकर्मकः
इट्त्वं:
सेट्
उपग्रहः:
उभयपदी
रूपम्:
ग्रसयति-ते
धातुप्रदीपः
Sanskrit
ग्रसँ ग्रस ग्रहणे
- ग्रासयति फलम् अन्यत्र ग्रसते 211
शब्दकल्पद्रुमः
Sanskrit
ग्रस, भक्षणे इति कविकल्पद्रुमः
(भ्वां-आत्मं-सकं-सेट् ।) रेफयुक्तः उ, ग्रसित्वाग्रस्त्वा ङ, ग्रसते हिमांशुमाशु ग्रसते ।इति माघः इति दुर्गादासः
ग्रस, कि ग्रासे इति कविकल्पद्रुमः
(चुरां--पक्षे भ्वां-परं-सकं सेट् ।) रेफयुक्तः कि, ग्रासयति फलं लोकः ग्रसति तव मुखेन्दुं पूर्ण-चन्द्रं विहाय इमं ग्रहणे पठन्ति केचित् ।इति दुर्गादासः
वाचस्पत्यम्
Sanskrit
ग्रस भक्षणे
भ्वा०
आत्म०
सक०
सेट् ग्रसते अग्रसिष्टजग्रसे उदित् ग्रसित्वा ग्रस्त्वा ग्रस्तः “हिमां-शुमाशु ग्रसते तन्मृदिम्नः स्फुटं फलम्” माघः “सुमहा-न्तमपि ग्रासं ग्रसे लब्धं यदृच्छया” भा० शा० १७९अ० “य इमां पृथिवीं कृत्स्नां संक्षिप्य ग्रसतेपुनः” भा० व० २६ श्लो० “राहुग्रस्ते निशाकरे” भा०व० २६६७ श्लो० ग्रासः ग्रसनम् क्विप् धातुत्वान्नदीर्घः ग्रत् ग्रसौ ग्रस इति
ग्रस भक्षणे वा चुरा०
उभ०
पक्षे
भ्वा०
पर०
सक०
सेट् ग्रासयति--ते ग्रसति अजिग्रसत्--त अग्रासीत् अग्रसीत् ।ग्रासयाम् बभूव आस चकार चक्र ग्रसितः ।“न प्रापितमन्येन ग्रसेदर्थं कथञ्चन” मनुः
क्षीरतरङ्गिणी
Sanskrit
ग्रसँ ग्रस ग्रहणे
- ग्रासयति [फलम्] त्रस वारणे इति दुर्गः त्रासयति मृगान् धारण इति नन्दी, ग्रहण इत्येके अन्यत्र (49) त्रसति त्रस्यति 213
धातुवृत्तिः
Sanskrit
ग्रसँ ग्रस (अर्थः) ग्रहणे
( ग्रासयति फलम् ) ग्रसत इत्यदने शपि 214
कृदन्तरूपमाला
Sanskrit
1 {@“ग्रस ग्रहणे”@} 2 आस्वदीयः।
ग्रासकः-सिका, जिग्रासयिषकः-षिका
ग्रासयिता-त्री, जिग्रासयिषिता-त्री
3 ग्रासयन्-न्ती, जिग्रासयिषन्-न्ती
ग्रासयिष्यन्-न्ती-ती, जिग्रासयिषिष्यन्-न्ती-ती
ग्रासयमानः, जिग्रासयिषमाणः
ग्रासयिष्यमाणः, जिग्रासयिषिष्यमाणः
4 5 विग्राः-विग्रासौ-विग्रासः
-- ग्रासितम्-तः, जिग्रासयिषितः-तवान्
ग्रासः, जिग्रासयिषुः, ग्रासयितव्यम्, जिग्रासयिषितव्यम्
ग्रासनीयम्, जिग्रासयिषणीयम्
ग्रास्यम्, जिग्रासयिष्यम्
ईषद्ग्रासः-दुर्ग्रासः-सुग्रासः
ग्रास्यमानः, जिग्रासयिष्यमाणः
ग्रासः, जिग्रासयिषः
ग्रासयितुम्, जिग्रासयिषितुम्
ग्रासना, जिग्रासयिषा
ग्रासनम्, जिग्रासयिषणम्
ग्रासयित्वा, जिग्रासयिषित्वा
अनुग्रास्य, अनुजिग्रासयिष्य
ग्रासम् २, ग्रासयित्वा २, जिग्रासयिषम्
जिग्रासयिषित्वा २।
प्रासङ्गिक्यः
01
=>
(४३९)
02
=>
(१०-चुरादिः-१७५०। सक। सेट्। उभ।)
03
=>
[[आ। ‘दोर्भ्यां ग्रासयतां प्रपोषितरुषां निर्दालनोद्योगिनां तेषां विकमणैरपाटि पटिमा शिक्षाप्यपोटि स्फुटम्।’ धा। का। ३-४३।]]
04
=>
[पृष्ठम्०४३४+ २५]
05
=>
[[१। णिज्निमित्तिका उपधावृद्धिः। रुत्वविसर्गौ।]]