| YouTube Channel

गोविन्दद्वादशी (govindadvAdazI)

 
Spoken Sanskrit
English
गोविन्दद्वादशी govindadvAdazI
f.
12th day in the light half of month phAlguna
Monier Williams Cologne
English
गो—विन्द—द्वादशी
f.
the 12th day in the light half of month Phālguna
Shabdartha Kaustubha
Kannada
गोविन्दद्वादशी
पदविभागः - > स्त्रीलिङ्गः
कन्नडार्थः - > ಫಾಲ್ಗುನ ಮಾಸದ ಶುಕ್ಲ ದ್ವಾದಶಿ
व्युत्पत्तिः - > गोविन्दप्रिया द्वादशी
शब्दकल्पद्रुमः
Sanskrit
गोविन्दद्वादशी,
स्त्री,
(गोविन्दप्रीतये या द्बादशीगोविन्दाख्या द्वादशी वा गोविन्दप्रियाद्वादशीत्येके ।) फाल्गुनशुक्लद्वादशी यथा, --“फाल्गुने द्वादशी शुक्ला या पुष्यर्क्षेण संयुता ।गोविन्दद्वादशी नाम सा स्याद् गोविन्दभक्तिदा
तस्यामुपोष्य विधिना भगवन्तं प्रपूजयेत् ।लिखितः पापनाशिन्यां विधिर्योऽत्रापि सस्मृतः
”तम्माहात्म्यञ्च ब्रह्मपुराणे श्रीवशिष्ठमान्धातृ-संवादे ।“फाल्गुनाऽमलपक्षे तु पुष्यर्क्षे द्वादशी यदि ।गोविन्दद्वादशी नाम महापातकनाशिनी
तस्यामुपोष्य विधिवन्नरः संक्षीणकल्मषः ।प्राप्नोत्यनुत्तमां सिद्धिं पुनरावृत्तिदुर्लभामिति
आमर्द्दकी द्वादशीति लोके ख्यातेयमेव हि ।यत्र आमर्द्दकीपूजा व्रतमस्यां विशेषतः
”तदुक्तं व्राह्मे तत्रैव पापनाशिनीमाहात्म्य-प्रसङ्गे ।“फाल्गुने तु विशेषेण विशेषः कथितो नृप ! ।आमर्द्दक्या व्रतं पुण्यं विष्णुलोकप्रदं नृणाम्
”प्रभासखण्डे श्रीदेवीमहेशसंवादे ।“फाल्गुनस्य सिते पक्षे एकादश्यामुपोषितः ।स्नात्वा नद्यां तडागे वा वाप्यां कूपे गृहेऽपि वा
गत्वा गिरौ वने वापि यत्र सा प्राप्यते शिवा ।क्षीरोदे मथ्यमाने तु यदा वृक्षः समुत्थितः
आमर्द्दाद्देवदैत्यानां तेन सामर्द्दकी स्मृता ।शिवा लक्ष्मीः स्मृतो वृक्षः सेव्यते सुरसत्तमैः
देवैर्ब्रह्मादिभिः सर्व्वैर्वृक्षोऽसौ वैष्णवः स्मृतः ।तत्र गत्वा हरिः पूज्यो वृक्षमूलेऽथवा शिवा
पूज्या पुष्पैः शुभै रात्रौ कार्य्यं जागरणं हरेः ।करकं जलपूर्णन्तु कर्त्तव्यं पात्रसंयुतम्
हविष्यान्नन्तु कर्त्तव्यं दीपः कार्य्यो विधानतः ।एवं जागरणं कार्य्यं कथाश्रवणतत्परैः
मुच्यन्ते देहिनः पापैः कलिजैः कायसम्भवैः ।देहान्ते नराः सर्व्वे पूज्यन्ते हरिमन्दिरे
”इति श्रीहरिभक्तिविलासे १४ विलासः
वाचस्पत्यम्
Sanskrit
गोविन्दद्वादशी स्त्री गोविन्दप्रिया द्वादशी फाल्गुनशुक्लद्वादश्याम् तत्स्वरूपविधानादि ब्रह्म
पु०
यथा“फाल्गुनामलपक्षे तु पुष्यर्क्षे द्वादशी यदि गोविन्दद्वादशी नाम महापातकनाशिनी तस्यामुपोष्यविधिवन्नरः संक्षीणकल्मषः प्राप्नोत्यनुत्तमां सिद्धिंपुनरावृत्तिदुर्लभामिति” “आमर्दकी द्वादशीति लोकेख्यातेयमेव हि यत्र आमर्द्दकीपूजा व्रतमस्यांविशेषतः” तदुक्तं व्राह्मे पापनाशिनीमाहात्म्यप्रसङ्गे “फाल्गुने तु विशेषेण विशेषः कथितो नृप!आमर्दक्याव्रतं पुण्यं विष्णुलोकप्रदं नृणाम्” प्रभासखण्डे देवीमहेश संवादे “फाल्गुनस्य सितेपक्षे एकादश्यामुपोषितः स्नात्वा नद्यां तडागे वावाप्यां कूपे गृहेऽपि वा गत्वा गिरौ वने वापि यत्रसा प्राप्यते शिवा क्षीरोदे मथ्यमाने तु यदा वृक्षःसमुत्थितः आमर्दाच्चैव दैत्यानां तेन साऽऽमर्दकीस्मृता शिवा लक्ष्मीः स्मृतो वृक्षः सेव्यते सुरसत्तमैः ।देवैर्व्रह्मादिभिः सर्वैर्वृक्षोऽसौ वैष्णवः स्मृतः तंत्रगत्वा हरिः पूज्यो वृक्षमूलेऽथ वा शिवा पूज्या पुष्पैःशुभैरात्रौ कार्य्यं जागरणं हरेः करकं जलपूर्णन्तुकर्त्तव्य पात्रसंयुतम् हविष्यान्नन्तु कर्त्तव्यं दीपःकार्य्यो विधानतः एवं जागरणं कार्य्यं कथाश्रवणतत्परैः मुच्यन्ते देहिनः पापैः कलिजैः कायसम्भवैः ।देहान्ते नराः सर्वे पूज्यन्ते हरिमन्दिरे”