गोलोक (goloka)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
Help us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
Monier Williams Cologne
EnglishShabdartha Kaustubha
Kannadaगोलोक
पदविभागः - > पुल्लिङ्गः
कन्नडार्थः - > ಗೋಲೋಕ /ಶ್ರೀಕೃಷ್ಣನ ನಿತ್ಯವಾಸಸ್ಥಾನ
निष्पत्तिः - > लोकृ (दर्शने) - "घञ्" (३-३-१९)
व्युत्पत्तिः - > गोभिः किरणैः ब्रह्मज्ञानतेजोभिः लोक्यते
Aufrecht Catalogus Catalogorum
EnglishMahabharata
EnglishGoloka (“the world of kine”). [§ 615ff (Asita Devala): IX, 50, 2894 (gavāṃ lokaṃ).]--§ 717b (Nārāyaṇīya): XII, 343, 13298 (sanātanaṃ)
348, 13502 (the upper lip of Nārāyaṇa).--§ 746 (Ānuśāsanik.): XIII, 72 [3545 (gavāṃ lokaṃ)], 3547 (ºvāsināṃ)
[73, †3566 (lokaṃ gavāṃ), †3568 (gavāṃ lokaṃ)]
83, [3891 (gavāṃ loke)], 3915, 3922.--§ 752 (do.): XIII, 96, 4649.--[§ 757m (Hastikūṭa)]: Gautama said: Next [to Prājāpatyā(ḥ) lokāḥ]
blaze eternal redolent regions, free from passion and sorrow, the world of kine, difficult to attain. Dhṛtarāshṭra said: He who possessing 1, 000 kine gives away 100 every year, etc., the brahmans who grow old practising brahmacarya, who obey the declarations of the Vedas (brāhmīṃ vācaṃ), and, endued with intelligence, betake themselves to tīrthayātrās, dwell here in felicity
likewise those who repair to Prabhāsa, etc. (): XIII, 102, 4884 (gavāṃ loke).--[§ 758 (Ānuśāsanik.): XIII, 105, 4910 (gavāṃ lokaṃ).]
पुराणम्
Englishगोलोक / GOLOKA. A divine world. Mostly cows live in this world which is above all the other worlds. surabhi, daughter of dakṣa, acquired great powers by doing rigorous penance in this world. Pandits say that goloka is the upper lip, Brahmaloka, the lower lip of Mahāviṣṇu. (M.B. śānti Parva, Chapter 347, Śloka 52).
शब्दकल्पद्रुमः
Sanskritगोलोकं, (गौर्ज्योतीरूपं ज्योतिर्मयः पुरुषइत्यर्थस्तस्य लोकः स्थानम् । अभिधानात् क्लीव-त्वम् । यद्वा गोभिः किरणैः ब्राह्मज्ञान-तेजोभिरित्यर्थः लोक्यते इति । लुक् + घञ् ।)श्रीकृष्णस्य स्थानम् । यथा, तन्त्रे ।“वैकुण्ठस्य दक्षभागे गोलोकं सर्व्वमोहनम् ।तत्रैव राधिका देवी द्विभुजो मुरलीधरः ॥
यदूपं गोलकं धाम तद्रूपं नास्ति मामके ।ज्ञाने वा चक्षुषोः किं वा ध्यानयोगे न विद्यते ॥
शुद्धतत्त्वमयं देवि ! नानादेवेन शोभितम् ।मध्यदेशे गोलोकाख्यं श्रीविष्णोर्लोभमन्दिरम् ॥
श्रीविष्णोः सत्त्वरूपस्य यत् स्थलं चित्तमोहनम् ।तस्य स्थानस्य माहात्म्यं किं मया कथ्यतेऽधुना ॥
तत्रैष सततं भाति द्बिभुजो मुरलीधरः ।तदा सत्त्वमयो विष्णुर्भुवनं पाति निश्चितम् ॥
दैष्णवस्य महामोक्षो यत्रैव परमेश्वरि ! ।इति स्थानस्य माहात्म्यं संक्षेपेण मयोदितम् ॥
विस्तारेण न शक्नोमि जन्मान्तरशतेन च ।बीजकोषस्य वाह्ये तु वेष्टितं तोयमण्डलम् ॥
प्रमाणं सुन्दरं तोयं यथा क्षीरोदसागरम् ।धूम्रस्य ज्योतिषाकारं कोटिचन्द्रसमप्रभम् ॥
बलयाकाररूपेण सुशुभ्रं तोयमण्डलम् ।गङ्गादिसरितः सर्व्वास्तथैव भान्ति सुन्दरि ! ॥
इन्द्रादिदेवताः सर्व्वा स्तूयमाना निरन्तरम् ।गन्धर्व्वयक्षनागादिकुष्माण्डा भैरवास्तथा ॥
नानासुखविलासेन सदा चैकाग्रचेतसः ।विष्णुगानं प्रकुर्व्वन्ति स्तुतिभक्तिपरायणाः ॥
देवा गानं प्रकुर्व्वन्ति चतुर्ब्बक्त्रेण वेधसा ।मालवाद्याश्च षड्रागा षट्त्रिंशद्रागिणी तथा ॥
वेदगानेन भासन्तो मूर्त्तिमन्तः सदैव हि ।मालवेनैव रागेण सामगानं सदा प्रिये ॥
मल्लारेण सदाथर्व्वं वसन्तेन तथा पुनः ॥
हिन्दोलेन यजुःपाठं सदा कुर्व्वन्ति चेतसा ॥
कर्णाटेनैव ऋग्वेदं श्रीरागेण तथा शिवे ।निर्द्दिष्टपाठमेतत्तु ह्यनिर्द्दिष्टमतः परम् ॥
तत्रैव सन्ति ते रागाः सहस्राणि च षोडश ।सरारेर्मुररीगानात् स्रर्व्वस्तालः प्रजायते ॥
तैन तालेन रागेण सदा गायन्ति वेधसः ।तद्वागस्य विभागं हि कुर्व्वन्ति मुनयो जनाः ॥
वसन्ताद्याश्च ऋग्रपस्तिष्ठन्ति तत्र सन्ततम् ।नानाऋतुप्रसूतेन भूषितं मुररीधरम् ॥
तत्रैव राधिका देवी नानामुखविलासिनी ।वदन्ती मुररीगानं कुरु कान्त ! प्रमोहनम् ॥
यन शब्देन कामस्य उत्पत्तिर्जायते सदा ।तद्वगश्चैव तचालं कुरु गानं प्रयत्नतः ॥
एवमानन्दसंयुक्ता महावेशविलासिनी ।वामभागे सदा भाति राधिका भक्तवत्सला ॥
”(एतस्य धाम्नो नित्यादिकमाहात्म्यं लक्षणादि-कञ्च ब्रह्मवैवर्त्तपुराणे ब्रह्मखण्डे २८ अध्यायेविस्तरशो विवृतं यथा, --“नित्यं स्थूलञ्च प्रच्छन्नं गोलोकाभिधमेव च ।लक्षकोटियोजनञ्च चतुरस्रं मनोहरम् ॥
रत्नेन्द्रसारनिर्म्माणैर्गोपीनामावृतं सदा ।सुदृश्यं वर्त्तुलाकारं यथैव चन्द्रमण्डलम् ॥
रत्नेन्द्रसारनिर्म्माणं निराधारञ्च स्वेच्छया ।ऊर्द्ध्वञ्च नित्यं वैकुण्ठात् पञ्चाशत्कोटियोजनम् ॥
गोगोपगोपीसंयुक्तं कल्पवृक्षसमन्वितम् ।कामधेनुभिराकीर्णं रासमण्डलमण्डितम् ॥
वृन्दावनवनाच्छन्नं विरजावेष्टितं मुने ! ।शतशृङ्गं शतशृङ्गैः सुदीप्तं दीप्तमीप्सितम् ॥
लक्षकोटिपरिमितै राश्रमैः सुमनोहरैः ।शतमन्दिरसंयुक्तमाश्रमं सुमनोहरम् ॥
प्राकारपरिखायुक्तं पारिजातवनान्वितम् ।कौस्तुभेन्द्रेण मणिना निर्म्माणकलसोज्ज्वलैः ॥
हीरासारविनिर्म्माणसोपानसंघसुन्दरैः ।मणीन्द्रसारनिर्म्माणैः कपाटदर्पणान्वितैः ॥
नानाचित्रविचित्राढ्यैराश्रमञ्च सुसंस्कृतम् ।षोडशद्वारसंयुक्तं सुदीप्तं रत्नदीपकैः ॥
रत्नसिंहासने रम्ये चामूल्यरत्ननिर्म्मिते ।नानाचित्रविचित्राढ्ये वसन्तमीश्वरं वरम् ॥
”)
गोलोकः, (लोक्यतेऽसौ इति लोकः गोभि-स्तेजोभिरुपलक्षितो लोकः । ब्रह्मस्वरूपज्योति-र्म्मयलोक इत्यर्थः ।) श्रीकृष्णस्य नित्यधाम ।यथा, ब्रह्यवैवर्त्तपुराणे ॥
“निराधारश्च वैकुण्ठो ब्रह्माण्डानां परो वरः ।तत्परश्चापि गोलोकः पञ्चाशत्कोटियोजनात् ॥
ऊर्द्ध्वे निराश्रयश्चापि रत्नसारविनिर्म्मितः ।सप्तद्वारः सप्तसारः परिखासप्तसंयुतः ॥
लक्षप्राकारयुक्तश्च नद्या विरजया युतः ।वेष्टितो रत्नशैलेन शतशृङ्गेण चारुणा ॥
योजनायुतमानञ्च यस्यैकं शृङ्गमुज्ज्वलम् ।शतकोटीयोजनश्च शैल उच्छ्रित एव च ॥
दैर्ध्यं तस्य शतगुणं प्रस्थे च लक्षयोजनम् ।योजनायुतविस्तीर्णस्तत्रैव रासमण्डलः ॥
अमूल्यरत्ननिर्म्माणो वर्त्तुलश्चन्द्रविम्बवत् ।पारिजातवनेनैव पुष्पितेन च वेष्टितः ॥
कल्पवृक्षसहस्रेण पुष्पोद्यानशतेन च ।नानाविधैः पुष्पवृक्षैः पुष्पितेन च चारुणा ॥
त्रिकोटिरत्नाभरणैर्गोपीलक्षैश्च रक्षितः ।रत्नप्रदीपयुक्तश्च रत्नतल्पसमान्वेतः ॥
नानाभोगसमायुक्तो मधुवापीशतैर्वृतः ।पीयूषवापीयुक्तश्च कामर्भोगसमन्वितः ॥
गोलोकगृहसंख्यानं वर्णनं वा विशारदः ।न कोऽपि वेद विद्वान् वा वेद विद्बान् व्रजेश्वरः ॥
”
वाचस्पत्यम्
Sanskritगोलोक वैकुण्ठोर्द्धस्थे स्थानभेदे तत्स्थानमानादि व्रह्मवै०पु० उक्तं यथा“निराधारश्च वैकुण्ठो ब्रह्माण्डानां परोवरः । तत्पर-श्चापि गोलोकः पञ्चाशत्कोटियोजनात् । ऊर्द्धेनिराश्रयश्चापि रत्नसारविनिर्म्मितः । सप्तद्वारः सप्त-सारः परिखासप्तसंयुतः । लक्षप्राकारयुक्तश्च नद्याविरजया युतः । वेष्टितो रत्नशैलेन शतशृङ्गेणचारुणा । योजनायुतमानञ्च यस्यैकं शृङ्गमुज्ज्वलम् ।शतकोटियोजनश्च शैलौच्छ्रित एव च । दैर्घ्यं तस्यशतगुणं प्रस्थे च लक्षयोजनम् । योजनायुतविस्तीर्णस्तत्रैव रासमण्डलः । अमूल्यरत्ननिर्म्माणोवर्त्तुलश्चन्द्रविम्बवत् । पारिजातवनेनैव पुष्पितेन चवेष्टितः । कल्पवृक्षसहस्रेण पुष्पोद्यानशतेन च ।नानाविधैः पुष्पवृक्षैः पुष्पितेन च चारुणा । त्रिकोटिरत्नाभरणैर्गोपीलक्षैश्च रक्षितः । रत्नप्रदीपयुक्तश्चरत्नतल्पसमन्वितः । नानाभोगसमायुक्तो मधुवापी-शतैर्वृतः । पीयूषवापीयुक्तश्च कामभोगसमन्वितः ।गोलोकगृहसंख्यानं वर्णनं वा विशारदः । न कोपिवेद विद्वान् वा वेदविद्वान् व्रजेश्वर!” ।
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
