गोलक्षण (golakSaNa)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
Shabdartha Kaustubha
Kannadaगोलक्षण
पदविभागः - > नपुंसकलिङ्गः
कन्नडार्थः - > ಶುಭಾಶುಭಸೂಚನೆಯುಳ್ಳ ಗೋವುಗಳ ಲಕ್ಷಣ /ಗೋವುಗಳಲ್ಲಿರುವ ಶುಭದ ಮತ್ತು ಅಶುಭದ ಚಿಹ್ನೆ
वाचस्पत्यम्
Sanskritगोलक्षण ६ त० । गोः शुभाशुभसूचके चिह्नभेदे वृ०स० तल्लक्षणाद्युक्तं यथा“पराशरः प्राह वृहद्रथाय गोलक्षणं यत् क्रियतेततोऽयम् । मया समासः शुभलक्षणास्ता सर्वास्तथा-प्यागमतो ऽभिधास्ये । सास्राबिलरूक्षाक्ष्यो मूषकनयनाश्च न शुभदा गावः । प्रचलच्चिपिटविषाणाःकरटाः खरसदृशवर्णाः । दशसप्तचतुर्दन्त्यः प्रलम्बमुण्डानना विनतपृष्ठाः । ह्रस्वस्थूलग्रीवा यवमध्यादारितखुराश्च । श्यावातिदीर्घजिह्वागुल्फेरतितनु-भिरतिवृहद्भिर्वा । अतिककुदाः कृशदेहा नेष्टाहीनाधिकाङ्ग्यश्च । वृषभोऽप्येवं स्थुलातिलम्ब-वृषणः सिराततक्रोडः । स्थूलसिराचितगण्डस्त्रि-स्थानं मेहते यश्च । मार्जाराक्षः कपिलः करटोवा न शुभदो द्विजस्येष्टः । कृष्णोष्ठतालुजिह्वः श्वसनोयूथस्य घातकरः । स्थूलशकृष्मणिशृङ्गः सितोदरःकृष्णसारवर्णश्च । गृहजातोऽपि त्याज्यो यूथविना-शावहो वृषभः । श्यामकपुष्पचिताङ्गो भस्मारुणसन्निभोविडाल्यक्षः । विप्राणामपि न शुभं करोति वृषभःपरिगृहीतः । ये चोद्धरन्ति पादान् पङ्कादिव योजिताःकृशग्रीवाः । कातरनयना हीनाश्च पृष्ठतस्ते न भार-सहाः । मृदुसंहततास्वोष्ठास्तनुस्फिजस्ताम्रतालुजिह्वाश्च ।तनुह्रस्वीञ्चश्रवणाः सुकुक्षयः स्पष्टजङ्घाश्च । आताम्रसंहतखुरा व्यूढोरस्का वृहत्ककुदयुक्ताः । स्निग्धश्लक्ष्णतनुत्वग्रोमाणस्ताम्रतनुशृङ्गाः । तनुभूस्पृग्बालधयोरक्तान्तविलोचना महोच्छासाः । सिंहस्कन्धास्तन्वल्पकम्बलाः पूजिताः सुगताः । वामावर्तैर्वामे दक्षिणपार्श्वेच दक्षिणावर्त्तैः । शुभदा भवन्त्यनडुहो जङ्घाभिश्चै-णकनिभाभिः । वैदूर्य्यमल्लिकाबुद्बुदेक्षणाः स्थूलनेत्र-वर्माणः । पार्ष्णिभिरस्फुटिताभिः शस्ताः सर्वेऽपि भार-वहाः । घ्राणोद्देशे शवलो मार्जारमुखः सितश्चदक्षिणतः । कमलोत्पलताक्षाभः सुबालधिर्वाजितुल्यजवः । लम्बैर्वृषणैर्मेषोदरश्च सङ्क्षिप्तवङ्क्षणक्रोडः ।ज्ञेयो भाराध्वसहो जवेऽश्वतुल्यश्च शस्तफलः । सित-वर्णः पिङ्गाक्षस्ताम्रविषाणेक्षणो महावक्त्रः । हंसो-नाम शुमफलो यूथस्य विवर्धनः प्रोक्तः । भूस्पृग्बाल-धिराताम्रवङ्क्षणो रक्तदृक् ककुद्मी च । कल्माषश्चस्वामिनमचिरात् कुरुते पतिं लक्ष्म्याः । यो वासितैकचरणो यथेष्टवर्णश्च सोऽपि शस्तफलः । मिश्र-फलोऽपि ग्राह्यो यदि नैकान्तप्रशस्तोऽस्ति” ६१ अ० ।
Help us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
