| YouTube Channel

गोमेदः (gomedaH)

 
Wordnet
Sanskrit
Synonyms:
गोमेदः, गोमेदकः
noun
नवरत्नान्तर्गतं रत्नम्।
"तेन राहुशान्त्यर्थे गोमेदः धृतः।"
Synonyms:
गोमेदः
noun
एकः पर्वतः
"चक्रस्य उल्लेखः भागवतपुराणे वर्तते"
Synonyms:
गोमेदः
noun
एकः द्वीपः
"गोमेदस्य उल्लेखः मत्स्यपुराणे वर्तते"
Synonyms:
गोमेदः
noun
एकः पर्वतः
"गोमेदस्य उल्लेखः वायुपुराणे वर्तते"
शब्दकल्पद्रुमः
Sanskrit
गोमेदः,
पुं,
(गौर्जलमिव मेदयति स्नेहयतीति मिद् +पचाद्यच् ।) गोमेदकमणिः इति राजनिर्घण्टः
(ध तु नवरत्नान्तर्गतरत्न-विशेषः यथा, --“रत्नं गारुत्मतं पुष्पं रागो माणिक्यमेव ।इन्द्रनीलश्च गोमेदस्तथा वैदूर्य्यमित्यपि
मौक्तिकं विद्रुमश्चेति रत्नान्युक्तानि वै नव ।”इति भावप्रकाशस्य पूर्व्वखण्डे प्रथमे भागे
अस्य परीक्षागुणादिकञ्च गोमेदकशब्दे द्रष्ट-व्यम्
कक्वोलः इति हारावली २६१
द्बीप-विशेषः तन्नामनिरुक्तिर्यथा, --“गोमेदे गोपतिर्नाम राजाभूद्गोसवोद्यतः ।याज्योऽभूद्वह्निकल्पानामौतथ्यानां मनोः कुले
तेषु हरियज्ञाय प्रवृत्तेषु भृगून् गुरून् ।वव्रे तं गौतमः कोपादशपत् सोऽगमत् क्षयम्
यज्ञवाटेऽस्य ता गावो दग्धाः कोपाग्निना मुनेः ।तन्मेदसा मही छन्ना गोमेदः ततोऽभवत्
”इति चिन्तामणिधृतवचनानि
प्लक्षद्वीपस्थवर्षाचलभेदः यथा, विष्णुपुराणे ।२ ६--७ ।“मर्य्यादाकारकास्तेषां तथान्ये वर्षपर्व्वताः ।सप्तैव तेषां नामानि शृणुष्व मुनिसत्तमाः
गोमेदश्चैव चन्द्रश्च नारदो दुन्दुभिस्तथा ।सोमकः सुमनाश्चैव वैभ्राजश्चैव सप्तमः
”)