गोमेद (gomeda)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
Help us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
Monier Williams Cologne
EnglishShabdartha Kaustubha
Kannadaगोमेद
पदविभागः - > पुल्लिङ्गः
कन्नडार्थः - > ಗೋಮೇದಕ ಮಣಿ /ಬಿಳುಪು ಮಾಸಲು ಹಳದಿ ಕೆಂಪು ಮತ್ತು ನೀಲಿ ಬಣ್ಣಗಳಿಂದ ಕೂಡಿದ ನಾಲ್ಕು ಜಾತಿಗಳುಳ್ಳ ಮಣಿ
निष्पत्तिः - > ञिमिदा (स्नेहनमोचनयोः) - "अच्" (३-१-१३४)
व्युत्पत्तिः - > गौर्जलमिव मेदयति
गोमेद
पदविभागः - > पुल्लिङ्गः
कन्नडार्थः - > ಗೋಮೇದವೆಂಬ ಒಂದು ದ್ವೀಪ
गोमेद
पदविभागः - > पुल्लिङ्गः
कन्नडार्थः - > ಪ್ಲಕ್ಷದ್ವೀಪದ ಕುಲಪರ್ವತಗಳಲ್ಲೊಂದು
L R Vaidya
EnglishSanskrit Tibetan
Tibetangau me ta
गोमेद
शब्दकल्पद्रुमः
Sanskritगोमेदः, (गौर्जलमिव मेदयति स्नेहयतीति । मिद् +पचाद्यच् ।) गोमेदकमणिः । इति राजनिर्घण्टः ॥
(ध तु नवरत्नान्तर्गतरत्न-विशेषः । यथा, --“रत्नं गारुत्मतं पुष्पं रागो माणिक्यमेव च ।इन्द्रनीलश्च गोमेदस्तथा वैदूर्य्यमित्यपि ॥
मौक्तिकं विद्रुमश्चेति रत्नान्युक्तानि वै नव ।”इति भावप्रकाशस्य पूर्व्वखण्डे प्रथमे भागे ॥
अस्य परीक्षागुणादिकञ्च गोमेदकशब्दे द्रष्ट-व्यम् ॥
कक्वोलः । इति हारावली । २६१ ॥
द्बीप-विशेषः । तन्नामनिरुक्तिर्यथा, --“गोमेदे गोपतिर्नाम राजाभूद्गोसवोद्यतः ।याज्योऽभूद्वह्निकल्पानामौतथ्यानां मनोः कुले ॥
स तेषु हरियज्ञाय प्रवृत्तेषु भृगून् गुरून् ।वव्रे तं गौतमः कोपादशपत् सोऽगमत् क्षयम् ॥
यज्ञवाटेऽस्य ता गावो दग्धाः कोपाग्निना मुनेः ।तन्मेदसा मही छन्ना गोमेदः स ततोऽभवत् ॥
”इति चिन्तामणिधृतवचनानि ॥
प्लक्षद्वीपस्थवर्षाचलभेदः । यथा, विष्णुपुराणे ।२ । ४ । ६--७ ।“मर्य्यादाकारकास्तेषां तथान्ये वर्षपर्व्वताः ।सप्तैव तेषां नामानि शृणुष्व मुनिसत्तमाः ॥
गोमेदश्चैव चन्द्रश्च नारदो दुन्दुभिस्तथा ।सोमकः सुमनाश्चैव वैभ्राजश्चैव सप्तमः ॥
”)
वाचस्पत्यम्
Sanskritगोमेद गौरिव मेद्यति मिद--अच् । १ मणिभेदे २ द्वीप-भेदे तन्नामनिरुक्तिर्यथा “गोमेदे गोपतिर्नाम राजा-भूद्गोसवोद्यतः । याज्योऽभूद्वह्निकल्पानामौतथ्यानांमनोः कुले । स तेषु हरियज्ञाय प्रवृत्तेषु भृगून्गुरून् । वव्रे, तं गोतमः कोपादशपत् सोऽगमत् क्षयम् ।यज्ञवाटेऽस्य तागावो दग्धाः कोपाग्निना मनेः । तन्मे-दसा महीच्छन्ना गोमेदः स ततोऽभवदिति” युक्तिकल्प-तरुः । ३ प्लक्षद्वीपस्थे वर्षाचलभेदे तद्वर्षोपक्रमे” मर्य्यादा-कारकास्तेषां तथान्ये वर्षपर्वताः । सप्तैव तेषां नामानी-त्यभिधाय “गोमेदश्चैव चन्द्रश्च नारदो दुन्दभिस्तथा ।सोमकः सुमनाः शैलो वैभ्राजश्चैव सप्तमः” विष्णु ।स्वार्थे क । मणिभेदे तस्य परीक्षादियुक्तिकल्पतरावृक्तंयथा “हिमालय वा सिन्धौ वा गोमेदमणिसुम्भवः ।स्वच्छकान्तिर्गुरुः स्निग्धो वर्णाढ्यो दीप्तिमानपि । वलक्षःपिञ्जरो धन्यो गोमेद इति कीर्त्तितः । चतुर्द्धा जातिभेदस्तु गोमेदेऽपि प्रकाश्यते । ब्राह्मणः शुक्लवर्णस्यात् क्षत्रियो रक्त उच्यते । आपीतो वैश्यजातिस्तुशूद्रस्त्वानील उच्यते । छाया चतुर्विधा श्वेता रक्तापीताऽसिता तथा । गुरुप्रभाढ्यः सितवर्णरूपः स्निग्धोमृदुर्वातिमहापुराणः । स्वच्छस्तु गोमेदमणिर्धृतोऽयंकरोति लक्ष्मीं धनधान्यवृद्धिम् । लघुर्विरूपोऽतिखरो-ऽन्यमानः स्नेहोपलिप्तो मलिनः खरोऽपि । करोतिगोमेदमणिर्विनाशं सम्पत्तिभोगे बलवीर्य्यराशेः । येदोषा हीरके ज्ञेयास्ते गोमेदमणावपि । परीक्षावह्नितः कार्य्या शाणे वा रत्नकोविदैः ॥
स्फटिकेनैवकुर्वन्ति गोमेदप्रतिरूपकम् । शुद्धस्य गोमेदमणेस्तुमूल्यं सुवर्णतो द्वैगुणमाहुरेके । अन्ये तथा विद्रुमतुल्यमूल्यं तथा परे चामरतुल्यमाहुः । चतुर्बिध्रानामेषान्तुधारणं परिसम्मतम्” । सच जलकालुष्यशोधकः यथाहसुश्रुतः “तत्र (जले) सप्त कालुष्यप्रसाधनानि भवन्ति तद्यथाकतकगोमेदकविसग्रन्थिसैबालमूलवस्त्राणि मुक्तामणि-श्चेति” । स्वार्थे क । द्वीपभेदे । “शाकं ततः शाल्स-लमत्र कौशं क्रौञ्चं च गोमेदकपुष्करे च । द्वयोर्द्वयो-रन्तरमेकमेकं समुद्रयोर्द्वीपसुदाहरन्ति” सि० शि० ।
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
