| YouTube Channel

गोमुखं (gomukhaM)

 
शब्दकल्पद्रुमः
Sanskrit
गोमुखं,
क्ली,
(गोर्मुखमिव मुस्वं प्रवेशद्बारमस्य ।)कुटिलागारम् (गोर्मुखमिव आकृतिरस्य ।)वाद्यभाण्डम् (एतदर्थे पुंलिङ्गोऽपि दृश्यते ।यथा, गीतायाम् १३ ।“ततः शङ्खाश्च भेर्य्यश्च पणवानकगोमुखाः ।सहसैवाभ्यहन्यन्त सशब्दस्तुमुलोऽभवत्
”तथा महाभारते ४६ ५७ ।“आडम्बरान् गोमुखांश्च डिण्डिमांश्च महा-स्वनान्
”)लेपनम् इति मेदिनी खे
(यथा, माषे ४८ ।“शुकाङ्गनीलोपलनिर्म्मितानांलिप्तेषु भासा ग्रहदेहलीनाम् ।यस्यामलिन्देषु चक्रुरेवमुग्धाङ्गना गोमयगोमुखानि
”)चौरक्रियमाणसुरङ्गाभेदः सिँधविशेष इतिभाषा
इति त्रिकाण्डशेषः
(आसनविशेषः ।तल्लक्षणं यथा, हठयोगप्रदीपिकायाम् २० ।“सव्ये दक्षिणगुल्फं तु पृष्ठपार्श्वे नियोजयेत् ।दक्षिणेऽपि तथा सव्यं गोमुखं गोमुखाकृति
”)जपमालागोपनार्थं वस्त्रनिर्म्मितयन्त्रं यथा, --“चतुर्व्विंशाङ्गुलमितं पट्टवस्त्रादिसम्भवम् ।निर्म्मायाष्टाङ्गुलिमुखं ग्रीवां तत् षड्दशाङ्गुलम्
ज्ञेयं गोमुखयन्त्रञ्च सर्व्वतन्त्रेषु गोपितम् ।तन्मुखे स्थापयेन्मालां ग्रीवामध्यगतः करः
प्रजपेद्विधिना गुह्यं वर्णमालाधिकं प्रिये
”इति मुण्डमालातन्त्रम्
अपि मायातन्त्रे ।“गोमुखादौ ततो मालां गोपयेन्मातृजारवत्