| YouTube Channel

गोपालः (gopAlaH)

 
Apte Hindi
Hindi
गोपालः
पुं*
गो-पालः -
ग्वाला
गोपालः
पुं*
गो-पालः -
राजा
गोपालः
पुं*
गो-पालः -
कृष्ण का विशेषण
Wordnet
Sanskrit
Synonyms:
गोपालः
noun
यः गवादीन् पालयति।
"गोपालः धावित्वा पशून् नयति।"
Synonyms:
कृष्णः, नारायणः, दामोदरः, हृषीकेशः, केशवः, माधवः, अच्युतः, गोविन्दः, जनार्दनः, गिरिधरः, दैवकीनन्दनः, माधवः, शौरिः, अहिजितः, योगीश्वरः, वंशीधरः, वासुदेवः, कंसारातिः, वनमाली, पुराणपुरुषः, मुकुन्दः, कंसारिः, वासुः, मुरलीधरः, जगदीशः, गदाधरः, नन्दात्मजः, गोपालः, नन्दनन्दनः, यादवः, पूतनारिः, मथुरेशः, द्वारकेशः, पाण्डवायनः, देवकीसूनुः, गोपेन्द्रः, गोवर्धनधरः, यदुनाथः, चक्रपाणिः, चतुर्भुजः, त्रिविक्रमः, पुण्डरीकाक्षः, गरुडध्वजः, पीताम्बरः, विश्वम्भरः, विश्वरुजः, सनातनः, विभुः, कान्तः, पुरुषः, प्रभुः, जितामित्रः, सहस्रवदनः
noun
यदुवंशीय वसुदेवस्य पुत्रः यः विष्णोः अवतारः इति मन्यते।
"सूरदासः कृष्णस्य परमो भक्तः।"
Synonyms:
शिवः, शम्भुः, ईशः, पशुपतिः, पिनाकपाणिः, शूली, महेश्वरः, ईश्वरः, सर्वः, ईशानः, शङ्करः, चन्द्रशेखरः, फणधरधरः, कैलासनिकेतनः, हिमाद्रितनयापतिः, भूतेशः, खण्डपरशुः, गिरीशः, गिरिशः, मृडः, मृत्यञ्जयः, कृत्तिवासाः, पिनाकी, प्रथमाधिपः, उग्रः, कपर्दी, श्रीकण्ठः, शितिकण्ठः, कपालभृत्, वामदेवः, महादेवः, विरूपाक्षः, त्रिलोचनः, कृशानुरेताः, सर्वज्ञः, धूर्जटिः, नीललोहितः, हरः, स्मरहरः, भर्गः, त्र्यम्बकः, त्रिपुरान्तकः, गङ्गाधरः, अन्धकरिपुः, क्रतुध्वंसी, वृषध्वजः, व्योमकेशः, भवः, भौमः, स्थाणुः, रुद्रः, उमापतिः, वृषपर्वा, रेरिहाणः, भगाली, पाशुचन्दनः, दिगम्बरः, अट्टहासः, कालञ्जरः, पुरहिट्, वृषाकपिः, महाकालः, वराकः, नन्दिवर्धनः, हीरः, वीरः, खरुः, भूरिः, कटप्रूः, भैरवः, ध्रुवः, शिविपिष्टः, गुडाकेशः, देवदेवः, महानटः, तीव्रः, खण्डपर्शुः, पञ्चाननः, कण्ठेकालः, भरुः, भीरुः, भीषणः, कङ्कालमाली, जटाधरः, व्योमदेवः, सिद्धदेवः, धरणीश्वरः, विश्वेशः, जयन्तः, हररूपः, सन्ध्यानाटी, सुप्रसादः, चन्द्रापीडः, शूलधरः, वृषाङ्गः, वृषभध्वजः, भूतनाथः, शिपिविष्टः, वरेश्वरः, विश्वेश्वरः, विश्वनाथः, काशीनाथः, कुलेश्वरः, अस्थिमाली, विशालाक्षः, हिण्डी, प्रियतमः, विषमाक्षः, भद्रः, ऊर्द्धरेता, यमान्तकः, नन्दीश्वरः, अष्टमूर्तिः, अर्घीशः, खेचरः, भृङ्गीशः, अर्धनारीशः, रसनायकः, उः, हरिः, अभीरुः, अमृतः, अशनिः, आनन्दभैरवः, कलिः, पृषदश्वः, कालः, कालञ्जरः, कुशलः, कोलः, कौशिकः, क्षान्तः, गणेशः, गोपालः, घोषः, चण्डः, जगदीशः, जटाधरः, जटिलः, जयन्तः, रक्तः, वारः, विलोहितः, सुदर्शनः, वृषाणकः, शर्वः, सतीर्थः, सुब्रह्मण्यः
noun
देवताविशेषः- हिन्दूधर्मानुसारं सृष्टेः विनाशिका देवता।
"शिवस्य अर्चना लिङ्गरूपेण प्रचलिता अस्ति।"
Synonyms:
गोपालः
noun
एकः विद्वान्
"गोपालस्य उल्लेख प्रतापरुद्रीये वर्तते"
Synonyms:
गोपालः
noun
एकः सेनाध्यक्षः
"गोपालः कीर्तिवर्मणः सेनाध्यक्षः आसीत्"
Synonyms:
गोपालः
noun
एकः राजा
"गोपालस्य उल्लेखः कोशे अस्ति"
Synonyms:
गोपालः
noun
एकः मन्त्री
"गोपालः बिम्बिसारस्य मन्त्री आसीत्"
Synonyms:
गोपालः
noun
एकः नागः
"गोपालस्य वर्णनं बौद्धसाहित्ये वर्तते"
Synonyms:
गोपालः
noun
एकः दानवः
"गोपालस्य वर्णनं हरिवंशे वर्तते"
अमरकोशः
Sanskrit
Word: गोपालः
Root: गोपाल
Gender: पुं
Number: all
Meaning(s):
king
ziva
kRSNa
cowherd
earth-protector
Shloka(s):
2|9|57|2 गोपे गोपालगोसंख्यगोधुगाभीरवल्लवाः॥ (वैश्यवर्गः)
3|3|91|2 गोष्ठाध्यक्षेऽपि गोविन्दो हर्षेऽप्यामोदवन्मदः॥ (नानार्थवर्गः)
3|3|130|1 गोधुग्गोष्ठपती गोपौ हरविष्णू वृषाकपी। (नानार्थवर्गः)
Synonym(s):
2|9|57|2 गोपः (गोप) (पुं) king, kRSNa, herder, milkman, cowherd, guardian, herdsman, protector, chief herdsman, head of a district, superintendent of several villages
2|9|57|2 गोपालः (गोपाल) (पुं)
2|9|57|2 गोसङख्यः (गोसङ्ख्य) (पुं)
2|9|57|2 गोधुक् (गोधुक्) (पुं)
2|9|57|2 आभीरः (आभीर) (पुं)
2|9|57|2 वल्लवः (वल्लव) (पुं)
3|3|91|2 गोविन्दः (गोविन्द) (पुं) kRSNa, bRhaspati, chief herdsman, one who gives pleasure to the senses
3|3|130|1 गोपः (गोप) (पुं) king, kRSNa, herder, milkman, cowherd, guardian, herdsman, protector, chief herdsman, head of a district, superintendent of several villages
Related word(s):
परा_अपरासंबन्धः गवां_स्वामिः
उपजीव्य_उपजीवक_भावः गौः
जातिः मनुष्यः
उपाधि वृत्तिः
पति_पत्नीसंबन्धः आभीरी
स्व_स्वामीसंबन्धः गोपग्रामः
शब्दकल्पद्रुमः
Sanskrit
गोपालः,
पुं,
(गाः पालयतीति गा + पाल +“कर्म्मण्यण् ।” इत्यण् ।) गवांपालकः वृन्दावनस्थगोपालानां स्वरूपं यथा, “गोपाला मुनयः सर्व्वे वैकुण्ठानन्दमूर्त्तयः
”इति पद्मपुराणे पातालखण्डे व्यासं प्रति श्रीकृष्ण-वाक्यम्
*
(गां पृथिवीं पालयतीति गो+ पाल + अण् ।) राजा (गां पृथिवीं वेदंवा पालयतीति ।) नन्दनन्दनः कृष्णः इतिमेदिनी ले ८६
*
श्रीगोपालस्य ध्यानं यथा, “अव्याद्व्याकोषनीलाम्बुजरुचिररुणाम्भोज-नेत्रोऽम्बुजस्थोबालो जङ्घाकटीरस्थलकलितरणत्किङ्किणीकोमुकुन्दः ।दोर्भ्यां हैयङ्गवीनं दधदतिविमलं पायसं विश्व-वन्द्योगोगोपीगोपवीतो रुरुनखविलसत्कण्ठभूष-श्चिरं वः
”इति तन्त्रसारः
*
तस्य स्वरूपं यथा, --श्रीव्यास उवाच ।“ततोऽहमब्रुवं हृष्टः पुलकोत्फुल्लविग्रहः ।त्वामहं द्रष्टुमिच्छामि चक्षुर्भ्यां मधुसूदन !
यत्तत् सत्यं परं ब्रह्म जगद्योनिर्जगत्पतिः ।वसन्तं वेद शिरसि चाक्षुषं नाथ ! मेऽस्तु तत्
श्रीभगवानुवाच ।ब्रह्मणैवं पुरा पृष्टः प्रार्थितश्च यथा पुरा ।यदवोचमहं तस्मै तत्तुभ्यमपि कथ्यते
मामेके प्रकृतिं प्राहुः पुरुषञ्च तथेश्वरम् ।धर्म्ममेके धनञ्चैके मोक्षमेकेऽकुतोभयम्
शून्यमेके भावमेके परमार्थमथापरे ।दैवमेके देवमेके ग्रहमेके मनः परे
बुद्धिमेके कालमेके शिवमेके सदाशिवम् ।अपरे वेदशिरसि स्थितमेकं सनातनम्
सद्भावं विक्रियाहीनं सच्चिदानन्दविग्रहम् ।मन्मायामोहितधियः सर्व्वकालेषु वञ्चिताः
कोऽपि वेद पुमान् लोके मदनुग्रहभाजनः ।पश्याद्य दर्शयिष्यामि स्वं रूपं वेदगोपितम्
ततोऽपश्यमहं भूप ! बालं बालाम्बुदप्रभम् ।गोपकन्यावृतं गोपं हसन्तं गोपबालकैः
कदम्बमूलमासीनं पीतवाससमद्भुतम् ।वनं वृन्दावनं नाम नवपल्लवमण्डितम्
कोकिलभ्रमरारावमनोभवमनोहरम् ।नदीमपश्यं कालिन्दीमिन्दीवरदलप्रभाम्
गोवर्द्धनं तथापश्यं कृष्णवामकरोद्धृतम् ।महेन्द्रदर्पनाशाय गोगोपालसुखावहम्
दृष्ट्वा विहृष्टो ह्यभवं सर्व्वभूषणभूषणम् ।गोपालमबलासङ्गमुदितं वेणुनादितम्
ततो मामाह भगवान् वृन्दावनवचः स्वयम् ।यदिदं मे त्वया दृष्टं रूपं दिव्यं सनातनम्
निष्कलं निष्क्रमं शान्तं सच्चिदानन्दविग्रहम् ।पूर्णं पद्मपलाशाक्षं नातः पंरतरं मम
इदमेव वदन्त्येते वेदाः कारणकारणम् ।सत्यं व्यापि परानन्दचिद्घनं शाश्वतं शिवम्
नित्यां मे मथुरां विद्धि वनं वृन्दावनं तथा ।यमुनां गोपकन्याश्च तथा गोपालबालकान्
ममावतारो नित्योऽयमत्र मा संशयं कृथाः ।ममेष्टा हि सदा राधा सर्व्वज्ञोऽहं परात्परः
मयि सर्व्वमिदं विश्वं भाति मायाविजृम्भितम्
”इति पद्मपुराणे पातालखण्डम्
*
द्बादशगोपालाश्चैतन्यशब्दे द्रष्टव्याः
कृदन्तरूपमाला
Sanskrit
1 {@“पा रक्षणे”@} 2 ‘पाने पिबति, रक्षायां पाति, पायति शोषणे।।’ 3 इति देवः।
4 पायकः-यिका, 5 पालकः- 6 गोपालकः-लिका, पिपासकः-सिका, 7 पापायकः-यिका
8 पाता-पात्री, पालयिता-त्री, पिपासिता-त्री, पापायिता-त्री
9 पान्-न्ती- 10 ती, पालयन्-न्ती, पिपासन्-न्ती
-- पास्यन्-न्ती-ती, पालयिष्यन्-न्ती-ती, पिपासिष्यन्-न्ती-ती
-- 11 12 व्यतिपानः, पालयमानः, 13 व्यतिपिपासमानः, पापायमानः
व्यतिपास्यमानः, पालयिष्यमाणः, व्यतिपिपासिष्यमाणः, पापायिष्यमाणः
14 नपात्-नपातौ-नपातः, 15 तनूनपात्, अपान्नपात्, अपोनपात्
पातम्-तः-तवान्, पालितः, पिपासितः, पापायितः-तवान्
16 विश्वपाः-सुपाः, 17 गोपः-नृपः, 18 अधिपः, 19 पायः, 20 गोपायी, 21 नगरपायी, 22 पपिवान्, पालः, 23 गोपालः, पिपासुः, पापाः
पातव्यम्, पालयितव्यम्, पिपासितव्यम्, पापायितव्यम्
24 प्रपाणीयम्-प्रपानीयम्, पालनीयम्, पिपासनीयम्, पापायनीयम्
पेयम्, पाल्यम्, पिपास्यम्, पापाय्यम्
25 ईषत्पानः-दुष्पानः-सुपानः
-- -- पायमानः, पालयमानः, पिपास्यमानः, पापाय्यमानः
26 पायः, पालः, पिपासः, पापायः
पातुम्, पालयितुम्, पिपासितुम्, पापायितुम्
पातिः, 27 सम्पातिः, पालना, पिपासा, पापाया
पात्वा, पालयित्वा, पिपासित्वा, पापायित्वा
प्रपाय, प्रपाल्य, प्रपिपास्य, प्रपापाय्य
पायम् २, पात्वा २, पालम् २, पालयित्वा २, पिपासम् २, पिपासित्वा २, पापायम्
पापायित्वा
28 पतिः, 29 निपातनात् धातोरित्वम्।
पातीति पिता = जनकः।]] पिता, 30 इति पप्रत्यये रूपम्।
दुर्जनैः पायते इति पापम् = कायवाङ्मनोदुश्चरितम्।]] पापम्, 31 इति डुम्सुन्प्रत्यये, टिलोपे रूपम्।
पातीति पुमान् = नरः।]] पुमान्, 32 पाथः।
प्रासङ्गिक्यः
01
=>
(९८८)
02
=>
(२-अदादिः-१०५६। सक। अनि। पर।)
03
=>
(श्लो। ५)
04
=>
[[६। ‘आतो युक् चिण्कृतोः’ (७-३-३३) इति युगागमः। एवं घञादिष्वपि ज्ञेयम्।]]
05
=>
[[७। ‘पातेर्लुग् वक्तव्यः’ (वा। ७-३-३७) इति ण्यन्ते सर्वत्र लुगागमः।]]
06
=>
[[८। गवां पालकः गोपालकः। ‘नित्यं क्रीडाजीविकयोः’ (२-२-१७) इत्यनेन जीविकार्थ- कस्य नित्यसमासः।]]
07
=>
[[९। ‘गापोर्ग्रहणे इण्पिबत्योर्ग्रहणम्’ (वा। २-४-७७) इति वचनादस्य लुग्विकरणत्वेन, ‘लुग्विकरणालुग्विकरणयोरलुग्विकरणस्य’ (परिभाषा ९१) इत्यनेन ‘घुमास्था- गापा--’ (६-४-६६) इत्यादिषु नास्य ग्रहणम्। तेन ईत्वादिकमस्य नेति ज्ञेयम्। तेन यङन्ताण्ण्वुलि द्वित्वे, अभ्यासह्रस्वे च, ‘दीर्घोऽकितः’ (७-४-८३) इत्यभ्या- सस्य दीर्घः। एवं यङन्ते सर्वत्र ज्ञेयम्।]]
08
=>
[[आ। ‘यद्भागिभाजोऽपि हि जानते तान् ज्ञेयं यदष्टादश यश्च पाता’ वा। वि। २। ५३।]]
09
=>
[[१०। शत्रन्तात् स्त्रियाम्, ‘आच्छीनद्योर्नुम्’ (७-१-८०) इति नुम्बिकल्पः।]]
10
=>
[[B। ‘पान्त्यः शिशून्, धान्यधनानि रान्त्यो, लान्त्यश्च काश्चित् कुसुमानि दान्त्यः।।’ धा। का। २। ४९।]]
11
=>
[पृष्ठम्०८५७+ २७]
12
=>
[[१। ‘कर्तरि कर्मव्यतीहारे’ (१-३-१४) इति कर्मव्यतीहारे शानच्।]]
13
=>
[[२। सन्नन्तात् ‘पूर्ववत् सनः’ (१-३-६२) इत्यनेन कर्मव्यतीहारे शानच्।]]
14
=>
[[३। पातीति नपात् = नप्ता। ‘नभ्राण्नपात्--’ (६-३-७५) इत्यत्र निपातनात् नञ्तत्पुरुषे नञः प्रकृतिभावः, क्विपि तुगागमश्च। तन्वा पातीति तनून- पात् = अग्निरिन्द्रश्च। अपोनपात्, अपांनपात् इत्यपि देवताविशेषवाचके पदे। सर्वेऽप्येते क्विबन्ताः। प्रक्रिया पूर्ववत्।]]
15
=>
[[आ। ‘बभार बाष्पैर्द्विगुणीकृतं तनुः तनूनपाद् धूमवितानमाधिजैः।।’ शि। व। १। ६२।]]
16
=>
[[४। विश्वं पातीति विश्व पाः। ‘अन्येभ्योऽपि दृश्यन्ते’ (३-२-७५) इति विचि रूपमेवम्। एवं सुपाः इत्यत्रापि।]]
17
=>
[[५। ‘आतोऽनुपसर्गे कः’ (३-२-३) इति कर्मण्युपपदे कर्तरि कप्रत्ययः। एवं नृपः इत्यादिष्वपि ज्ञेयम्।]]
18
=>
[[६। ‘आतश्चोपसर्गे’ (३-१-१३६) इति कर्तरि कप्रत्ययः।]]
19
=>
[[७। ‘श्याऽऽद्व्यध--’ (३-१-१४१) इत्यादिना आदन्तलक्षणे कर्तरि णप्रत्यये रूपम्।]]
20
=>
[[८। ‘व्रते’ (३-२-८०) इति णिनिप्रत्यये युगागमः।]]
21
=>
[[९। ‘सुप्यजातौ णिनिस्ताच्छील्ये’ (३-२-७८) इति णिनिप्रत्ययः।]]
22
=>
[[१०। छान्दसोऽपि क्वसुरत्र धातौ भवतीति ‘विभाषा पूर्वाह्णापराह्णाभ्याम्’ (४-३-२४) इत्यत्र भाष्ये ‘पपुष आगतं पपिवद्रूप्यम्--’ इति प्रयोगाज्ज्ञायते। तेन क्वसुप्रत्यये, लिड्वद्भावेन द्विर्वचने, ‘आतो लोप इटि च’ (६-४-६४) इत्याकार- लोपे, ‘वस्वेकाजाद्घसाम्’ (७-२-६७) इतीडागमे रूपम्।]]
23
=>
[[११। गाः पालयतीति गोपालः। ‘कर्मण्यण्’ (३-२-१) इति ण्यन्तादस्मादण्प्रत्ययः।]]
24
=>
[[१२। ‘शेषे विभाषा-- (८-४-१८) इत्यनेन णत्ववि कल्पः।]]
25
=>
[[१३। ‘आतो युच्’ (३-३-१२८) इति ईषदाद्युपपदेषु खलपवादो युच्।]]
26
=>
[पृष्ठम्०८५८+ २९]
27
=>
[[१। ‘क्तिच्क्तौ संज्ञायाम्’ (३-३-१७४) इति संज्ञायां क्तिच्। पुंल्लिङ्गोऽयम्। सम्पातिः = जटायुभ्राता।]]
28
=>
[[२। ‘पातेर्डतिः’ (द। उ। १। २७।) इति डतिप्रत्ययः। पातीति पतिः = नायकः।]]
29
=>
[[३। औणादिके (द। उ। २। ३।) तृन्प्रत्यये, तृच्प्रत्यये वा रूपम्। तत्र [द। उ। २। ३।]
30
=>
[[४। ‘पानीविषिभ्यः पः’ [द। उ। ७। २।]
31
=>
[[५। ‘पातेर्डुम्सुन्’ [द। उ। ९। ४८।]
32
=>
[[६। ‘पातेर्बले जुट्
\n\n उदके थुट् च, अन्ने च’ [द। उ। ९-६३ तः ५। इति बलेऽभिधेये जुडागमे पाजः = अग्निः
\n\n जलेऽभिधेये अन्ने च, थुडागमे पाथः = जलमन्नं च।]]