गोपाल (gopAla)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
शब्दसागरः
EnglishHelp us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
Spoken Sanskrit
Englishगोपाल - gopAla - - earth-protector
गोपाल - gopAla - - king
गोपाल - gopAla - - kRSNa
गोपाल - gopAla - - ziva
गोपाल - gopAla - - cowherd
Wilson
EnglishMonier Williams Cologne
EnglishMacdonell
EnglishApte Hindi
Hindiगोपालः
गो-पालः -
ग्वाला
गोपालः
गो-पालः -
राजा
गोपालः
गो-पालः -
कृष्ण का विशेषण
Shabdartha Kaustubha
Kannadaगोपाल
पदविभागः - > पुल्लिङ्गः
कन्नडार्थः - > ಗೊಲ್ಲ /ದನ ಕಾಯುವವನು
निष्पत्तिः - > पाल (रक्षणे) + णिच् - "अण्" (३-२-१)
व्युत्पत्तिः - > गाः पालयति
गोपाल
पदविभागः - > पुल्लिङ्गः
कन्नडार्थः - > ರಾಜ /ದೊರೆ
निष्पत्तिः - > पाल (रक्षणे्) + णिच् - "अण्" (३-२-१)
व्युत्पत्तिः - > गां भूमिं पालयति
गोपाल
पदविभागः - > पुल्लिङ्गः
कन्नडार्थः - > ಶ್ರೀಕೃಷ್ಣ
प्रयोगाः - > "गां दृष्ट्वा विहृष्टो ह्यभवं सर्वभूषणभूषणम् । गोपालमबलासङ्गमुदितं वेणुनादितम् ॥"
उल्लेखाः - > पद्मपु०
गोपाल
पदविभागः - > पुल्लिङ्गः
कन्नडार्थः - > ಕ್ಷತ್ರಿಯನಿಂದ ಶೂದ್ರಸ್ತ್ರೀಯಲ್ಲಿ ಹುಟ್ಟಿದ ಬೆರಕೆ ಜಾತಿಯವನು
प्रयोगाः - > "अर्धिकः कुलमित्रं च गोपालो दासनापितौ"
उल्लेखाः - > मनु० ४-२५३
विस्तारः - > "क्षत्रियात् शूद्रकन्यायां सौत्पन्नस्तु यः सुतः । स गोपाल इति ज्ञेयो भोज्यो विप्रैर्न संशयः ॥"
Anekartha-Dvani-Manjari
Sanskritबल्लव
पु
बल्लव, सूद, गोपाल
बल्लवौ सूदगोपालौ चिकुरौ केशचञ्चलौ ॥ ११ ॥
verse 3.1.1.11
page 0014
Aufrecht Catalogus Catalogorum
Englishगोपाल son of Kāvajī, brother of Sūrya and Rāmakṛṣṇa,
father of Gaṇeśa (Jātakālaṃkāra 1614). L. 2443.
गोपाल father of Raṅgabhaṭṭa, father of Viṣṇu Paṇḍita,
father of Candraśekhara (Śiśupālavadhaṭīkā). L. 3040.
गोपाल father of Rāmānanda, grandfather of Jānakīnandana
(Vṛttadarpaṇa) wrote a C. on the Kaṇādasūtra and a
Kāvyakaumudī L. 2038.
गोपाल called also वोपदेव, son of Nṛsiṃha, grandson
of Gopāla, pupil of Meṅganātha, composed in 1438:
Rasamañjarīvikāsa.
Abhyankara Grammar
Englishगोपाल ( देव ) known more by the nickname of मन्नुदेव or मन्तुदेव who lived in the eighteenth century and wrote several commentary works on well-known grammatical treatises such as the Vaiyakarana- bhusanasara, Laghusabdenduse- khara, Paribhasendusekhara etc. He is believed to have written a treatise on Ganasutras also
(2) a grammarian different from the above मन्नुदेव who has written an explanatory work on the Prati- sakhyas
.(3) a scholar of grammar, different from the above who is believed to have written a gloss named Visamarthadipika on the Sarasvata Vyakarana at the end of the sixteenth century.
Schmidt Nachtrage zum Sanskrit Worterbuch
GermanSanskrit Tibetan
Tibetanglang po skyong
गोपाल
glang rdzi
गोपाल
glang rdzi
१) गोपाल २) गोविन्द
अभिधानचिन्तामणिः
Sanskritगोपाले गोधुगाभीरगोपगोसंख्यबल्लवाः ।
गोपाल (पुं), गोदुह् (पुं), आभीर (पुं), गोप (पुं), गोसङ्ख्य (पुं), वल्लव (पुं)
अभिधानचिन्तामणिपरिशिष्टम्
Sanskritधनदे निधनाक्षः स्यान्महासत्त्वः प्रमोदितः ॥ ३८ ॥
रत्नगर्भ उत्तराशाधिपतिः सत्यसंगरः ।
धनकेलिः सुप्रसन्नः परिविद्धोऽलका पुनः ॥ ३९ ॥
वसुप्रभा वसुसारा शंकरे नन्दिवर्धनः ।
बहुरूपः सुप्रसादो मिहिराणोऽपराजितः ॥ ४० ॥
कङ्कटीको गुह्यगुरुर्भगनेत्रान्तकः खरुः ।
परिणाहो दशबाहुः सुभगोऽण्वेकलोचनः ॥ ४१ ॥
गोपालो वरवृद्धोऽहिपर्यङ्कः पांसुचन्दनः ।
कूटकृन्मन्दरमणिर्नवशक्तिर्महाम्बकः ॥ ४२ ॥
कोणवादी शैलधन्वा विशालाक्षोऽक्षतस्वनः ।
उन्मत्तवेषः शवरः सिताङ्गो धर्मवाहनः ॥ ४३ ॥
महाकान्तो वह्निनेत्रः स्त्रीदेहार्धो नृवेष्टनः ।
महानादो नराधारो भूरिरेको दशोत्तमः ॥ ४४ ॥
यौटी यौटीङ्गोऽर्धकूटः समिरो धूम्रयोगिनौ ।
उलन्दो जयतः कालो जटाधरदशाव्ययौ ॥ ४५ ॥
संध्यानाटी रेरिहाणः शङ्कुश्च कपिलाञ्जनः ।
जगद्द्रोणिरर्धकालो दिशांप्रियतमोऽतलः ॥ ४६ ॥
जगत्स्रष्टा कटाटङ्वः कटप्रूहीरहृत्कराः ।
निधनाक्ष (पुं), महासत्त्व (पुं), प्रमोदित (पुं), रत्नगर्भ (पुं), उत्तराशाधिपति (पुं), सत्यसङ्गर (पुं), धनकेलि (पुं), सुप्रसन्न (पुं), परिविद्ध (पुं), वसुप्रभा (स्त्री), वसुसारा (स्त्री), नन्दिवर्धन (पुं), बहुरूप (पुं), सुप्रसाद (पुं), मिहिराण (पुं), अपराजित (पुं), कङ्कटीक (पुं), गुह्यगुरु (पुं), भगनेत्रान्तक (पुं), खरु (पुं), परिणाह (पुं), दशबाहु (पुं), सुभग (पुं), अनेकलोचन (पुं), गोपाल (पुं), वरवृद्ध (पुं), अहिपर्यङ्क (पुं), पांसुचन्दन (पुं), कूटकृत् (पुं), मन्दरमणि (पुं), नवशक्ति (पुं), महाम्बुक (पुं), कोणवादिन् (पुं), शैलधन्वन् (पुं), विशालाक्ष (पुं), क्षतस्वन (पुं), उन्मत्तवेष (पुं), शबर (पुं), शिताङ्ग (पुं), धर्मवाहन (पुं), महाकान्त (पुं), वह्निनेत्र (पुं), स्त्रीदेहार्द्ध (पुं), नृवेष्टन (पुं), महानाद (पुं), नराधार (पुं), भूरि (पुं), एकादशोत्तम (पुं), जोटिन् (पुं), जोटीङ्ग (पुं), अर्धकूट (पुं), समिर (पुं), धूम्र (पुं), योगिन् (पुं), उलन्द (पुं), यजत (पुं), काल (पुं), जटाधर (पुं), दशाव्यय (पुं), सन्ध्यानाटिन् (पुं), रेरिहाण (पुं), शङ्कु (पुं), कपिलाञ्जन (पुं), जगद्रोणि (पुं), अर्धकल (पुं), दिशांप्रियतम (पुं), अतल (पुं), जगत्स्रष्टा (पुं), कटाटङ्क (पुं), कटप्रू (पुं), हीरहृत् (पुं), कर (पुं)
अभिधानरत्नमाला
Sanskritआभीर
आभीर, महाशूद्र, गोपाल, वल्लव
आभीरः स्यान्महाशूद्रो गोपालो वल्लवस्तथा ।
verse 2.1.1.587
page 0066
Mahabharata
EnglishGopāla, pl. (ºāḥ) (“cowherds”) = Nārāyaṇa, pl.: VII, 752 (Nº), 3255 (Nº): VIII, 416 (Nārāyaṇabalaiḥ, followed Kṛtavarman).
Gopāla = Kṛshṇa: III, 15530.
अमरकोशः
SanskritWord: गोपालः
Root: गोपाल
Gender: पुं
Number: all
Meaning(s):
⇒ king
⇒ ziva
⇒ kRSNa
⇒ cowherd
⇒ earth-protector
Shloka(s):
2|9|57|2 ► गोपे गोपालगोसंख्यगोधुगाभीरवल्लवाः॥ (वैश्यवर्गः)
3|3|91|2 ► गोष्ठाध्यक्षेऽपि गोविन्दो हर्षेऽप्यामोदवन्मदः॥ (नानार्थवर्गः)
3|3|130|1 ► गोधुग्गोष्ठपती गोपौ हरविष्णू वृषाकपी। (नानार्थवर्गः)
Synonym(s):
➠ 2|9|57|2 ⇢ गोपः (गोप) (पुं) ⇒ king, kRSNa, herder, milkman, cowherd, guardian, herdsman, protector, chief herdsman, head of a district, superintendent of several villages
➠ 2|9|57|2 ⇢ गोपालः (गोपाल) (पुं)
➠ 2|9|57|2 ⇢ गोसङख्यः (गोसङ्ख्य) (पुं)
➠ 2|9|57|2 ⇢ गोधुक् (गोधुक्) (पुं)
➠ 2|9|57|2 ⇢ आभीरः (आभीर) (पुं)
➠ 2|9|57|2 ⇢ वल्लवः (वल्लव) (पुं)
➠ 3|3|91|2 ⇢ गोविन्दः (गोविन्द) (पुं) ⇒ kRSNa, bRhaspati, chief herdsman, one who gives pleasure to the senses
➠ 3|3|130|1 ⇢ गोपः (गोप) (पुं) ⇒ king, kRSNa, herder, milkman, cowherd, guardian, herdsman, protector, chief herdsman, head of a district, superintendent of several villages
Related word(s):
परा_अपरासंबन्धः ➡ गवां_स्वामिः
उपजीव्य_उपजीवक_भावः ➡ गौः
जातिः ➡ मनुष्यः
उपाधि ➡ वृत्तिः
पति_पत्नीसंबन्धः ➡ आभीरी
स्व_स्वामीसंबन्धः ➡ गोपग्रामः
शब्दकल्पद्रुमः
Sanskritगोपालः, (गाः पालयतीति । गा + पाल +“कर्म्मण्यण् ।” ३ । २ । १ । इत्यण् ।) गवांपालकः । वृन्दावनस्थगोपालानां स्वरूपं यथा, “गोपाला मुनयः सर्व्वे वैकुण्ठानन्दमूर्त्तयः ॥
”इति पद्मपुराणे पातालखण्डे व्यासं प्रति श्रीकृष्ण-वाक्यम् ॥
* ॥
(गां पृथिवीं पालयतीति । गो+ पाल + अण् ।) राजा । (गां पृथिवीं वेदंवा पालयतीति ।) नन्दनन्दनः कृष्णः । इतिमेदिनी । ले । ८६ ॥
* ॥
श्रीगोपालस्य ध्यानं यथा, “अव्याद्व्याकोषनीलाम्बुजरुचिररुणाम्भोज-नेत्रोऽम्बुजस्थोबालो जङ्घाकटीरस्थलकलितरणत्किङ्किणीकोमुकुन्दः ।दोर्भ्यां हैयङ्गवीनं दधदतिविमलं पायसं विश्व-वन्द्योगोगोपीगोपवीतो रुरुनखविलसत्कण्ठभूष-श्चिरं वः ॥
”इति तन्त्रसारः ॥
* ॥
तस्य स्वरूपं यथा, --श्रीव्यास उवाच ।“ततोऽहमब्रुवं हृष्टः पुलकोत्फुल्लविग्रहः ।त्वामहं द्रष्टुमिच्छामि चक्षुर्भ्यां मधुसूदन ! ॥
यत्तत् सत्यं परं ब्रह्म जगद्योनिर्जगत्पतिः ।वसन्तं वेद शिरसि चाक्षुषं नाथ ! मेऽस्तु तत् ॥
श्रीभगवानुवाच ।ब्रह्मणैवं पुरा पृष्टः प्रार्थितश्च यथा पुरा ।यदवोचमहं तस्मै तत्तुभ्यमपि कथ्यते ॥
मामेके प्रकृतिं प्राहुः पुरुषञ्च तथेश्वरम् ।धर्म्ममेके धनञ्चैके मोक्षमेकेऽकुतोभयम् ॥
शून्यमेके भावमेके परमार्थमथापरे ।दैवमेके देवमेके ग्रहमेके मनः परे ॥
बुद्धिमेके कालमेके शिवमेके सदाशिवम् ।अपरे वेदशिरसि स्थितमेकं सनातनम् ॥
सद्भावं विक्रियाहीनं सच्चिदानन्दविग्रहम् ।मन्मायामोहितधियः सर्व्वकालेषु वञ्चिताः ॥
कोऽपि वेद पुमान् लोके मदनुग्रहभाजनः ।पश्याद्य दर्शयिष्यामि स्वं रूपं वेदगोपितम् ॥
ततोऽपश्यमहं भूप ! बालं बालाम्बुदप्रभम् ।गोपकन्यावृतं गोपं हसन्तं गोपबालकैः ॥
कदम्बमूलमासीनं पीतवाससमद्भुतम् ।वनं वृन्दावनं नाम नवपल्लवमण्डितम् ॥
कोकिलभ्रमरारावमनोभवमनोहरम् ।नदीमपश्यं कालिन्दीमिन्दीवरदलप्रभाम् ॥
गोवर्द्धनं तथापश्यं कृष्णवामकरोद्धृतम् ।महेन्द्रदर्पनाशाय गोगोपालसुखावहम् ॥
दृष्ट्वा विहृष्टो ह्यभवं सर्व्वभूषणभूषणम् ।गोपालमबलासङ्गमुदितं वेणुनादितम् ॥
ततो मामाह भगवान् वृन्दावनवचः स्वयम् ।यदिदं मे त्वया दृष्टं रूपं दिव्यं सनातनम् ॥
निष्कलं निष्क्रमं शान्तं सच्चिदानन्दविग्रहम् ।पूर्णं पद्मपलाशाक्षं नातः पंरतरं मम ॥
इदमेव वदन्त्येते वेदाः कारणकारणम् ।सत्यं व्यापि परानन्दचिद्घनं शाश्वतं शिवम् ॥
नित्यां मे मथुरां विद्धि वनं वृन्दावनं तथा ।यमुनां गोपकन्याश्च तथा गोपालबालकान् ॥
ममावतारो नित्योऽयमत्र मा संशयं कृथाः ।ममेष्टा हि सदा राधा सर्व्वज्ञोऽहं परात्परः ॥
मयि सर्व्वमिदं विश्वं भाति मायाविजृम्भितम् ॥
”इति पद्मपुराणे पातालखण्डम् ॥
* ॥
द्बादशगोपालाश्चैतन्यशब्दे द्रष्टव्याः ॥
वाचस्पत्यम्
Sanskritगोपाल गां भूमिं पशुभेदं वा पालयति पालि--अण्उप० स० । १ नृपे २ गोरक्षके च । “क्षत्रियात् शूद्रकन्यायांसमुत्पन्नस्तु यः सुतः । स गोपाल इति ज्ञेयो भोज्योवि-प्रैर्न संशयः” पराशरोक्ते ३ सङ्कीर्णजातिभेदे । “आर्द्धिकःकुलमित्रश्च गोपालोदासनापितौ । एते शूद्रेषु भोज्यान्नायश्चात्मानं निवेदयेत्” मनुना तस्य भोज्यान्नतोक्ता ।नन्दनन्दने ४ विष्णीरवतारभेदे तद्रूपञ्च पद्मपु० पातालख० “त्वामहं द्रष्टुमिच्छामि चक्षुर्भ्यां मधुसूदन!” ।श्रीकृष्णं प्रति व्यासप्रार्थने भगवदुक्ति व्यासवाक्ये यथा“पश्याद्य दर्शयिष्यामि स्वरूपं वेदगोपितम् । ततोऽपश्यमहं भूप! बालं बालाम्बुद प्रभम् । गोपकन्यावृतगोपं हसन्तं गोपबालकैः । कदम्बमूलमासीनं पीतवासःसमुज्ज्वलम् । वनं वृन्दावनं नाम नवपल्लवमण्डितम् ।कोकिलभ्रमरारावमनोभवमनोहरम् । नदीमपश्यंकालिन्दीमिन्दीवरदलप्रभाम् । गोवर्द्धनं तथाऽपश्यंकृष्णवामकरोद्धृतम् । महेन्द्रदर्पनाशाय गोगोपालसुखा-वहम् । दृष्ट्वा विहृष्टो ह्यभवं सर्व्वभूषणभूषणम् ।गोपालमबलासङ्गमुदितं वेणुनादिनम्, ।तस्य ध्यानमन्त्रयन्त्रादिकं तन्त्रसारे दृश्यम् ।
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
