| YouTube Channel

गोचरः (gocaraH)

 
Apte Hindi
Hindi
गोचरः
पुं*
गो-चरः -
"पशुओं का क्षेत्र, चरागाह"
गोचरः
पुं*
गो-चरः -
"मंडल, विभाग, प्रांत, क्षेत्र"
गोचरः
पुं*
गो-चरः -
"इन्द्रियों का परास, इन्द्रियों का विषय"
गोचरः
पुं*
गो-चरः -
"क्षेत्र, परास, पहुँच"
गोचरः
पुं*
गो-चरः -
"पकड़, दबाव, शक्ति, प्रभाव, नियन्त्रण"
गोचरः
पुं*
गो-चरः -
क्षितिज
Wordnet
Sanskrit
Synonyms:
विषयः, इन्द्रियार्थः, गोचरः
noun
इन्द्रियग्राह्यः।
"नेत्रस्य विषयः रुपम् कर्णस्य विषयः शब्दम् अस्ति।"
Synonyms:
गोचरः
noun
पशुचरणस्थानम्।
"गावः गोचरे चरन्ति।"
Synonyms:
अन्तरीक्षम्, गोचरः
noun
पृथिव्याः ग्रहनश्रत्राणामन्तः स्थानम्।
"वैज्ञानिकाः अधुना अपि अन्तरीक्षस्य विषये संशोधनं कुर्वन्ति।"
Synonyms:
मण्डलम्, उपवर्तनम्, गोचरः
noun
कस्यापि प्रदेशस्य विभागस्य सः भागः यस्मिन् एकस्य एव मण्डलाध्यक्षस्य आधिपत्यम् अस्ति।
"एकस्मिन् राज्ये नैकानि मण्डलानि सन्ति।"
शब्दकल्पद्रुमः
Sanskrit
गोचरः,
पुं,
(गाव इन्द्रियाणि चरन्त्यस्मिन् ।गो + चर + “गोचरसञ्चरवहव्रजव्यजापणनिग-माश्च ।” ११९ इति निपातनात्साधुः ।) इन्द्रियार्थः तु रूपशब्दगन्धरस-स्पर्शस्वरूपः इत्यमरः
(यथाभाषापरिच्छेदे “घ्राणस्य गोचरो गन्धः
*
गावश्चरन्त्यस्मिन्निति गोचरणस्थानम् इतिसिद्धान्तकौमुदी यथा भारविः १० ।“उपारताः पश्चिमरात्रिगोचरा-दपारयन्तः पतितुञ्जवेन गाम्
”गोषु इन्द्रियेषु चरतीति गो + चर् + पचाद्यच् ।इन्द्रियप्रत्यक्षीभूतविषयः यथा, वेदान्तसारे ।“अखण्डं सच्चिदानन्दमवाङ्मनसगोचरम्
”देशः यथा, हेः रामायणे ८५ ।“अब्रवीत् प्राञ्जलिर्भूत्वा गुहो गहनगोचरः
”“गहनं वनं गोचरो देशो यस्य सः ।” इतितट्टीकाकृद्रामानुजः
) जन्मराश्यवधिग्रहा-क्रान्तराशीनां संज्ञा यथा, --“गोचरे वा विलग्ने वा ये ग्रहारिष्टसूचकाः ।पूजयेत्तान् प्रयत्नेन पूजिताः स्युः शुभावहाः
”अपि ।“अष्टवर्गशुभैः श्रीमान् कर्म्म कुर्य्यान्नभश्चरैः ।गोचरस्थैस्तदप्राप्तौ तदप्राप्तौ तु वेधगैः
”गोचरशुद्धिर्यथा, --“केतूपप्लवभौममन्दगतयः षष्ठत्रिसंस्थाः शुभा-श्चन्द्रार्कावपि ते तौ दशमौ चन्द्रः पुनः सप्तमः ।जीवः सप्तनवद्विपञ्चमगतो युग्मेषु सोमात्मजःशुक्रः षड्दशसप्तवर्जमितरे सर्व्वेऽप्युपान्ते शुभाः
”इति दीपिका
(अथ ग्रहाणां गोचरगतफलम् यथा, --बुधस्य गोचरफलम् ।“स्थानं जन्मनि नाशयेद्दिनकरः कुर्य्याद्दितीयेभयम् ।दुश्चिक्ये श्रियमातनोति हिवुके मानक्षयंयच्छति
दैन्यं पञ्चमगः करोति रिपुहा षष्ठेऽर्थहा सप्तमे ।पीडामष्टमगः करोति नितरां कान्तिक्षयंधर्म्मगः
कर्म्मवृद्धिजनकस्तु कर्म्मगोवित्तवृद्धिकृदथायसंस्थितः ।द्रव्यनाशजनितां महापदंयच्छति व्ययगतो दिवाकरः
”चन्द्रस्य गोचरफलम् ।“जन्मन्यर्थं दिशति हिमगुर्व्वित्तनाशं द्वितीयेदद्द्याद्द्रव्यं सहजभवने नेत्ररोगं चतुर्थे ।कार्य्यभ्रंशं तनयगृहगो वित्तलाभञ्च षष्ठेद्यूने द्रव्यं युवतिसहितं मृत्युसंस्थोऽथ मृत्युम्
नृपभयं कुरुते नवमः शशीदशमधामगतस्तु महत् सुखम् ।विविधमायगतः कुरुते धनंव्ययगतस्तु रुजं सधनक्षयम्
”मङ्गलस्य गोचरफलम् ।“प्रथमगृहगः क्षौणीसूनुः करोत्यरिजं भयंक्षपयति धनं वित्तस्थाने तृतीयगतोऽर्थदः ।अरिभयकरः पातालेऽसून् क्षिणोति पञ्चमःरिपुगृहगतो धत्ते वित्तं शुचं मदनस्थितः
जनयति मरणस्थः शत्रुवाधां धराजोदिशति नवमस्थो कार्य्यपीडामतीव ।शुभमपि दशमस्थो लाभगो भूरिलाभंअयभवनगतोऽसौ व्याध्यनर्थार्थनाशान्
”बधस्य गोचरफलम् ।“बुधः प्रथमधामगो दिशति बन्धमर्थे धनंवधं रिपुभयान्वितं सहजगश्चतुर्थेऽर्थदः ।अनिवृं तिकरो भवेत्तनयगोऽरिगः स्थानदःकराति मद्नस्थितो बहुविधां शरीरापदम्
अष्टमे शशिसुते धनलब्धि-र्धर्म्मगोऽतिमहतीं तनुपीडाम् ।कर्म्मगः शुभमथायगतोऽर्थंद्वादशे भवति वित्तविनाशः
”गुरोर्गोचरफलम् ।“भयं जन्मन्यार्य्यो जनयति धनस्थोऽर्थमतुलंतृतीयेऽङ्गक्लेशं दिशति चतुर्थेऽर्थविलयम् ।शुभं पुत्त्रस्थानेऽशुभमपि कुर्य्यादरिगृहेगुरुर्द्यूने पूजां धननिचयनाशञ्च निधने
धर्म्मगतो धनवृद्धिकरः स्यात्प्रीतिहरो दशमेऽमरपूज्यः ।स्थानधनानि ददाति चायेद्वादशगस्तनुमानसपीडाम्
”शुक्रस्य गोचरफलम् ।“जन्मन्यतिक्षयकरो भृगुजोऽर्थदोऽर्थेदुश्चिक्यगः शुभकरो धनदश्चतुर्थे ।स्यात् पुत्त्रदस्तनयगोऽरिगतोऽरिवृद्धिंशोकप्रदो मदनगो निधनेऽर्थदाता
जनयति विविधाम्बराणि धर्म्मेन शुभकरो दशमस्थितस्तु शुक्रः ।धननिचयकरस्तु लाभसंस्थोव्यंयभवनेऽपि धनागमं करोति
”शनेर्गोचरफलम् ।“वित्तभ्रंशं सदाहं दिनकरतनयो जन्मराशिं प्रपन्न-श्चित्तक्लेशं द्बितीये रिपुहननकृतं वित्तलाभंतृतीये ।पाताले शत्रुवृद्धिं सुतभवनगतः पुत्त्रभृत्यादि-नाशंषष्ठस्थानेऽर्थलाभं जनयति मदने दोषसङ्घा-तमार्किः
शरीरपीडां निधनेऽथ धर्म्मेधनक्षयं कर्म्मणि दौर्म्मनस्यम् ।उपान्त्यगो वित्तमनर्थमन्तेशनिर्ददातीत्यवदत् सुवृत्तः
”राहोर्गोचरफलम् ।“जन्मान्त्या ञ्चवसुरन्ध्रनवद्बिसप्त-राशौ स्थिते यदि भवेदसुरः कदापि ।अर्थक्षयं रिपुभयं बहुकार्य्यहानिंरोगप्रवासमरणाग्निभय करोति
”केतोर्गोचरफलम् ।“एकादशत्रिदशषष्ठगते नराणांसम्मानभोगनृपमानसुखार्थदाता ।आज्ञाकराश्च पुरुषाः प्रमदाश्च नित्यंसौख्योदयं दिशति पुण्यचयञ्च केतुः
”अन्यत्सर्व्वं ग्रहशब्दे द्रष्टव्यम्
)