| YouTube Channel

गृहधूप (gRhadhUpa)

 
वाचस्पत्यम्
Sanskrit
गृहधूप
पु०
गृहस्य धूप इव धूपभेदे “मयूरपिच्छं निम्बस्यपत्राणि वृहतीफलम् मरिचं हिङ्गु मांसीञ्च वीजंकार्पाससम्भवम् छागरोमाहिनिर्मोकौ विष्ठा वैडालिकीतथा गजदन्तश्च तच्चूर्णं किञ्चिद्घृतविमिश्रितम् ।गृहेषु धूपनं दत्तं सर्वान् वालग्रहान् जयेत् ।पिशाचान् राक्षसान् हत्वा सर्वज्वरहरं भवेत्”शब्दार्थचि० गेहधूपोऽप्यत्र