| YouTube Channel

गृहः (gRhaH)

 
Wordnet
Sanskrit
Synonyms:
पत्नी, जाया, भार्या, गृहिणी, वधूः, जनी, सहधर्मिणी, सहचरी, दाराः, कलत्रम्, पाणिगृहीती, सधर्मिणी, धर्माचारिणी, गृहः, क्षेत्रम्, परिग्रहः, ऊढा
noun
सा परिणीता या पत्या उद्वाहविहीतमन्त्रादिना वेदविधानेनोढा।
"पत्न्याः गुणेनैव पुरुषाः सुखिनो भवन्ति।"
Synonyms:
गृहम्, गेहम्, उद्वसितम्, वेश्म, सद्म, निकेतनम्, निशान्तम्, नत्स्यम्, सदनम्, भवनम्, अगारम्, सन्दिरम्, गृहः, निकायः, निलयः, आलयः, वासः, कुटः, शाला, सभा, पस्त्यम्, सादनम्, आगारम्, कुटिः, कुटी, गेबः, निकेतः, साला, मन्दिरा, ओकः, निवासः, संवासः, आवासः, अधिवासः, निवसति, वसति, केतनम्, गयः, कृदरः, गर्तः, हर्म्यम्, अस्तम्, दुरोणे, नीलम्, दुर्याः, स्वसराणि, अमा, दमे, कृत्तिः, योनिः, शरणम्, वरूथम्, छर्दिछदि, छाया, शर्म, अजम्
noun
मनुष्यैः इष्टिकादिभिः विनिर्मितं वासस्थानम्।
"गृहिण्या एव गृहं शोभते।"
कृदन्तरूपमाला
Sanskrit
1 {@“गृह ग्रहणे”@} 2 “ण्यन्तस्य ग्रहणे गृहेर्गृहयते, तत्रानदन्ताद् गृहेः भूवादेः शपि गर्हते, श्नि तु पदे गृह्णात्यगृह्णीत च।
गर्हेर्वा णिचि निन्दनार्थविषये गर्हेत् तथा गर्हयेद् भूवादेः शपि कुत्सनार्थविषये गर्हेर्भवेद् गर्हते।।” 3 इति देवः।
4 5 गृहकः-हिका, 6 जिगृहयिषकः-षिका
गृहयिता-त्री, जिगृहयिषिता-त्री
7 गृहयमाणः, जिगृहयिषमाणः
गृहयिष्यमाणः, जिगृहयिषिष्यमाणः
8 प्रघृट्-प्रघृड्-प्रगृहौ-प्रगृहः
-- गृहितम्-तः- 9 तवान्, जिगृहयिषितः-तवान्
गृहः, 10 गृहयालुः, 11 जिगृहयिषुः
गृहयितव्यम्, जिगृहयिषितव्यम्
गृहणीयम्, जिगृहयिषणीयम्
गृहयम्, जिगृहयिष्यम्
ईषद्गृहः-दुर्गृहः-सुगृहः
-- गृहयमाणः, जिगृहयिष्यमाणः
गृहः, जिगृहयिषः
गृहयितुम्, जिगृहयिषितुम्
12 गृहणा, जिगृहयिषा
गृहणम्, जिगृहयिषणम्
गृहयित्वा, जिगृहयिषित्वा
13 प्रगृहय्य, प्रजिगृहयिष्य
14 गृहम् २, गृहयित्वा २, जिगृहयिषम्
जिगृहयिषित्वा २।
प्रासङ्गिक्यः
01
=>
(४२५)
02
=>
(१०-चुरादिः-१८९९। सक। सेट्। अदन्तः, आगर्वीयः)
03
=>
(श्लो। १९४)
04
=>
[पृष्ठम्०४१६+ २६]
05
=>
[[१। अस्य धातोरदन्तत्वादल्लोपस्य स्थानिवद्भावेन लघूपधगुणो न। एवं सर्वत्र।]]
06
=>
[[२। ण्यन्तात् सनि णेरयादेशे, ‘सन्यतः’ (७-४-७९) इतीत्त्वे ‘जिगृहयिषकः’ इति रूपम्।]]
07
=>
[[३। ‘आ गर्वादात्मनेपदिनः’ (गणसूत्रं चुरादौ) इति ण्यन्तादात्मनेपदमेव।]]
08
=>
[[४। ‘हो ढः’ (८-२-३१) इति ढत्वे पदान्तत्वनिमित्तकः भष्भावः। स्थानिवत्त्वं तु ‘पूर्वत्रासिद्धे न--’ (वा। १-१-५७) इति निषेधान्न।]]
09
=>
[[आ। ‘तच्चाकर्ण्य सरोषमुत्पदयते स्मोत्तुङ्गगञ्चं हरिः प्रोत्तिष्ठन् असिचर्मणी गृहितवान् कंसोऽपि मृग्योऽसताम्।’ धा। का। ३-५८।]]
10
=>
[[५। ‘स्पृहिगृहिपतिदयि--’ (३-२-१५८) इति ताच्छीलिक आलुच्। ‘अयामन्ताल्वा- य्येत्न्विष्णुषु च’ (६-४-५५) इति णेरयादेशः।]]
11
=>
[[B। ‘दीनधीः तपसा हिमशैले दृक्पथं पुरहराद् गृहयालोः। आददे वरमथो विजयौ द्वावन्तरेण युधि पाण्डवरोधम्।।’ चम्पूभारते ५-७९।]]
12
=>
[[६। ‘ण्यासश्रन्थो युच्’ (३-३-१०७) इति युच् स्त्रियाम्।]]
13
=>
[[७। ‘ल्यपि लघुपूर्वात्’ (६-४-५६) इति णेरयादेशः।]]
14
=>
[पृष्ठम्०४१७+ २१]