| YouTube Channel

गृञ्जनं (gRJjanaM)

 
शब्दकल्पद्रुमः
Sanskrit
गृञ्जनं,
क्ली,
(गृञ्ज्यते अभक्ष्यत्वेन कथ्यते प्राण-नाशकत्वादिति गृजि ध्वनौ + कर्म्मणि ल्युट् ।)विषदिग्धपशोर्म्मांसम् इति मेदिनी ने ५८
(गृञ्ज्यते रोगनाशकतया भक्ष्यत्वेन कथ्यतेइति ।) मूलविशेषः सलगम इति ख्यातः ।तत्पर्य्यायः शिखिमूलम् यवनेष्टम् वर्त्तु-लम् ग्रन्थिमूलम् शिखाकन्दम् कन्दम् ७डिण्डीरमोदकम् अस्य गुणाः कटुत्वम् ।उष्णत्वम् कफवातरोगगुल्मनाशित्वम् रुच्य-त्वम् दीपनत्वम् हृद्यत्वम् दुर्गन्धत्वञ्च ।इति राजनिर्घण्टः