| YouTube Channel

गृज (gRja)

 
शब्दसागरः
English
गृज r. 1st cl. (गर्जति) also (इ, ) गृजि (गृञ्जति) To sound, to roar, to grum-
ble, &c. also गर्ज.
Wilson
English
गृज r. 1st cl. (गर्जति) also (इ, ) गृजि (गृञ्जति) To
sound, to roar, to grumble, &c. also गर्ज.
Shabdartha Kaustubha
Kannada
गृज - शब्दे (भ्वा० पर० अक० से०) गर्जति
पदविभागः - > धातुः
कन्नडार्थः - > ಶಬ್ದ ಮಾಡು /ಗರ್ಜನೆ ಮಾಡು
धातुपाठः (Krishnacharya)
Sanskrit
धातुः:
गृज्
मूलधातुः:
गृज
धात्वर्थः:
शब्दे
गणः:
भ्वादिः
कर्मकत्वं:
अकर्मकः
इट्त्वं:
सेट्
उपग्रहः:
परस्मैपदी
रूपम्:
गर्जति
शब्दकल्पद्रुमः
Sanskrit
गृज, ध्वनौ इति कविकल्पद्रुमः
(भ्वां-परं-अकं-सेट् ।) सप्तमस्वरी गर्ज्जति इति दुर्गादासः
(यथा, पूर्व्वचातकाष्टके ।“गर्ज्जसि मेघ ! यच्छसि तोयंचातकपक्षी व्याकुलितोऽहम् ।दैवादिह यदि दक्षिणवातःक्व त्वं क्वाहं क्व जलपातः
”)
गृज, ध्वनौ इति कविकल्पद्रुमः
(भ्वां-परं-अकं-सेट् ।) सप्तमस्वरी इ, गृञ्ज्यते इतिदुर्गादासः
(ध्वनिरिह कथनमिति मत्वाकेचित् सकर्म्मकमपि वदन्ति
)
वाचस्पत्यम्
Sanskrit
गृज ध्वनौ
भ्वा०
पर०
अक० सेट् गर्जति अगर्जीत्जगर्ज “गर्ज गर्जक्षणं मूढ!” देवीमा० “गर्जन् हरिःसाम्भसि शैलकुञ्जे” भट्टिः भावे गृज्यते अगर्जि
गृज ध्वनौ
भ्वा०
पर०
अक० सेट् इदित् गृञ्जति अगृञ्जीत् ।जभृञ्ज गृञ्जनम् भावे गृञ्ज्यते अगृञ्जि
कृदन्तरूपमाला
Sanskrit
1 {@“गृज शब्दार्थः”@} 2 ‘गर्जेद् गृञ्जेद् गजेद् गञ्जेच्छब्दने गाजयेण्णिचि।।’ 3 इति देवः।
4 5 गर्जकः-र्जिका, गर्जकः-र्जिका, जिगर्जिषकः-षिका, 6 जरीगृजकः-जिका
गर्जिता-त्री, गर्जयिता-त्री, जिगर्जिषिता-त्री, जरीगृजिता-त्री
7 गर्जन्-न्ती, गर्जयन्-न्ती, जिगर्जिषन्-न्ती
-- गर्जिष्यन्-न्ती-ती, गर्जयिष्यन्-न्ती-ती, जिगर्जिषिष्यन्-न्ती-ती
-- गर्जयमानः, गर्जयिष्यमाणः, जरीगृज्यमानः, जरीगृजिष्यमाणः
8 सुगृक्-सुगृग्-सुगृजौ-सुगृजः
-- -- गृजितम्-तः, गर्जितः, जिगर्जिषितः, जरीगृजितः-तवान्
गृजः, सुगर्जी, 9 गर्जनः, गर्जः, जिगर्जिषुः, जरीगृजः
गर्जितव्यम्, गर्जयितव्यम्, जिगर्जिषितव्यम्, जरीगृजितव्यम्
गर्जनीयम्, गर्जनीयम्, जिगर्जिषणीयम्, जरीगृजनीयम्
10 गृज्यम्, गर्ज्यम्, जिगर्जिष्यम्, जरीगृज्यम्
ईषद्गर्जः-दुर्गर्जः-सुगर्जः
-- -- गृज्यमानः, गर्ज्यमानः, जिगर्जिष्यमाणः, जरीगृज्यमानः
11 गर्जः, गर्जः, जिगर्जिषः, जरीगृजः
गर्जितुम्, गर्जयितुम्, जिगर्जिषितुम्, जरीगृजितुम्
गृक्तिः, गर्जना, जिगर्जिषा, जरीगृजा
गर्जनम्, गर्जनम्, जिगर्जिषणम्, जरीगृजनम्
12 गर्जित्वा, गर्जयित्वा, जिगर्जिषित्वा, जरीगृजित्वा
13 प्रगृज्य, सङ्गर्ज्य, अनुजिगर्जिष्य, प्रजरीगृज्य
14 गर्जम् २, गर्जित्वा २, गर्जम् २, गर्जयित्वा २, जिगर्जिषम् २, जिगर्जिषित्वा २, जरीगृजम्
जरीगृजित्वा २।
प्रासङ्गिक्यः
01
=>
(४२२)
02
=>
(१-भ्वादिः-२४८। सक। सेट्। पर।)
03
=>
(श्लो। ५९)
04
=>
[पृष्ठम्०४१२+ २४]
05
=>
[[१। ‘पुगन्तलघूपधस्य च’ (७-३-८६) इति गुणः।]]
06
=>
[[२। ‘रीगृदुपधस्य च’ (७-४-९०) इति यङि अभ्यासस्य रीगागमः।]]
07
=>
[[आ। ‘जहर्ष जञ्जातुजितस्थलैरसौ वृषैरतुञ्जैर्गजगञ्जिभिर्वृतम्। गर्जत्खरं गृञ्जितधेनुमोमुजद्वत्सोत्करं मुञ्जदजं वजन् व्रजम्।।’ धा। का। १-३३।]]
08
=>
[[३। ‘चोः कुः’ (८-२-३०) इति कुत्वे चर्त्वविकल्पः।]]
09
=>
[[४। ‘चलनशब्दार्थादकर्मकात्--’ (३-२-१४८) इति ताच्छीलिको युच्।]]
10
=>
[[५। ‘ऋदुपधाच्चावलृपिचृतेः’ (३-१-११०) इति क्यप्।]]
11
=>
[[६। ‘चजोः--’ (७-३-५२) इति कुत्वं न, निष्ठायां सेट्त्वात्।]]
12
=>
[[७। ‘न क्त्वा सेटू’ (१-२-१८) इति कित्त्वनिषेधाद् गुणः।]]
13
=>
[[८। ‘अन्तरङ्गानपि विधीन् बहिरङ्गो ल्यब् बाधते’ (परिभाषा। ५४) इति वचनात् पूर्व- मिडागमो प्रवर्तते। तेन सेट्त्वाभावात् ‘न क्त्वा सेट्’ (१-२-१८) इति प्रवर्तते।]]
14
=>
[पृष्ठम्०४१३+ २६]