गुरुः (guruH)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
Hindi
Hindiशिक्षक, उत्पीड़नमय
Apte Hindi
Hindiगुरुः
- -
पिता
गुरुः
- -
"कोई भी श्रद्धेय या आदरणीय पुरुष, वृद्ध पुरुष या संबंधी, बुजुर्ग"
गुरुः
- -
"अध्यापक, शिक्षक"
गुरुः
- -
"विशेषतया धार्मिक गुरु, आध्यात्मिक गुरु"
गुरुः
- -
"स्वामी, प्रधान, अधीक्षक, शासक"
गुरुः
- -
"बृहस्पति, देवगुरु"
गुरुः
- -
बृहस्पति नक्षत्र
गुरुः
- -
नय सिद्धान्त का व्याख्याता
गुरुः
- -
पुरुष नक्षत्र
गुरुः
- -
कौरव और पांडवों के गुरु
गुरुः
- -
मीमांसकों के एक सम्प्रदाय का नेता प्रभाकर
गुरुः
- -
"पिता, प्रपिता, पितामह, पूर्वज"
गुरुः
- -
सम्माननीय महापुरुष
गुरुः
- -
"शिक्षक, अध्यापक"
गुरुः
- -
स्वामी
गुरुः
- -
बृहस्पति
Wordnet
Sanskrit गुरुः, तीर्थम्
धर्मग्रन्थानुसारेण येन तत्त्वं साक्षात्कृतम् तादृशः पुरुषः यः आध्यात्मिकं ज्ञानं ददाति तथा च यः साधनां कर्तुं पथदर्शकः अस्ति।
"गुरोः अभिज्ञानं कथं भवेत् इति जनानां मनसि सर्वदा एव प्रश्नः भवति।"
गुरुः
यः कलासु गुणेषु च केनापि वरतरः अस्ति।
"सङ्गणकस्य प्रख्यापनस्य सम्बन्धे सः तव गुरुः एव।"
गुरुः, ज्येष्ठः, श्रेष्ठः, वरिष्ठः
यः कलासु गुणेषु वा केनापि वरतरः अस्ति।
"सङ्गणकस्य प्रख्यापने आशीषः तव गुरुः एव।"
अध्यापकः, गुरुः, आचार्यः, शिक्षकः, अवबोधकः
यः विद्यालयात् अन्यत्रापि शुल्कं स्वीकृत्य पाठयति।
"राहुलस्य अध्यापकः प्रतिदिनं पञ्चवादने तं पाठयितुम् आगच्छति।"
गुरुः
यः विद्यां कलां वा पाठयति।
"गुरुणा विना ज्ञानस्य प्राप्तिः न भवति।"
पतिः, भर्ता, स्वामी, आर्यपुत्रः, कान्तः, प्राणनाथः, रमणः, वरः, गृही, गुरुः, हृदयेशः, जामाता, सुखोत्सवः, नर्मकीलः, रतगुरुः, धवः, परिणेता, ईश्वरः, ईशिता, अधिपतिः, नेता, परिवृढः
स्त्रियः पाणिग्रहीता।
"अलकायाः पतिः अधिकारभ्रंशात् स्वकुटुम्बस्य पालनं कर्तुम् असमर्थत्वेन अतीव दुःखी अभवत्।"
अध्यापकः, शिक्षकः, आचार्यः, गुरुः
यः छात्रान् पाठयति।
"अध्यापकैः सह छात्राणां सम्बन्धः सम्यक् अपेक्षते।"
बृहस्पतिः, गुरुः, ग्रहराजः
खगोलीयपिण्डः यः सौरमालायाः पञ्चमः ग्रहः यः पृथिव्याः दूरे अस्ति।
"बृहस्पतिः सौरमालायाः महत्तमः ग्रहः अस्ति।"
Help us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
शब्दकल्पद्रुमः
Sanskritगुरुः, (गृणाति उपदिशति वेदादिशास्त्राणिइन्द्रादिदेवेभ्यः इति । यद्वा गीर्य्यते स्तूयते देव-गन्धर्व्वमनुष्यादिभिः । गॄ + “कृग्रोरुच्च ।” उणां ।१ । २४ । इति उत् ।) बृहस्पतिः । (यथा, देवीभागवते । १ । ११ । ४४ ।“इत्याश्वास्य गुरुं शक्रो दूतं वक्तुं विचक्षणः ॥
”)निषेकादिकृत् । इत्यमरः । ३ । ३ । १६१ ॥
(यथा, मनुः । २ । १४२ ।“निषेकादीनि कर्म्माणि यः करोति यथाविधि ।सम्भावयति चान्नेन स विप्रो गुरुरुच्यते ॥
”)निषेको गर्भाधानं आदिना सीमन्तोन्नयनादे-र्मन्त्रविद्यादानादेश्चग्रहणम् । तत्कर्त्तापित्रादि-र्गुरुः स्यात् । इति भरतः ॥
मन्त्रदाता । तस्यवर्ज्जनीयत्वं यथा, कालिकापुराणे ५४ अध्याये ।“अभिशप्तमपुत्त्रञ्च सन्नद्धं कितवन्तथा ।क्रियाहीनमकल्पाङ्गं वामनं गुरुनिन्दकम् ॥
सदा मत्सरसंयुक्तं गुरुं मन्त्रेषु वर्ज्जयेत् ।गुरुर्म्मन्त्रस्य मूलं स्यान्मूलशुद्धौ सदा शुभम् ॥
”अपि च । क्रियासारसमुच्चये ।“श्वित्री चैव गलत्कुष्ठी नेत्ररोगी च वामनः ।कुनखी श्यावदन्तश्च स्त्रीजितश्चाधिकाङ्गकः ॥
हीनाङ्गः कपटी रोगी बह्वाशी बहुजल्पकः ।एतैर्दोषैर्व्विहीनो यः स गुरुः शिष्य सम्मतः ॥
”इति तन्त्रसारः ॥
* ॥
गुरुवर्गो यथा, --“उपाध्यायः पिता ज्येष्ठभ्राता चैव महीपतिः ।मातुलः श्वशुरस्त्राता मातामहपितामहौ ॥
बन्धुर्ज्येष्ठः पितृव्यश्च पुंस्येते गुरवः स्मृताः ।मातामही मातुलानी तथा मातुश्च सोदराः ॥
श्वश्रूः पितामही ज्येष्ठा धात्री च गुरवः स्त्रीषु ।इत्युक्तो गुरुवर्गोऽयं मातृतः पितृतो द्बिजाः ॥
अनुवर्त्तनमेतेषां मनोवाक्कायकर्म्मभिः ।गुरुं दृष्ट्वा समुत्तिष्ठेदभिवाद्य कृताञ्जलिः ॥
नैतैरुर्पविशेत् सार्द्धं विवदेन्नात्मकारणात् ।जीवितार्थमपि द्वेषाद्गुरुभिन्नव भाषणम् ॥
उदितोऽपि गुणैरन्यैर्गुरुद्वेषी पतत्यधः ।गुरूणाञ्चैव सर्व्वेषां पूज्याः पञ्च विशेषतः ॥
तेयामाद्यास्त्रयः श्रेष्ठास्तेषां माता सुपूजिता ।यो भापयति या सृते येन विद्योपदिश्यते ॥
ज्येष्टभ्राता च भर्त्ता च पञ्चैते गुरवः स्मृताः ।आत्मनः सर्व्वयत्नेन प्राणत्यागेन वा पुनः ॥
पूजनीया विशेषेण पक्षैते भूतिमिच्छता ।यावत् पिता च माता च द्वावेतौ निर्व्विकारिणौ ॥
तावत सर्व्वं परित्यज्य पुत्त्रः स्यात्तत्परायणः ।पिता माता च संप्रीतौ स्यातां पुत्त्रगुणैर्यदि ॥
स पुत्त्रः सकलं धर्म्मं प्राप्नुयात्तेन कर्म्मणा ।नास्ति पितृसमो देवो नास्ति मातृसमो गुरुः ॥
तयोः प्रत्युपकारोऽपि न कथञ्चन विद्यते ।तयोर्न्नित्यं प्रियं कुर्य्यात् कर्म्मणा मनसा गिरा ॥
न ताभ्यामननुज्ञातो धर्म्ममन्यं समाश्रयेत् ।वर्ज्जयित्वा मुक्तिफलं नित्यं नैमित्तिकं तथा ॥
धर्म्मसारः समुद्दिष्टः प्रेत्यानन्दफलप्रदः ।सम्यगाराध्य वक्तारं विसृष्टस्तदनुज्ञया ।शिष्यो विद्याफलं भुङ्क्ते प्रेत्य चाप्याप्स्यते दिवि ॥
यो भ्रातरं पितृसमं ज्येष्ठं मूढोऽवमन्यते ।तेन दोषेण स प्रेत्य निरयं घोरमृच्छति ॥
पुंसा वर्त्मनिविष्टेन पूज्यो भक्त्या तु सर्व्वदा ।अपि मातरि लोकेऽस्मिन्नुपकाराद्धि गौरवम् ॥
ये नरा भर्त्तृपिण्डार्थं स्वान् प्राणान् संत्यजन्ति हि ।तेषामथाक्षयाँल्लोकान् प्रोवाच भगवान् मनुः ॥
मातुलांश्च पितृव्यांश्च श्वशुरानृत्विजो गुरून् ।असावहमिति व्रूयुः प्रत्युत्थाय यवीयसः ॥
”इति कूर्म्मपुराणे उपविभागे ११ अध्यायः ॥
* ॥
तस्य परीक्षा यथा ।“सदाचारः कुशलधीः सर्व्वशास्त्रार्थपारगः ।नित्यनैमित्तिकानाञ्च कार्य्याणां कारकः शुचिः ॥
अपर्व्वमैथुनपरः पितृदेवार्च्चने रतः ।गुरुभक्तो जितक्रोधो विप्राणां हितकृत् सदा ॥
दयावान् शीलसम्पन्नः सत्कुलीनो महामतिः ।परदारेषु विमुखो दृढसङ्कल्पको द्विजः ॥
अन्यैश्च वैदिकगुणैर्युक्तः कार्य्यो गुरुर्नृपैः ।एतैरेव गुणैर्युक्तः पुरोधाः स्यान्महीभुजाम् ॥
”इति युक्तिकल्पतरुः ॥
* ॥
शिष्यकृतपापं गुरुं स्पृशति यथा ।“मन्त्रिपापञ्च राजानं पतिं जायाकृतं तथा ।तथा शिष्यकृतं पापं प्रायो गुरुमपि स्पृशेत् ॥
प्राय इति गुरुणा शिष्यः सम्यग्बोधितोऽपितद्वाक्यमनादृत्य पापञ्चेदाचरति तदा तत् पापंगुरौ न व्याप्नोतीत्यर्थः ॥
वर्णाश्रमाणां सर्व्वेषामाचारः सद्गतिप्रदः ।गुरुस्त्रिवारमाचारं बोधयेत् कुलनायिके ! ॥
न गृह्णाति हि शिष्यश्चेत्तदा पापं गुरोर्न हि ।इति कुलार्णववचनात् । इति शिवार्च्चनचन्द्रिका ॥
मन्त्रदगुरोर्लक्षणं यथा ।“गकारः सिद्धिदः प्रोक्तो रेफः पापस्य हारकः ।उकारो विष्णुरव्यक्तस्त्रितयात्मा गुरुः परः ॥
शान्तो दान्तः कुलीनश्च विनीतः शुद्धवेशवान् ।शुद्धाचारः सुप्रतिष्ठः शुचिर्दक्षः सुबुद्धिमान् ॥
आश्रमी ध्याननिष्ठश्च मन्त्रतन्त्रविशारदः ।निग्रहानुग्रहे शक्तो गुरुरित्यभिधीयते ॥
उद्धर्त्तुं चैव संहर्त्तुं समर्थो ब्राह्मणोत्तमः ।तषस्वी सत्यवादी च गृहस्थो गुरुरुच्यते ॥
” * ॥
देशभेदेन तस्य विशेषो यथा ।“मध्यदेशकुरुक्षेत्रनाटकोङ्कणसम्भवाः ।द्र्यन्तर्व्वेदिप्रतिष्ठाना आवन्त्याश्च गुरूत्तमाः ॥
गौडाः शाल्लोद्भवाः सौरा मगधाः केरलास्तथा ।कोशलाश्च दशार्णाश्च गुरषः सप्त मध्यमाः ॥
कर्णाटनर्म्मदारेवाकच्छातीरोद्भवास्तथा ।कालिङ्गाश्च कलम्बाश्च काम्बोजाश्चाधमा मताः ॥
वैष्णवे वैष्णवो ग्राह्यः शैवे शैवश्च शाक्तिके ।शैवः शाक्तोऽपि सर्व्वत्र दीक्षास्वामी न संशयः ॥
”इति तन्त्रसारः ॥
* ॥
“गुरुरग्निर्द्विजातीनां वर्णानां ब्राह्मणो गुरुः ।पतिरेको गुरुः स्त्रीणां सर्व्वत्राभ्यागतो गुरुः ॥
”इति चाणक्यम् ॥
कपिकच्छः । इति राजनिर्घण्टः ॥
द्विमात्रः ।दीर्घः । इति शब्दरत्नवली ॥
(गृणाति उपदि-शति वेदान् । गॄ + “कृग्रोरुच्च ।” उणां । १ । २४ ।इति उत् । वेदाध्यापयिताचार्य्यः । यथा, मनुः । ३ । १ ।“षट्त्रिंशदाब्दिकं चर्य्यं गुरौ त्रैवेदिकं व्रतम् ।तदर्द्धिकं पादिकं वा ग्रहणान्तिकमेव वा ॥
”गृणाति उपदिशति किञ्चिदपि यः । उपाध्याय-इत्यर्थः । यथा, मनुः । २ । १४९ ।“अल्पं वा बहु वा यस्य श्रुतस्योपकरोति यः ।तमपीह गुरुं विद्याच्छ्रुतोपक्रियया तया ॥
”गीर्य्यते स्तूयतेऽसौ ज्ञानतपोवृद्धत्वात् । ज्ञान-प्रभावान्वितत्वात् तपोबलप्राधान्याद् वा पूज्य-तमोमहात्मा । यथा, मनुः । २ । १३० ।“मातुलांश्च पितृव्यांश्च श्वशुरानृत्विजो गुरून् ।”“भूयिष्ठाः खलु गुरव इत्युपक्रम्य ज्ञानवृद्धतपो-वृद्धयोरपि हारीतेन गुरुत्वकीर्त्तनात् तयोश्चकनिष्ठयोरपि सम्भवात् तद्विषयोऽयं गुरुशब्दः ।”इति टीकाकृत् कुल्लूकभट्टः । गृणाति उपनीय-सन्ध्योपासनाचारादीनि कर्म्माणि उपदिशति ।उपनेता सन्ध्योपासनाद्युपदेष्टा च । यथा, मनुः । २ । ६९ ।“उपनीय गुरुःशिष्यं शिक्षयेच्छौचमादितः ।आचारमग्निकार्य्यञ्च सन्ध्योपासनमेव च ॥
”पिता । यथा, रामायणे । २ । ७९ । २ ।“गतो दशरथः स्वर्गं यो नो गुरुतरोगुरुः ।”राजचक्रवर्त्ती सम्राट् । यथा, रघुः २ । ६८ ।“गुरुर्नृपाणां गुरवे निवेद्य ।”गिरति अज्ञानमन्तर्यामिरूपेणाविद्यां नाश-यतीत्यर्थः । गीर्य्यते स्तूयते जीवनिकरैरिति वा ।गृगॄ वा उत् । विष्णुः । यथा, महाभारते ।१३ । १४९ । ६५ ।“आदिदेवो महादेवो देवेशो देवभृद्गुरुः ॥
”शिवः । तत्रैव । १७ । १३० ।“सहस्रमूर्द्धा देवेन्द्रः सर्व्वदेवमयो गुरुः ।”ब्रह्मा । माननीयः । एकेनैव श्लोकेनेतयोरुदा-हरणं यथा, काशीखण्डे । ६६ । ७१ ।“विभ्रत् सहजकाठिन्यं जातो गौरीगुरुर्गुरुः ।शम्भुं प्रपूज्य सुतया स्रजा विश्वगुरोरपि ॥
”विश्वगुरोर्ब्रह्मणोऽपिगुरुर्माननीयः पूज्यो वा इतितट्टीका ।उपदेष्टृ अर्थे यथा सुश्रुतसूत्रस्थाने तृतीयाध्याये“अथ वत्स ! तदेतदध्येयं यथा तथोपधारयमया प्रोच्यमानम् । अथ शुचये कृतोत्तरासङ्गाया-व्याकुलायोपस्थितायाध्ययनकाले शिष्याय यथा-शक्ति गुरुरुपदिशेत् पदं पादं श्लोकं वा ते चपद-पाद-श्लोका भूयः क्रमेणानुसन्धेया एव-मेकैकशो घटयेदात्मनाचानुपठेत् ।” तत्रैव चतुर्थे“शास्त्रं गुरुमुखोद्गीर्णमादायोपास्य चासकृत् ।यः कर्म्म कुरुते वैद्यः स वैद्योऽन्ये तु तस्कराः ॥
”)
गुरुः, त्रि, (गीर्य्यते स्तूयते महत्त्वात् । गॄ + कृग्रो-रुच्च” उणां । १ । २४ । इति उत्) महान् । (यथा, ऋग्वेदे । ४ । ५ । ६ । “इदं मे अग्ने ! कियते पावका-मिनते गुरुं भारं न मन्म ।”) दुर्जरः । अलघुः ।इति मेदिनी ॥
रे । २५ ॥
(यथा, पञ्चतन्त्रे । २ । १९९“प्राप्तो बन्धनमप्ययं गुरुमृगस्तावत् त्वया मेहृतः ।” पराक्रान्तः । यथा, पञ्चतन्त्रे । ३ । २८ ।“सोत्साहशक्तिसम्पन्नो हन्याच्छत्रुं लघुर्गुरुम् ।”भारायमाणः । यथा, रघुः । १२ । १०२ ।“अथ मदगुरुपक्षैर्लोकपालद्विपानाम् ।”अथ मदेन गजगण्डसञ्चारसंक्रान्तेन गुरुपक्षैःभारायमाणपक्षैः अलिबृन्दैः ।” इति टीका-कृन्मल्लिनाथः । अतिशयः । यथा, मेघटूते । १ । १ ।“कश्चित् कान्ताविरहगुरुणा स्वाधिकारप्रमत्तःशापेनास्तं गमितमहिमा वर्षभोग्येन भर्त्तुः ॥
”)
कृदन्तरूपमाला
Sanskrit1 {@“गॄ निगरणे”@} 2 किरादिः।
“ज्ञाने गारयते, गिरेन्निगरणे, शब्दे गृणाति त्रयम् युक्तं, ग्रो गरतीति सेकविषये ह्रस्वान्तधातोः शपि।” 3 इति देवः।
‘निपूर्वताप्राचुर्योपदर्शनार्थो निः।’ इति पुरुषकारः।
गारकः-रिका, 4 गालकः-लिका, गारकः-रिका, गालकः-लिका, 5 6 जिगरिषकः, जिगलिषकः-षिका, 7 जेगिरकः-रिका, जेगिलकः-लिका
8 गरिता-गरीता, गलिता-गलीता-त्री, गारयिता-गालयिता-त्री, जिगरिषिता-जिगलिषिता-त्री, जेगिरिता-जेगिलिता-त्री
9 गिरन्-गिलन्-न्ती-ती, 10 गारयन्-गालयन्-न्ती, जिगरिषन्-जिगलिषन्-न्ती
-- गरिष्यन्-गलिष्यन्-गरीष्यन्-गलीष्यन्-न्ती-ती, गारयिष्यन्-गालयिष्यन्-न्ती-ती, जिगरिषिष्यन्-जिगलिषिष्यन्-न्ती-ती
-- 11 अवगिरमाणः- 12 संगिरमाणः, 13 अवगिलमानः-संगिलमानः, 14 अवजिगरिषमाणः, -अवजिगलिषमाणः, अवगरिष्यमाणः, अवगलिष्यमाणः, अवजिगरिष्यमाणः -अवजिगलिष्यमाणः, सञ्जिगरिष्यमाणः, सञ्जिगलिष्यमाणः, 15 जेगिल्यमानः, जेगिलिष्यमाणः
16 17 गीः-गिरौ-गिरः
-- -- -- 18 गीर्णः-गीर्णम्-गीर्णवान्, गारितः-गालितः, जिगरिषितः-जिगलिषितः, जेगिरितः-जेगिलितः, तवान्
19 गरः, गलः, 20 अजगरः, मुद्गरः, 21 तिमिङ्गिलः-गिलगिलः, गारः, गालः, 22 जिगरिषुः-जिगलिषुः, जेगिरः-जेगिलः
गरितव्यम्-गरीतव्यम्, गलितव्यम्-गलीतव्यम्, गारयितव्यम्-गालयितव्यम्, जिगरिषितव्यम्-जिगलिषितव्यम्, जेगिरितव्यम्-जेगिलितव्यम्
गरणीयम्-गलनीयम्, गारणीयम्-गालनीयम्, जिगरिषणीयम्-जिगलिषणीयम्, जेगिरणीयम्-जेगिलनीयम्
23 गार्यम्, गार्यम्-गाल्यम्, जिगरिष्यम्-जिगलिष्यम्, जेगिर्यम्-जेगिल्यम्
ईषद्गरः-ईषद्गलः-दुर्गरः-दुर्गलः-सुगरः, -सुगलः
-- -- 24 गीर्यमाणः, गार्यमाणः-गाल्यमानः, जिगरिष्यमाणः-जिगलिष्यमाणः, जेगीर्यमाणः
25 26 गरः, गलः, 27 उद्गारः 28 -निगारः, निगालः, जिगरिषः -जिगलिषः, जेगिरः-जेगिलः
गरितुम्-गरीतुम्, गलितुम्-गलीतुम्, गारयितुम्-गालयितुम्, जिगरिषितुम्-जिगलिषितुम्, जेगिरितुम्-जेगिलितुम्
29 गीर्णिः, गारणा-गालना, जिगरिषा-जिगलिषा, जेगिरा-जेगिला
निगरणम्- 30 गिरणम्-निगलनम्, गारणम्-गालनम्, जिगरिषणम्-जिगलिषणम्
जेगिरणम्-जेगिलनम्
गीर्त्वा, गारयित्वा-गालयित्वा, जिगरिषित्वा-जिगलिषित्वा, जेगिरित्वा-जेगिलित्वा
संगीर्य, संगार्य-संगाल्य, सञ्जिगरिष्य-सञ्जिगलिष्य, सञ्जेगिर्य
गारम् २, गालम् २, गीर्त्वा २, गारम् २, गालम् २, गारयित्वा २, गालयित्वा २, जिगरिषम् २, जिगलिषम् २, जिगरिषित्वा २, जिगलिषित्वा २, जेगिरम् २, जेगिलम् २, जेगिरित्वा २, जेगिलित्वा २
31 कुप्रत्यये, उकारस्यान्तादेशे च रूपम्।
गिरति = अर्थविशेषान् इति गुरुः = आचार्यः पूज्यो जनश्च।]] गुरुः
01 (४२७)
02 (६-तुदादिः-१४१०। अक। सेट्। पर।)
03 (श्लो। ३३)
04 [[३। ‘अचि विभाषा’ (८-२-२१) इति लत्वविकल्पः। एवं सर्वत्राजादिप्रत्यये परतः बोध्यम्।]]
05 [पृष्ठम्०४१९+ २४]
06 [[१। ‘इट् सनि वा’ (७-२-४१) इति वैकल्पिकेडागमे प्राप्ते, ‘किरश्च पञ्चभ्यः’ (७-२-७५) इति नित्यमिट्। ‘द्विर्वचनेऽचि’ (१-१-५९) इति गुणनिषेधात् ‘गॄ’ शब्दस्य ‘सन्यङोः’ (६-१-९) इति द्वित्वम्। अभ्यासकार्यम्। उत्तरखण्डे गुणः। इडाग- मस्य ‘वॄतो वा’ (७-२-३८) इति दीर्घविकल्पस्तु न
\n\n ‘अत्रेटो दीर्घो नेष्टः’ (भाष्येष्टिः ७-२-७५) इति भाष्यात्। एवं सन्नन्ते सर्वत्र ज्ञेयम्।]]
07 [[२। गर्हितं गिरति--इत्यर्थे ‘लुपसदचरजपजभदहदशगॄभ्यो भावगर्हायाम्’ (३-१-२४) इति यङ्। ‘ऋत इद्धातोः’ (७-१-१००) इति इत्त्वे रपरत्वे च ‘सन्यङोः’ (६-१-९) इति द्वित्त्वम्। न चात्र ‘हलि च’ (८-२-७७) इति दीर्घः शङ्क्यः। लत्वदृष्ट्या दीर्घस्यासिद्धत्वात्। ‘यस्य हलः’ (६-४-४९) इति यलोपः। अल्लोपः। अनन्तरम्, अजादिप्रत्ययपरकत्वात् वैकल्पिकं लत्वम्। एवं यङ्न्ते सर्वत्र।]]
08 [[३। ‘वॄतो वा’ (७-२-३८) इति इटो दीर्घविकल्पः। एवं तव्यत्तुमुनादिषु ज्ञेयम्।]]
09 [[४। ‘तुदादिभ्यः--’ (३-१-७७) इति शविकरणप्रत्ययः। इत्त्वं, रपरत्वं च। स्त्रियाम्, ‘आच्छीनद्योर्नुम्’ (७-१-८०) इति नुम् विकल्पेन भवति।]]
10 [[५। ‘निगरणचलनार्थेभ्यः--’ (१-३-८७) इति ण्यन्तात् शतैव।]]
11 [[६। ‘अवाद् ग्रः’ (१-३-५१) इति शानच्।]]
12 [[७। ‘समः प्रतिज्ञाने’ (१-३-५२) इति शानच्। वैयाकरणाः शब्दं नित्यं सङ्गिरमाणा भवन्ति।]]
13 [[आ। ‘वसूनि देशांश्च निवर्तयिष्यन् रामं नृपः स्पङ्गिरमाण एव। तयाऽवजज्ञे भरताभिषेको विषादशङ्कुश्च मतौ निचस्वने।।’ भ। का। ३। ८।]]
14 [[८। ‘पूर्ववत् सनः’ (१-३-६२) इति सन्नन्तात् शानचू।]]
15 [[९। ‘ग्रो यङि’ (८-२-२०) इति नित्यं लत्वम्।]]
16 [पृष्ठम्०४२०+ २१]
17 [[१। इत्त्वे रपरत्वे च ‘र्वोरुपधाया दीर्घ इकः’ (८-२-७६) इति दीर्घः।]]
18 [[२। ‘श्रयुकः क्विति’ (७-२-११) इतीण्णिषेधः। इत्त्वरपरत्वयोः, ‘रदाभ्याम्--’ (८-२-४२) इति निष्ठानत्वे णत्वे च रूपम्।]]
19 [[३। ‘अचि विभाषा’ (८-२-२१) इति विभाषा प्राप्तस्य लत्वस्य, ‘देवत्रातो गलो ग्राहः इतियोगे च सद्विधिः। मिथस्ते न विभाष्यन्ते गवाक्षः संशितव्रतः।।’ इति भाष्येण (१-४-५३) व्यवस्थितविभाषात्वलाभात् प्राण्यङ्गे नित्यं लत्वम्। विषे तु गर इत्येव। लत्वं न।]]
20 [[४। पचादिषु (३-१-१३४) पाठात् अच्। अजं गिरति = इति अजगरः। ‘श्वपच- चक्रधरवत् अकारादनुपपदात् कर्मोपपदे विप्रतिषेधेन’ (भाष्यम्-१-४-२) इति क्षीरतरङ्गिणी। एवं मुदं गिरतीति मुद्गरः इत्यत्रापि ज्ञेयम्।]]
21 [[५। तिमि गिलतीति तिमिङ्गिलः = जलजन्तुविशेषः। ‘कप्रकरणे मूलविभुजा- दिभ्य उपसंख्यानम्’ (वा। ३-२-५) इति कः। ‘गिलेऽगिलस्य’ (वा। ६-३-७०) इति मुम्। ‘अगिलस्य’ (वा। ६-३-७०) इत्युक्तत्वात् गिलशब्दे परे मुम् न।]]
22 [[आ। ‘लोकानशिशिषोस्तुल्यः कृतान्तस्य विपर्यये। वने चिकरिषोर्वृक्षान् बलं जिगरिषुः कपेः।।’ भ। का। ९। ५४।]]
23 [[६। ‘ऋहलोर्ण्यत्’ (३-१-१२४) इति ण्यत्। वृद्धिः।]]
24 [[७। इत्वरपरत्वयोः ‘हलि च’ (८-२-७७) इति दीर्घः। एवं ‘जेगीर्यमाणः’ इति यङन्तात् कर्मणि यक्यपि ज्ञेयम्।]]
25 [पृष्ठम्०४२१+ २२]
26 [[१। ‘ऋदोरप्’ (३-३-५७) इति भावेऽप्।]]
27 [[२। ‘उन्नयोर्ग्रः’ (३-३-२९) इति घञ्। अबपवादः। उद्गारः = वीच्यादिभिः समुदस्योद्रेकः। ‘उद्गारः = अतिप्रवृत्तो ध्वनिः’ इति प्र। कौमुदीव्या- ख्यायाम्। निगारः देवदत्तस्य। भक्षणमित्यर्थः।]]
28 [[आ। ‘सदोद्गारसुगन्धीनां फलानामलमाशिताः। उत्कारेषु च धान्यानामनभीष्टपरिग्रहाः।।’ भ। का। ७। ३८।]]
29 [[३। ‘ॠल्वादिभ्यः क्तिन्निष्ठावद् वाच्यः’ (बा। ८-२-४४) इति क्तिनस्तकारस्य नत्वे इत्वरपरत्वदीर्घेषु णत्वम्।]]
30 [[४। ‘ठु वम उद्गिरणे’ इति धातुपाठे निर्देशात् क्ङिति प्रत्यये परतः विहितम् इत्वम् ल्युट्यपीष्टमिति केचित्। तेन ‘गिरणम्’ इत्यपि साधु--इति प्रक्रिया- सर्वस्वे।]]
31 [[५। औणादिके [द। उ। १-१०९]
1 {@“वस निवासे”@} 2 ‘वस्यति स्तम्भने वस्ते, छादने वसयेत्, वसेत्।।
निवासे वासयेत् स्नेहे, वासयत्युपसेवने।’ 3 इति देवः।
‘अयं धातुः उभयपदी’ इति कातन्त्रशाकटायनादयः।
वासकः-सिका, वासकः-सिका, 4 विवत्सकः-त्सिका, वावसकः-सिका
5 वस्ता-त्री, वासयिता-त्री, विवत्सिता-त्री, वावसिता-त्री
वसन्-न्ती, वासयन्-न्ती, विवत्सन्-न्ती
-- निवत्स्यन्-न्ती-ती, वासयिष्यन्-न्ती-ती, विवत्सिष्यन्-न्ती-ती
-- -- वासयमानः, वासयिष्यमाणः, -- वावस्यमानः, वावसिष्यमाणः
6 अध्युषितम्- 7 8, प्रोषितः, 9 अनुषितो 10, गुरुः शिष्येण, तः-तवान्, वासितः, विवत्सितः, वावसितः-तवान्
वसः, 11 प्रवासी, जलवासी, सुवासी, नगरवासी, 12 ग्रामेवासी-ग्रामवासी, 13 अवासी, होतुरन्तेवासी, 14 पितुरन्तेवासी, 15 अध्यूषुषः 16 ऊषिवान् 17, वासः, वासनः, 18 वास्तव्यः, 19 विवत्सुः, वावसः
वस्तव्यम्, वासयितव्यम्, विवत्सितव्यम्, वावसितव्यम्
वसनीयम्, वासनीयम्, विवत्सनीयम्, वावसनीयम्
20 वास्यम्, 21 अमावास्या 22 -अमावस्या, वास्यम्, विवत्स्यम्, वावस्यम्, उष्यमाणः, वास्यमानः, विवत्स्यमानः, वावस्यमानः
ईषद्वसः-दुर्वसः-सुर्वसः
-- -- निवासः, 23 आवासः 24, लिप्तवासः, वनेवासः, 25 वनवासः, ग्रामेवासः, 26 उदवासः, उदकवासः, उद्वासः, उपवासः, प्रावासः, वासः, विवत्सः, वावसः
वस्तुम्, वासयितुम्, विवत्सितुम्, वावसितुम्
27 उष्टिः, 28 वासिः, वासना, विवत्सा, वावसा
वसनम्, वासनम्, विवत्सनम्, वावसनम्
29 उषित्वा 30, वासयित्वा, विवत्सित्वा, वावसित्वा
31 प्रोष्य, प्रवास्य, प्रविवत्स्य, प्रवावस्य
वासम् २, उषित्वा २, वासम् २, वासयित्वा २, विवत्सम् २, विवत्सित्वा २, वावसम् २
वावसित्वा २
32 33 वसतिः, 34 वासिः, 35 वसिः, 36 वस्तिः, 37 वसु, 38 वस्तु, 39 वास्तु, 40 आवसथः, 41 वत्सरः, 42 वासरः, 43 वसिष्ठः, 44 वस्नम्, 45 वसन्तः, 46 वस्त्रम्।
01 (१५७६)
02 (१-भ्वादिः-१००५। अक। अनि। पर।)
03 (श्लो। १८७-८)
04 [[५। सन्नन्तात् ण्वुलि, धातुसकारस्य ‘सः स्यार्धधातुके’ (७-४-४९) इति तकारे रूपमेवम्। एवं स्यप्रत्यये, सन्नन्तेषु सर्वत्रापि च ज्ञेयम्।]]
05 [पृष्ठम्१२१२+ २८]
06 [[१। ‘गत्यर्थाकर्मकश्लिषशीङ्स्थाऽऽसवस--’ (३-४-७२) इत्यादिना कर्तृकर्मणोः क्तः। ‘वसतिक्षुधोरिट्’ (७-२-५२) इति इडागमः। सम्प्रसारणम्। पूर्वरूपादिकम्। ‘शासिवसिघसीनां च’ (८-३-६०) इति षत्वम्।]]
07 [[आ। ‘बभञ्जाध्युषितं भूयः क्षुधित्वा पत्रिभिर्वनम्।।’ भ। का। ९। ३९]]
08 [अनेन]
09 [[B। ‘आहर्तुमन्यानशिषत् प्रोषितत्रासकर्कशः।।’ भ। का। ९। ६८]]
10 [गुरुं शिष्यः]
11 [[२। ताच्छीलिकः ‘प्रे लपसृद्रुमथवदवसः’ (३-२-१४५) इति घिनुण्प्रत्ययः।]]
12 [[३। ‘सुप्यजातौ--’ (३-२-७८) इति णिनिप्रत्यये ‘शयवासवासिषु अकालात्’ (६-३-१८) इति सप्तम्या अलुक्। एवम् अन्तेवासी इत्यत्रापि ज्ञेयम्।]]
13 [[४। ‘याचिव्याहृसंव्याहृव्रजवदवसां प्रतिषिद्धानाम् (ग। सू। ३-१-१३४) इति वसेः ग्रह्यादिपाठात् णिनिप्रत्ययः।]]
14 [[C। ‘रुतानि शृण्वन् वयसां गणोऽन्तेवासित्वमाप स्फुटमङ्गनानाम्।।’ शि। व। ३। ५५]]
15 [[ड्। ‘अध्यूषुषो यामभजञ्जनस्य याः संपदस्ता मनसोऽप्यगम्याः।।’ शि। व। ३-५९]]
16 [[५। ‘भाषायां सदवसश्रुवः’ (३-२-१०८) इति लिटः क्वसुः। सम्प्रसारणपूर्वरूपादिकम्। अभ्यासस्य उत्तरखण्डस्य च सवर्णदीर्घः। ‘शासिवसि--’ (८-३-६०) इति षत्वम्।]]
17 [[E। ‘स प्रोषिवानेत्य पुरं प्रवेक्ष्यन् शुश्राव घोषं न जनौघजन्यम्।’ भ। का। ३-२७]]
18 [[६। ‘वसेस्तव्यत् कर्तरि णिच्च’ (वा। ३-१-९६) इति वचनात् कर्तरि तव्यत्प्रत्ययः। णिद्वद्भावेनोपधावृद्धिः। वसतीति वास्तव्यः।]]
19 [[F। ‘प्रसूनकॢप्तिं दधतः सदर्तवः पुरेऽस्य वास्तव्यकुटुम्बितां ययुः।।’ शि। व। १-६६]]
20 [पृष्ठम्१२१३+ २६]
21 [[१। अमा = सह वसतः सूर्याचन्द्रमसौ इत्यर्थे ‘अमावस्यद् अन्यतरस्याम्’ (३-१-१२२) इति ण्यत्प्रत्ययान्तो निपात्यते। पक्षे वृद्ध्यभावश्च निपातनादेव। तेन अमावास्या अमावस्या इति रूपद्वयम्।]]
22 [[आ। ‘स तामूचेऽथ कच्चित्त्वममावास्यासमन्वये।’ भ। का। ६-६४]]
23 [[२। ‘हलश्च’ (३-३-१२१) इति घञ्। ‘शयवास--’ (६-३-१८) इति सप्तम्या अलुक्।]]
24 [[B। ‘आवासे सिक्तसंमृष्टे गन्धैस्त्वं लिप्तवासिता।’ भ। का। ५-९०]]
25 [[C। ‘रक्षन् वनेवासकृताद् भयात् तान् प्रातश्छलेनापजगाम रामः।।’ भ। का। ३-१६।]]
26 [[३। ‘पेषंवासवाहनधिषु च’ (६-३-५८) इति सूत्रेण वासशब्द उत्तरपदे उदकशब्दस्य उदादेशः। उदवासः उदकस्य वास इत्यर्थः।]]
27 [[४। स्त्रियां क्तिनि सम्प्रसारणषत्वष्टुत्वादिकेषु रूपमेवम्। वसतिः इति तु औणादिकं रूपमिति ज्ञेयम्।]]
28 [[५। ‘इक् कृष्यादिभ्यः’ (वा। ३-३-१०८) इति इक्प्रत्यये रूपम्। यद्यपि भाव एवायं प्रत्ययः, तथापि यथासम्भवं कर्तर्यपि भवति। वासिः = तक्ष्ण आयुधविशेषः।]]
29 [[६। ‘वसतिक्षुधोरिट्’ (७-२-५२) इति क्त्वायामिडागमः। ‘न क्त्वा सेट्’ (१-२-१८) इति कित्त्वनिषेधं बाधित्वा ‘मृडमृदगुधकुषक्लिशवदवसः क्त्वा’ (१-२-७) इति कित्त्वम्। तेन सम्प्रसारणादिकं भवतीति ज्ञेयम्।]]
30 [[ड्। ‘ते भुक्तवन्तः सुसुखं वसित्वा वासांस्युषित्वा रजनीं प्रभाते।’ भ। का। ३-४५।]]
31 [[E। ‘क्षणमतुहिनधाम्नि प्रोष्य भूयः पुरस्तात्…।’ शि। व। ११-६५]]
32 [पृष्ठम्१२१४+ ३०]
33 [[१। ‘वहिवस्यर्तिभ्यश्चित्’ (द। उ। १-२९) इत्यतिप्रत्ययः। वसतिः = आलयः।]]
34 [[२। ‘वसिवपि--’ (द। उ। १-५३) इति इञ्प्रत्ययः। वासिः = तक्षकारभाण्डम्।]]
35 [[३। औणादिकः (द। उ। १-६८) इप्रत्ययः। वसिः शय्या, रात्रिर्वा।]]
36 [[४। ‘वसेस्तिः’ (द। उ। १-७४) इति तिप्रत्ययः। वसत्यस्मिन् नानौषधियुक्तः स्नेह इति वस्तिः-अधःकायप्रदेशः, चर्ममयः पुटश्च। बस्तिः इति गौडीयाः।]]
37 [[५। औणादिके (द। उ। १-९५) उप्रत्यये रूपमेवम्। वसु = धनम्।]]
38 [[६। ‘वसेस्तुन्’ (द। उ। १-१२८) इति तुन्प्रत्ययः। वस्तु = द्रव्यम्।]]
39 [[७। ‘अगारे णिच्च’ (द। उ। १-१२९) इति तुन्प्रत्ययः, तस्य णिद्वद्भावेनोपधावृद्धिः। वास्तु = गृहादिकम्।]]
40 [[८। ‘आङि वसः’ (द। उ। ६-३९) इति आङ्युपपदे धातोरथप्रत्यये रूपमेवम्। आवसथः = गृहादिकम्।]]
41 [[९। ‘वसेश्च’ (द। उ। ८-५१) इति सरन्प्रत्यये ‘सः स्यार्द्धधातुके’ (७-४-४९) इति तकारादेशे च रूपम्। वसन्त्यस्मिन् ग्रहनक्षत्रर्तुदेवता इति वत्सरः = अब्दः। ‘संवत्सरो वत्सरोऽब्दः हायनोऽस्त्री शरत्समाः’ इत्यमरः।]]
42 [[१०। णिजन्तात् औणादिके (द। उ। ८-१००) अरप्रत्यये रूपमेवम्। ‘घस्रो दिनाहनी वा तु क्लीबे दिवसवासरौ’ इत्यमरः।]]
43 [[११। अतिशयेन वसुमान् वसिष्ठः। वसुमच्छब्दात् इष्ठन्प्रत्यये मतुब्लुकि टिलोपे च रूपमेवम्।]]
44 [[१२। ‘धापॄवस्यज्यतिभ्यो नः’ (द। उ। ५-३९) इति नः। “वस्नम् मूल्यम्” इति धातुवृत्तिः।]]
45 [[१३। ‘तॄभूवहिवसि--’ (द। उ। ६-१९) इति झच्प्रत्ययः। ‘झोऽन्तः’ (७-१-३) इति अन्तादेशे वसन्तः इति रूपम्। ऋतुविशेषः।]]
46 [[१४। औणादिके (द। उ। ८-७९) ष्ट्रन्प्रत्यये रूपमेवम्। केचित्तु ‘वस आच्छादने’ इत्यस्मात् व्युत्पादयन्ति, तदेव न्याय्यम्।]]
1 {@“शीङ् स्वप्ने”@} 2 शायकः-यिका, शायकः-यिका, 3 शिशयिषकः-षिका, 4 शाशय्यकः-य्यिका
5 शयिता-त्री, शाययिता-त्री, शिशयिषिता-त्री, शाशय्यिता-त्री
-- शाययन्-न्ती, -- शाययिष्यन्-न्ती-ती
-- 6 शयानः, 7 8 शाययमानः, शिशयिषमाणः, शाशय्यमानः
शयिष्यमाणः, शाययिष्यमाणः, शिशयिषिष्यमाणः, शाशय्यिष्यमाणः
9 सुखशीः-सुखश्यौ-सुखश्यः
-- -- -- 10 शयितम्-तः 11 -तवान्, शायितः, शिशयिषितः, शाशयितः-तवान्
12 शयः, 13 इति ग्रह्यादिपाठात् विपूर्वकात् णिनिप्रत्ययः।
निपातनात् देशविशेषवाचकत्वे वृद्ध्यभावः।
अन्यत्र विशायी इत्येव।]] विशयी, 14 15 खेशयः-खशयः, 16 बिलेशयः, 17 पूर्वाह्णशयः, 18 पार्श्वशयः, उरश्शयः, उदरशयः, पृष्ठशयः, हस्तशयः, ऊर्ध्वशयः, 19 उत्तानशयः, 20 अवमूर्धशयः, 21 दिग्धसहशयः, 22 गिरिशः, 23 24 शयालुः, 25 26 शयितः, 27 अतिशयितो गुरुं शिष्यः-अतिशयितो गुरुः शिष्येण, 28 ग्रामम् 29 अधिशयानः, 30 स्थण्डिलशायी 31 तरुस्थलशयी, 32 शेषशायी-अब्धिशायी, 33 रङ्गशायी, 34 शयानो भुङ्क्ते यवनः, शायः, शिशयिषुः-शिशाययिषुः, शाशयः
शयितव्यम्, शाययितव्यम्, शिशयिषितव्यम्, शाशय्यितव्यम्
35 शयनीयम् 36 , शायनीयम्, शिशयिषणीयम्, शाशय्यनीयम्
शेयम्, शाय्यम्, शिशयिष्यम्, शाशय्यम्
ईषच्छयः-दुश्शयः-सुशयः
-- -- 37 शय्यमानः, शाय्यमानः, शिशयिष्यमाणः, शाशय्यमानः
38 शयः, तव 39 उपशायः 40 -विशायः, उपशयः, विशयः, 41 संशयः-सांशयिकः, 42 43 अतिशयः-आतिशायिकः-आतिशयिकः, शायः, शिशयिषः, शाशय्यः
शयितुम्, शाययितुम्, शिशयिषितुम्, शाशय्यितुम्
44 संशीतिः 45 शय्या 46 , 47 सुखशायिका, 48 सुशयिका, शायना, शिशयिषा-शिशाययिषा, शाशय्या
शयनम्, 49 सुखशयनम्-सौखशायनिकः, श्मशानम् 50 , 51 अतिशायनम्-अतिशय- नम्-आतिशायनिकम्, शायनम्, शिशयिषणम्, शाशय्यनम्
52 शयित्वा, 53 शाययित्वा, शिशयिषित्वा, शाशय्यित्वा
54 उपशय्य, विशाय्य, प्रशिशयिष्य, प्रशाशय्य
शायम् २ शयित्वा २ शायम् शाययित्वा २ शिशयिषम् २ शिशयिषित्वा २ शाशय्यम् २
शाशय्यित्वा २
55 उप्रत्ययः।]] शयुः, 56 शयानकः, 57 शीधुः-शीलम्-शैवालम्-शेवलः, 58 शेवः, शेपः, 59 शिखा, 60 शिनिः, 61 निशीथः।
01 (१७१७)
02 (२-अदादिः-१०३२। अक। सेट्। आत्म।)
03 [[२। सन्नन्तात् द्विर्वचनादिकेषु कृतेषु सर्वत्र रूपमेवं बोध्यम्।]]
04 [[३। यङन्ते प्रत्ययस्य ङित्त्वात् ‘अयङ् यि क्ङिति’ (७-४-२२) इत्ययङ् सर्वत्र बोध्यः।]]
05 [[४। ‘इवर्णेष्वथ शीङ्श्रिञावपि’ (व्याघ्रभूतिकारिका
\n\n काशिका ७-२-१०) इति वचनाद् धातोः इड् भवतीति बोध्यम्।]]
06 [[५। शानच्प्रत्ययस्य ‘सार्वधातुकमपित्’ (१-२-४) इति ङिद्वद्भावेन यद्यपि ‘क्ङिति च’ (१-१-५) इति गुणनिषेधोऽत्र प्राप्तः
\n\n तथापि ‘शीङः सार्वधातुके गुणः’ (७-४-२१) इति विशेषविधानाद् गुणो भवतीति बोध्यम्। ‘शयाना भुञ्जते यवनाः’ इत्यत्र ‘लक्षणहेत्वोः क्रियायाः’ (३-२-१२६) इति शानच् इति ज्ञेयम्।]]
07 [[आ। ‘शयानां कुष्ठले तारां दिविष्ठामिव निर्मलाम्।।’ भ। का। ९-८४।]]
08 [[६। अचित्तवत्कर्तृकत्वे एवं शानजपि ण्यन्तात् भवतीति माधवः। चित्तवत्कर्तृकत्वे तु ‘अणावकर्मकात् चित्तवत्कर्तृकात्’ (१-३-८८) इति नित्यं परस्मैपदमेव।]]
09 [[७। सुखं शेते इति सुखशीः। द्विवचनादौ ‘एरनेकाचोऽसंयोगपूर्वस्य’ (६-४-८२) इति यणि सुखश्यौ सुखश्यः इत्यादीनि बोध्यानि।]]
10 [[८। ‘निष्ठा शीङ्--’ (१-२-१९) इति वचनात् धातोरत्र निष्ठाया अकित्त्वम्। तेन गुणः।]]
11 [[B। ‘मणिरत्नाधिशयितं प्रत्युदैक्षन्त तोयधिम्।।’ भ। का। ७-१०३।]]
12 [[९। पचादिपाठादच्प्रत्ययः। गुणायादेशौ।]]
13 [[१०। ‘विशयी देशे’ [ग। सू। ३-१-१३४]
14 [पृष्ठम्१३००+ २९]
15 [[१। खे शेते इति खेशयः--खशयः। ‘अधिकरणे शेतेः’ (३-२-१५) इति अच्प्र- त्ययः। ‘शयवासवासिष्वकालात्’ (६-३-१८) इति पाक्षिकः सप्तम्या अलुक्। एवं रङ्गेशयः अद्रिशयः बिलेशयः कुशेशयम् इत्यादयो बोध्याः।]]
16 [[आ। ‘अब्भ्रेण खे सञ्चरमाण आरात् बिलेशयद्वेषिसमानजूतिः। वा। वि। २-२३।]]
17 [[२। पूर्वाह्णे शेते इति पूर्वाह्णशयः। अत्र कालार्थकत्वात् न सप्तम्याः पाक्षिकोऽप्यलुक्-- ‘-- अकालात्’ (६-३-१८) इत्युक्तेः।]]
18 [[३। पार्श्वाभ्यां शेते पार्श्वशयः। उरसा शेते उरश्शयः। एवं उदरशयः पृष्ठशयः इत्यादयो ज्ञेयाः। अत्र सर्वत्र ‘पार्श्वादिषूपसंख्यानम्’ (वा। ३-२-१५) इति अच्प्रत्ययः।]]
19 [[४। उत्तानः शेते उत्तानशयः। अवमूर्धा शेते अवमूर्धशयः। अत्र ‘उत्तानादिषु कर्तृषु’ (वा। ३-२-१५) इति अच्प्रत्ययः।]]
20 [[B। ‘शौरिर्यशोदाशयने न्यधात्ताम् आदत्त चोत्तानशयां कुमारीम्।’ वा। वि। ३-४०।]]
21 [[५। दिग्धेन सह शेते इति दिग्धसहशयः। ‘दिग्धसहपूर्वाच्च’ (वा। ३-२-१५) इति अच्प्रत्ययः। ‘दिग्धसह’ इत्यत्र, मयूरव्यंसकादित्वात् (२-१-७२), अस्मादेव निर्देशाद्वा तत्पुरुषसमासः। तत उपपदसमासः।]]
22 [[६। ‘गिरौ डश्छन्दसि’ (वा। ३-२-१५) इति गिरावुपपदे शेतेर्डप्रत्ययः। प्रत्ययस्य डित्त्वेन टेर्लोपः। गिरिरस्यास्तीत्यर्थे लोमादित्वात् (५-२-१००) शप्रत्ययेन प्रसाध्य भाष्ये वार्त्तिकमिदं प्रत्याख्यातम्। निमित्तावधिसंकरत उभयमपि प्रमाणमद्यत्वे इति सिद्धान्तः।]]
23 [[C। ‘आरोपितं यद्गिरिशेन पश्चादनन्यनारीकमनीयमङ्कम्।।’ कु। सं। १-३७।]]
24 [[७। ‘आलुचि शीङो ग्रहणम्’ (वा। ३-२-१५८) इत्यालुच् ताच्छीलिकः। शयनशीलः शयालुः।]]
25 [[ड्। ‘हन्ति नोपशयस्थोऽपि शयालुर्मृगयुर्मृगान्।।’ शि। व। २-८०।]]
26 [[८। ‘मतिबुद्धि--’ (३-२-१८८) इत्यत्र चकारस्यानुक्तसमुच्चयार्थत्वात् अस्मादपि धातोः वर्तमाने क्तप्रत्ययः।]]
27 [[९। ‘गत्यर्थाकर्मकश्लिषशीङ्--’ (३-४-७२) इत्यादिनाऽत्र कर्तृकर्मणोर्यथासम्भवं क्तप्रत्ययो ज्ञेयः। उपसर्गवशादत्र धातुस्सकर्मक इत्यवधेयम्।]]
28 [पृष्ठम्१३०१+ ३०]
29 [[१। अत्र ‘अधिशीङ्स्थाऽऽसां कर्म’ (१-४-४६) इत्याधारस्य कर्मत्वम्।]]
30 [[२। ‘व्रते’ (३-२-८०) इति णिनिः। स्थण्डिल एव शेते स्थण्डिलशायी। यस्स्थण्डिल एव व्रतविशेषानुपालनार्थं शेते स एवमुच्यते। यस्तु कदाचित् कटाद्यभावात् स्थण्डिले शेते सः स्थण्डिलशय इत्युच्यते इति बोध्यम्।]]
31 [[आ। ‘वाचंयमान् स्थण्डिलशायिनश्च युयुक्षमाणाननिशं मुमुक्षून्।’ भ। का। ३-४१]]
32 [[३। ‘सुप्यजातौ--’ (३-२-७८) इति णिनिः।]]
33 [[B। ‘पृक्ताग्रजः पृञ्जितगोपसूनुर्दृष्टोऽब्धिशायी स जनैर्युवद्भिः।।’ धा। का। २-४६]]
34 [[४। ‘लक्षणहेत्वोः क्रियायाः’ (३-२-१२६) इति लक्षणार्थे शानच्। शयानानामेव सतां भोजनकरणं यवनलक्षणमिति समुदितार्थः।]]
35 [[५। अधिकरणेऽप्यनीयर्प्रत्ययो भवति, बाहुलकात्। शेरतेऽस्मिन् इति शयनीयम्।]]
36 [[C। ‘गतमाभरणप्रयोजनं शयनीयं परिशून्यमद्य मे।।’ रघु। ८-६५]]
37 [[६। यकि, ‘अयङ् यि क्ङिति’ (७-४-२२) इति अयङ् आदेशः। आदेशस्य अनेकाल्त्वेऽपि ‘ङिच्च’ (१-१-५३) इत्यन्त्यस्येकारस्यादेशः।]]
38 [[७। ‘एरच्’ (३-३-५६) इति भावेऽच्प्रत्ययः।]]
39 [[८। पर्यायार्थे गम्यमाने, वि, उप इत्युपसर्गाभ्यां परस्यास्य ‘व्युपयोः शेतेः पर्याये’ (३-३-३९) इति घञ् प्रत्ययः, इवर्णान्तत्वलक्षणाच्प्रत्ययस्यापवादः। तव विशायः। मम राजोपशायः, राजानमुपशयितुं पर्याय इत्यर्थः। पर्यायभिन्नार्थे तु उपशयः, विशयः इत्यजेव।]]
40 [[ड्। ‘निशोपशायः कर्तव्यः फलोच्चायश्च संहतैः।।’ भ। का। ७-४१]]
41 [[९। संशय्यते इति संशयः = सन्देहः। संशयं आपन्नोऽर्थः सांशयिकः। ‘संशयमाप- न्नः’ (५-१-७३) इति ठञ्। सांशयिकः स्थाणुः। स्थाणुः संशयं = पुरुष इति सन्देहमापन्न इत्यर्थः। अमरसिंहस्तु ‘सांशयिकः संशयापन्नमानसः’ (३-१-५) इति संशयकर्तर्यपि प्रयोगमनुमेने
\n\n द्वितीयान्तप्रकरणे पुनः ‘संशयं--’ (५-१-७३) इति द्वितीयान्तत्वेनैव पाठात् कर्भण्येव प्रत्ययो न तु कर्तरि इति न्यासपद- मञ्जर्यादिषु स्पष्टम्।]]
42 [पृष्ठम्१३०२+ २९]
43 [[१। अतिशेते इत्यतिशयः। उपसर्गवशाद्धातोरर्थान्तरे वृत्तिः। अतिशये भवः आतिशायिकः, अध्यात्मादित्वात् (५-४-४४) ठञ्। अनुशतिकादित्वात् (७-३-२०) उभयपदवृद्धिः। ‘व्याप्तमातिशयिकेन रसेन’ (माघः १०-२३) इत्यत्र तु विन- यादित्वात् (५-४-३४) ठक्।]]
44 [[२। भावे क्तिन्। संशीतिः = संशयः। ‘तितुत्र--’ (७-२-९) इतीण्न्{??}एइषेधः।]]
45 [[३। ‘संज्ञायां समजनिषदनिपतमनविदषुञ्शीङ्भृञिणः’ (३-३-९९) इति संज्ञायां गम्यमानायां स्त्रियां भावादौ क्यप्प्रत्ययः। शेरतेऽस्यामिति शय्या। कित्त्वादयङ्।]]
46 [[आ। ‘शय्योत्थायं मृगान् विघ्यन्नातिथेयो विचक्रमे।।’ भ। का। ४-८]]
47 [[४। सुखशयनम् सुखशायिका। धात्वर्थनिर्देशे स्त्रियां ण्वुल्।]]
48 [[५। शोभनः शयोऽस्याः सुशयिका। ‘प्रत्ययस्थात् कात्--’ (७-३-४४) इतीकारः।]]
49 [[६। सुखेन शयनम्--सुखशयनम्। सुखशयनं पृच्छतीति सौखशायनिकः। ‘पृच्छतौ सुस्नातादिभ्यः’ (वा। ४-४-१) इति ठक्। ‘भृग्वादीन् अनुगृह्णन्तं सौखशायनिकान् ऋषीन्।।’ (रघुवंशः १०-१४)]]
50 [[७। शवानां शयनम् = श्मशानम्। पृषोदरादित्वात् (६-३-१०९) शवशब्दस्य श्मादेशः, शयनशब्दस्य ‘शान’ इत्यादेशः। काशिका (६-३-९) द्रष्टव्या।]]
51 [[८। अतिशयनम् एव अतिशायनम्। ‘अतिशायने तमबिष्ठनौ’ (५-३-५५) ‘नित्ययोगेऽतिशायने।’ (वा। ५-२-९४) इति सूत्रवार्त्तिकादिनिर्देशात् ल्युडन्ते दीर्घः पाक्षिकः
\n\n तेन अतिशयनम् अतिशायनम् इत्युभयमपि साधु। न च वाच्यम्-- ‘बाधकान्येव निपातनानि’ (परिभाषा। ११९) इति वचनात् अतिश- यनम् इत्यसाव्वेवेति
\n\n यतः ‘अबाधकान्यपि निपातनानि’ (परि १२०) इति वचनात् उभयमपि साच्वेवेति माधवः। वस्तुतः ‘अज्विधौ भयादीनामुपसंख्यानम्-- नपुंसके क्तादिनिवृत्त्यर्थम्’ (वा। ३-३-५६) इति वचनात् अस्य धातोः अतिपूर्वस्य ल्युटि रूपस्यानभिधानमेव
\n\n अत एव च निर्देशात् अतिशायनम् इत्येकमेव रूपं साधु इति प्रतीमः।]]
52 [[९। ‘न क्त्वा सेट्’ (१-२-१८) इति सेटः क्त्वायाः कित्त्वनिषेधात् गुणोऽत्र।]]
53 [[B। ‘… शयित्वा रजनीं सपौरः।’ भ। का। ३-१६।]]
54 [पृष्ठम्१३०३+ २९]
55 [[१। अत्यर्थं शेरते इति शयुः = अजगरः। औणादिकः [द। उ। १-९२]
56 [[२। औणादिके (द। उ। २६) आकप्रत्यये शयानकः इति भवति।]]
57 [[३। ‘शीङो धुक्लग्वलन्वालनः’ (द। उ। १०-९) इति क्रमेण धुगादिप्रत्ययेषु रूपाणीमानि सिद्धानि। शीधुः = मदिरा। केचित् शीथुः इति पठन्ति। शीलम् = स्वभावः। शेवल-शैवालौ जललताविशेषवाचकौ।]]
58 [[४। औणादिके (द। उ। ८-१२६) वन्प्रत्यये रूपम्। शेवः सर्पः। शेवा इति केचित्। औणादिके (द। उ। ६-६९) इति क्वनिप्प्रत्यये तु शीवा इति भवति।]]
59 [[५। औणादिके (द। उ। ३-५५) खप्रत्यये शिखा केशबन्धः।]]
60 [[६। औणादिके निप्रत्यये धातोर्ह्रस्वे च रूपम्। शिनिः क्षत्रियविशेष इति माधवः।]]
61 [[७। नितरां शेरतेऽस्मिन् प्राणिन इति निशीथः = अर्धरात्रम्। औणादिकस्थक्प्रत्ययोऽत्र।]]
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
