| YouTube Channel

गुपू (gupU)

 
Shabdartha Kaustubha
Kannada
गुपू - रक्षणे (भ्वा० पर० सक० से०) गोपयति
पदविभागः - > धातुः
कन्नडार्थः - > ರಕ್ಷಿಸು /ಕಾಪಾಡು
धातुपाठः (Krishnacharya)
Sanskrit
धातुः:
गुप्
मूलधातुः:
गुपू
धात्वर्थः:
रक्षणे
गणः:
भ्वादिः
कर्मकत्वं:
सकर्मकः
इट्त्वं:
सेट्
उपग्रहः:
परस्मैपदी
रूपम्:
गोपायति
धातुप्रदीपः
Sanskrit
गुपूँ गुपू रक्षणे
- गोपायति जुगोप गोपायाञ्चकार ।। 396 ।।
क्षीरतरङ्गिणी
Sanskrit
गुपूँ गुपू रक्षणे
- इतः शुम्भान्ताः (1292) चतुर्त्रिंशत् सेटः परस्मैपदिनश्च गुपूधूपविछ (तु0 3128) इत्यायः-गोपायति अयादय आर्धधातुके वा (3131) गोप्ता, गोपिता, गोपायिता राजसूयसूर्य (31114) इति कुप्यं साधु गुप गोपने 1696) तूत्पत्तिचिकीर्षितः- जुगुप्सते गुप्तिज्किद्भ्यः (315) इति चुरादौ गुपू भासार्थः (10197) गोपयति, गोपना 387
धातुवृत्तिः
Sanskrit
गुपूँ गुपू (अर्थः) रक्षणे
एतदादयः शुम्भान्ता उदाता उदात्तेतः "गुपूधूपविच्छिपणिपनिभ्य आयः'' इत्यायः स्वार्थे "आयादय आर्द्धधातुके वा'' इति आर्द्धधातुके विषये विकल्पेनायमुत्पाद्यते तस्मिन् लघूपधगुणः, आयादय आयेयङ्णिङः "सनापद्यन्ता धातवः'' इति धातुत्वं, ( गोपायति गोपायांचकार)कास्प्रत्ययात्'' इत्याम् ( गोपायिता गोपायिष्यति गोपायतु अगोपायत् गोपायेत् आशिषि गोपाय्यातगोपायीतगोपायिष्टामगोपायिष्यत्जुगोपायिष्यतिगोपाययति अजुगोपायत् ) सर्वत्रार्द्धधातुके अतो लोपः अत एवाग्लोपित्वात् "णौ चङि'' इति ह्रस्वाभावः ( गोपाय्यम् ) "अचो यत्'' ( गोपायितः गोपायित्वा गोपाया ) "अप्रत्ययात्'' इत्यकारः आयाभावे ( जुगोप जुगुपतुः जुगोपिथ जुगोप्थ जुगुपिव जुगुप्व ) ऊदित्त्वादिड्विकल्पः यावत् कश्चिदिडभावः प्रतिषेधनिबन्धनो वा विकल्पनिबन्धनो वा सर्वः क्रादिसूत्रेण नियम्यत इति मैत्रेयः सेधतावाह तन्मते नित्यमिटा भाव्यम् क्रादिनियमः प्रतिषेधविषय इति वादिनांहरदत्तादीनां विकल्प एव आयादीनामुत्पत्तिविकल्प इत्युक्तेर्निवृत्तिविकल्पे हि प्रत्ययलक्षणेन प्रत्ययान्तत्वात् धातुत्वात् ( गोपायांचकारेति स्यात् गोपिता गोप्ता गोपिष्यति गोप्स्यतिगुप्यात्)किदाशिषि इति कित्वान्न गुणः(अगौप्सीतगोपीतगोपिष्यत् अगोप्स्यत् जुगुप्सति जुगुपिषति गुप्त्वा गुपित्वा गोपित्वा ) "रलोव्युपधात्'' इति क्त्वासनो कित्त्वविकल्पः सनि अनिट् पक्षे "हलन्ताच्य'' कित्वम्(जोगुप्यते) आयान्तस्यानेकाच्त्वात् यङुदाहृतःआयोत्पत्ति विकल्पस्य यङपि प्रयोजनम् नात्र यङो लुगस्ति यत् "आयादय आर्द्धधातुके वा'' इति आर्द्धधातुकव्यक्तेरभिव्यक्तावेवायं विकल्प उच्यते लुकि हि तेन विषयत्वापहारान्नार्द्धधातुकव्यक्तेरभिव्यक्तिरिति कथमायाभावः स्यात् उपपादितश्चायं प्रकारोऽजगतिक्षेपणयोरित्यत्र(गोपायति अजूगुपत्गुप्तःगुप्तिः)"तितुत्र" इति नेट्, "यस्य विभाषा"इति नेट् उत्पत्तिः उत्पत्तिविकल्पस्य चेदं प्रयोजनम् अन्यथा प्रत्ययान्तत्वादकार एव स्यात्(गोप्यम् ) ण्यत् (कुप्यम्) "राजसूयसूर्यमृषोद्यरुच्यकुप्यकुष्टपच्याव्यथ्याः'' इति क्यपि गुपेरादिकत्त्वं निपात्यते अयं भाषार्थो रक्षणार्थश्चुरादौ गुप गोपनइति इहैवाग्रे गुप व्याकुलत्व इति दिवादौ 392
कृदन्तरूपमाला
Sanskrit
1 {@“गुपू रक्षणे”@} 2 ‘णौ गोपयति भाषा3थें निन्दायां से जुगुप्सते।
गोपायेद् रक्षणे त्वाये, व्याकुलत्वे तु गुप्यति।।’ 4 इति देवः।
5 गोपायकः 6 -यिका-गोपकः-गोपिका, 7 गोपायकः-पिका-गोपकः-पिका, 8 जुगोपायिषकः-जुगोपिषकः-जुगुपिषकः-षिका-जुगुप्सकः-प्सिका, 9 जोगुपकः-पिका
गोपायिता- 10 गोपिता-गोप्ता-त्री, गोपाययिता-गोपयिता-त्री, जुगोपायिषिता- जुगोपिषिता-जुगुपिषिता-जुगुप्सिता-त्री, जोगुपिता-त्री
11 गोपायन् 12 -न्ती, गोपायन्-गोपयन्-न्ती, जुगोपायिषन्-जुगोपिषन्-जुगुपिषन्-जुगुप्सन्-न्ती
-- गोपायिष्यन्-गोपिष्यन्-न्ती-ती, गोपाययिष्यन्-गोपयिष्यन्-न्ती-ती, जुगोपायिषिष्यन्-जुगोपिषिष्यन्-जुगुपिषिष्यन्-जुगुप्सिष्यन्-न्ती-ती
-- -- गोपाययमानः-गोपयमानः, -- जोगुप्यमानः
-- गोपाययिष्यमाणः, गोपयिष्यमाणः, जोगुपिष्यमाणः
13 गोपाः-गोपौ-गौपाः, -- गुप्-गुब्-गुपौ-गुपः
-- 14 गोपायितम्-तः 15 गुप्तम्-गुप्तः-गुप्तवान्, 16 मनसागुप्ता, गोपायितः-गोपितः, जुगोपायिषितः-जुगोपिषितः-जुगुपिषितः-जुगुप्सितः, जोगुपितः-तवान्
गोपायः-गुपः, 17 शालिगोपः- 18 शालिगोपी, गोपायः-गोपः, जुगोपायिषुः-जुगोपिषुः-जुगुपिषुः-जुगुप्सुः, जोगुपः
गोपायितव्यम्-गोपितव्यम्-गोप्तव्यम्, गोपाययितव्यम्-गोपयितव्यम्, जुगोपायिषितव्यम्-जुगोपिषितव्यम्-जुगुपिषितव्यम्-जुगुप्सितव्यम्, जोगुपितव्यम्
गोपायनीयम्-गोपनीयम्, गोपायनीयम्-गोपनीयम्, जुगोपायिष- णीयम्-जुगोपिषणीयम्-जुगुपिषणीयम्-जुगुप्सनीयम्, जोगुपनीयम्
गोपाय्यम्-गोप्यम्- 19 कुप्यम् 20, गोपाय्यम्-गोप्यम्, जुगोपायिष्यम्-जुगो- पिष्यम्-जुगुप्स्यम्, जोगुप्यम्
ईषद्गोपायः-दुर्गोपायः-सुगोपायः, ईषद्गोपः-दुर्गोपः-सुगोपः
-- गोपाय्यमानः-गुप्यमानः, गोपाय्यमानः-गोप्यमानः, जुगोपायिष्य- माणः-जुगोपिष्यमाणः-जुगुपिष्यमाणः-जुगुप्स्यमानः, जोगुप्यमानः
गोपायः-गोपः, गोपायः-गोपः, जुगोपायिषः-जुगोपिषः-जुगुपिषः-जुगुप्सः, जोगुपः
गोपायितुम्-गोपितुम्-गोप्तुम्, गोपाययितुम्-गोपयितुम्, जुगोपायिषितुम्- जुगोपिषितुम्-जुगुपिषितुम्-जुगुप्सितुम्-जोगुपितुम्
21 गोपाया- 22 गुप्तिः, गोपायना-गोपना, जुगोपायिषा-जुगोपिषा-जुगुपिषा-जुगुप्सा-जोगुपा
गोपायनम्- 23 प्रगोपणम् 24 -प्रगोपनम्, गोपायनम्-गोपनम्, जुगोपायिषणम्- जुगोपिषणम्-जुगुपिषणम्-जुगुप्सनम्, जोगुपनम्
प्रगोपायित्वा- 25 गोपित्वा-गुप्त्वा, गोपाययित्वा-गोपयित्वा, जुगोपायिषित्वा- जुगोपिषित्वा-जुगुपिषित्वा-जुगुप्सित्वा, जोगुपित्वा
प्रगोपाय्य-प्रगुप्य, प्रगोपाय्य-प्रगोप्य, प्रजुगोपायिष्य-प्रजुगोपिष्य-प्रजुगुपिष्य- प्रजुगुप्स्य, प्रजोगुप्य
गोपायम् -गोपम् २, गोपायित्वा -गोपित्वा-गुप्त्वा २, गोपायम् -गोपम् २, गोपाययित्वा -गोपयित्वा २, जुगोपायिषम् -जुगोपिषम् २, -जुगुपिषम् -जुगुप्सम् -२, जोगुपम्
जुगोपायिषित्वा २-जुगोपिषित्वा २, -जुगुपिषित्वा -जुगुप्सित्वा- २, जोगुपित्वा २।
प्रासङ्गिक्यः
01
=>
(४११)
02
=>
(१-भ्वादिः-३९५। सक। वेट्। पर।)
03
=>
(सा)
04
=>
(श्लो। १२९)
05
=>
[[१। ‘गुप्धूपविच्छिपणिपनिभ्य आयः’ (३-१-२८) इति विहित आयप्रत्ययः, ‘आयादय आर्धधातुके वा’ (३-१-३१) इत्यनेन, आर्धधातुके विकल्पितः। अतो रूपद्वयम्। एवमार्धधातुके सर्वत्र ज्ञेयम्।]]
06
=>
[[आ। ‘आसेदुषां गोत्रभिदोऽनुवृत्त्या गोपायकानां भुवनत्रयस्य। रोचिष्णुरत्नावलिभिर्विंमानैर्द्यौराचिता तारकितेव रेजे।।’ किरातार्जुनीये १८-१८।]]
07
=>
[[२। ण्यन्ताण्ण्वुलि, ‘णेरनिटि’ (६-४-५१) इति णिलोपे रूपम्। णिजन्ते सर्वत्र आय- प्रत्ययविकल्पः।]]
08
=>
[[३। आयप्रत्ययान्तात् सनि इदं रूपम्। आयप्रत्ययाभावे ऊदित्त्वादिड्विकल्पे, ‘रलो व्युपधात्--’ (१-२-२६) इति सनः कित्त्वविकल्पे रूपत्रयम्। एवं सन्नन्ते सर्वत्र।]]
09
=>
[[४। आर्धधातुकविवक्षायामायप्रत्ययस्य वैकल्पिकत्वात्, आयप्रत्ययान्तस्यानेकाच्त्वान्न यङ्। आयाभावे तु--‘जोगुपकः’ इत्यादिरूपाणि यङन्ताल्लिखितानि।]]
10
=>
[[५। ऊदित्त्वात् ‘स्वरतिसूति--’ (७-२-४४) इत्यादिना इङ्विकल्पः। आयप्रत्ययाभावपक्षे एवं तव्यदादिषु ज्ञेयम्।]]
11
=>
[[६। शतुः सार्वधातुकत्वान्नित्यमायादेशः।]]
12
=>
[[B। ‘वल्भप्रगल्भाः पथिकाश्च तत्क्षणं सुश्रम्भणस्तोभयुतात् अगुर्गृहान्। गोपायतां धर्ममधूपितात्मनां ज्पान् विमुच्याभवदुद्यमो जपे।।’ धा। का। १-५१।]]
13
=>
[[७। क्विपि, अल्लोपयलोपयोः सोः रुत्वविसर्गौ। आयाभावे ‘गुप्’ इति रूपम्।]]
14
=>
[पृष्ठम्०४००+ २६]
15
=>
[[१। आयाभावपक्षे--ऊदित्त्वात् विकल्पितेट्कत्वेन निष्ठायाम्, ‘यस्य विभाषा’ (७-२-१५) इति निषेधादिडागमो न।]]
16
=>
[[२। ‘मनसः संज्ञायाम्’ (वा। ६-३-३) इति तृतीयाया अलुक्।]]
17
=>
[[३। ‘कर्मण्यण्’ (३-२-१) इत्यणि शालिगोप इति रूपम्। स्त्रियां टित्त्वेन ङीपि शालिगोपी।]]
18
=>
[[आ। ‘इक्षुच्छायनिषादिन्यस्तस्य गोष्तुर्गुणोदयम्। आकुमारकथोद्धातं शालिगोप्यो जगुर्यशः।।’ रघुवंशे ४-२०।]]
19
=>
[[४। ‘राजसूयसूर्यमृषोद्यरुच्यकुप्यकृष्टपच्याव्यथ्याः’ (३-१-११४) इति सूत्रेण सुवर्ण- रजतादिभिन्ने धने बोध्ये क्यपि, गुपेरादेः ककारादेशश्च निपातितः।]]
20
=>
[[B। ‘अकृष्टपच्याः पश्यन्तौ ततो दाशरथी लताः। रत्नान्नपानकुप्यानामाटतुर्नष्टसंस्मृती।।’ भ। का। ६-५८।]]
21
=>
[पृष्ठम्०४०१+ २४]
22
=>
[[१। स्त्रियां भावादौ ‘अ प्रत्ययात्’ (३-३-१०२) इति आयप्रत्ययान्तादकार प्रत्ययः। आयाभावपक्षे-‘तितुत्र--’ (७-२-९) इतीण्णिषेधे रूपम्।]]
23
=>
[[२। ‘हलश्चेजुपधात्’ (८-४-३१) इति वा णत्वम्।]]
24
=>
[[आ। ‘कः कृत्वा रावणामर्षप्रकोपणमवद्यधीः। शक्तो जगति शक्रोऽपि कर्तुमायुःप्रगोपणम्।।’ भ। का। ९-१०५।]]
25
=>
[[३। आयप्रत्ययाभावपक्षे ऊदित्त्वेनेड्विकल्पात्, इट्पक्षे, ‘न क्त्वा सेट्’ (१-२-१८) इति कित्त्वनिषेधात् गुणः।]]