| YouTube Channel

गुप (gupa)

 
शब्दसागरः
English
गुप r. 1st cl. (जुगुप्सते)
1. To conceal, to hide.
2. To censure, to blame
or despise, (this root takes सन्
irr
egularly.) (उ) गुपू r. 1st cl.
(गोपयति) To guard or protect. (इर) गपिर r. 4th cl. (गुप्यति)
1. To
be confused or disturbed.
2. To disturb or perplex. गुप r. 10th cl.
(गोपयति)
1. To shine.
2. To speak.
Wilson
English
गुप r. 1st cl. (जुगुप्सते)
1 To conceal, to hide.
2 To censure, to blame or despise, (this root takes सन्
irr
egularly.)
(उ) गुपू r. 1st cl. (गोपयति) To guard or protect. (इर)
गुपिर r. 4th cl. (गुप्यति)
1 To be confused or disturbed.
2 To disturb or perplex. गुप r. 10th cl. (गोपयति)
1 To shine.
2 To speak.
धातुपाठः (Krishnacharya)
Sanskrit
धातुः:
गुप्
मूलधातुः:
गुप
धात्वर्थः:
गोपने
गणः:
भ्वादिः
कर्मकत्वं:
सकर्मकः
इट्त्वं:
सेट्
उपग्रहः:
आत्मनेपदी
रूपम्:
जुगुप्सते
अनुबन्धादिविशेषः:
गुप्तिज्किद्भ्यः सन्
धातुः:
गुप्
मूलधातुः:
गुप
धात्वर्थः:
व्याकुलत्वे
गणः:
दिवादिः
कर्मकत्वं:
अकर्मकः
इट्त्वं:
सेट्
उपग्रहः:
परस्मैपदी
रूपम्:
गुप्यति
अनुबन्धादिविशेषः:
पुषादिः
धातुः:
गुप्
मूलधातुः:
गुप
धात्वर्थः:
भाषायाम्
गणः:
चुरादिः
कर्मकत्वं:
सकर्मकः
इट्त्वं:
सेट्
उपग्रहः:
उभयपदी
रूपम्:
गोपयति-ते
धातुप्रदीपः
Sanskrit
गुपँ गुप गोपन, कुत्सनयोः
- जुगुप्सते निन्दाक्षमाव्याधिप्रतीकारेषु सन्निष्यत इति वचनान्निन्दायां सन् जुगुप्साञ्चक्रे निन्दाया अन्यत्राप्यर्थेऽस्मात् केवलादात्मनेपदं भवति, अनभिधानात् तदुक्तं ''नैतेभ्यः सनः प्रागात्मनेपदं परस्मैपदं वा पश्याम इति'' (96)। तत् केवलादात्मनेपदार्थमस्यानुदात्तेत्त्वं भवतीति सामर्थ्यात् सन्नन्तादात्मनेपदं भवति उत्तरत्राप्येवं वेदितव्यम् निन्दाया अन्यत्र (97) गोपिता गोपित्वा गोपनम् गुपितम् गोपः ।। 978 ।।
गुपँ गुप व्याकुलत्वे
- गुप्यति अगुपत् गोपिता 127
शब्दकल्पद्रुमः
Sanskrit
गुप, रक्षे इति कविकल्पद्रुमः (भ्वां-परं-सकं-वेट् ।) आयन्तत्वादुभयपदमिति वोपदेवः ।गोपायति गोपायते अरे तु आयस्याप्राप्ति-पक्षे परस्मैपदमेव अगोपीत् जुगोप गोरूप-धरामिवोर्व्वीमिति रघुः
ऊ, गोपिष्यतिगीप्स्यति इति दुर्गादासः
गुप, भासि इति कविकल्पद्रुमः
(चुरां-परं-अकं-सेट् ।) क, गोपयति भासि दीप्तौ इतिदुर्गादासः
गुप, गोपनकुत्सयोः इति कविकल्पद्रुमः
(भ्वां आत्मं-सकं-सेट् ।) गोपनमपह्नवः ङ, कङ्कणझनत्कारञ्च किं गोपसे अत्र त्यादयो नस्युरिति रमानाथः कुत्सा निन्दा सा जुगुप्सांप्रचक्रेऽसून् इति भट्टिः इति दुर्गा-दासः
गुप, इर् व्याकुलत्वे इति कविकल्पद्रुमः
(दिवां-परं-अकं सकञ्च-सेट् ।) व्याकुलत्वंव्याकुलीभावस्तत्करणञ्च य, धीरो गुप्यतिमहत्यपि कार्य्यजाते इति हलायुधः गुप्यतिगा वृष्टिः आकुलीकरोतीत्यर्थः इति चतु-र्भुजः इर्, अगुपत् अगोपीत् अस्मात्पुषादित्वात् नित्यं इत्यन्ये इति दुर्गादासः
वाचस्पत्यम्
Sanskrit
गुप गोपने
सक०
आत्म० सेत् कुत्सने स्वार्थे सन् अनिट्कुत्सनमिह कुत्सापूर्वकनिवृत्तिस्तत्र अक० निन्दनञ्च तत्रसक० पापात् जुगुप्ससते अगुप्सीष्ट जुगुपसांबभूव आस चक्रे जुगुप्सितः गोपने गोपते अगोपिष्ट जुगुपे “आद्विधानैर्गुपितो वार्हतैः मोक्षरक्षितःऋ० १० ८५ “तथा राष्ट्रं गुपितं क्षत्रियस्य”१० १०९ तत्र निन्दार्थत्वे “जुगुप्सेरन्न चाप्ये-नम् संवसेयुश्च सर्वशः” मनुः “यदा बुध्यति बोद्धव्यंलोकवृत्तं जुगुप्सते” भा० व० ३११ अ०
गुप रक्षणे
भ्वा०
सक०
पर०
वेट् स्वार्थे सार्वधातुके नित्य-मायः आर्द्धधातुके वा गोपायति अगोपायीत् अगोपीत्अगौप्सीत् गोपायाम्--बभूव आस चकार जुगोप ।गोपायितः गुप्तः गुप्तिः गोपायनम् गोपनम् “जुगोपात्मानमत्रस्नुः” रघुः “आत्मानं सततं गोपायीत”श्रुतिः “जुगोप गोरूपधरामिवोर्वीम्” रपुः “नैनं गोप्स्यतिदुर्बुद्धिमद्य बाणहतं मया” भा० भी० ३८६३ श्लो०“अगोपिष्टां पुरोलङ्कामगौप्तां रक्षसां बलम्” भट्टिः ।“यस्य वाङ्मनसी शुद्धे सम्यग्गुप्ते सर्वदा” मनुः
गुप व्याकुलत्वे दिवा० अक०
पर०
सेट् इरित् गुप्यतिअगुपत् अगोपीत् जुगोप गुपितः
गुप भासने चुरा०
उभ०
अक० सेट् गोपयति ते अजु-गुपत् गोपयाम् बभूव आस चकार चक्रे चतुर्ण्णागुपधातूनामुदाहरण कविरहस्ये यथा “गोपायति क्षितिमिमां चतुरब्धिसीमां पापाज्जुगुप्सत उदारमतिः स-दैव वित्तं गोपयति यस्तु बणीयकेभ्यो धीरो गु-प्यति महत्यपि कार्य्यजाते”
क्षीरतरङ्गिणी
Sanskrit
गुपँ गुप गोपने
- इतो हदान्ताः (1703) अष्टावनिट आत्मनेपदिनश्च गुप्तिज्किद्भ्यः सन् (315) जुगुप्सते पापात् निन्दायामुत्पत्तिचिकीर्षितम्, अन्यत्र गोपते गुपू रक्षणे (1280) गोपायति, आयप्रत्ययः (द्र0 3128) चुरादौ भासार्थः (10197) गोपायति 941
गुपँ गुप व्याकुलत्वे
- गुप्यति अगुपत् राजसूयसूर्य (31115) इति कुप्यं सुवर्णरजताभ्यामन्यद्धनम्, गोप्यम् अन्यत् भ्वादौ गुप गोपने (1696)-जुगुप्सते, गुपू रक्षणे (1280) गोपायति चुरादौ भासार्थः (10197) गोपायति 122
धातुवृत्तिः
Sanskrit
गुपँ गुप (अर्थः) गोपने
गुपँ गुप (अर्थः) व्याकुलत्वे
( गुप्यति ) इत्यादि ( गोपायति ) जुगुप्सत इति शपि गोपायतीति चुरादौ 125
कृदन्तरूपमाला
Sanskrit
1 {@“गुप गोपने”@} 2 ‘णौ गोपयति भाषार्थे, निन्दायां से जुगुप्सते।
गोपायेद् रक्षणे त्वाये, व्याकुलत्वे तु गुप्यति।।’ 3 इति देवः।
‘गोपनकुत्सनयोः’ इति मैत्रेयरक्षितः।
4 जुगुप्सकः-प्सिका, 5 जुगुप्सकः-प्सिका, 6 जुगुप्सिषकः-षिका, 7 -- -- 8 जोगुपकः-पिका
जुगुप्सिता-त्री, जुगुप्सयिता-त्री, जुगुप्सिषिता-त्री
-- जुगुप्सयन्-न्ती, जुगुप्सयिष्यन्-न्ती-ती
- जुगुप्समानः, जुगुप्सयमानः, जुगुप्सिषमाणः
जुगुप्सिष्यमाणः, जुगुप्सयिष्यमाणः, जुगुप्सिषिष्यमाणः
9 जुगुप्-जुगुप्सौ-जुगुप्सः
-- -- जुगुप्सितम्-तः-तवान्, जुगुप्सितः, जुगुप्सिषितः-तवान्
10 जुगुप्सुः, जुगुप्सयिषुः, जुगुप्सिषुः
जुगुप्सितव्यम्, जुगुप्सयितव्यम्, जुगुप्सिषितव्यम्
जुगुप्सनीयम्, जुगुप्सनीयम्, जुगुप्सिषणीयम्
जुगुप्स्यम्, जुगुप्स्यम्, जुगुप्सिष्यम्
ईषज्जुप्सः-दुर्जुगुप्सः-सुजुगुप्सः
-- जुगुप्स्यमानः, जुगुप्स्यमानः, जुगुप्सिष्यमाणः
जुगुप्सः, 11 जुगुप्सः, जुगुप्सिषः
जुगुप्सितुम्, जुगुप्सयितुम्, जुगुप्सिषितुम्
12 जुगुप्सा, जुगुप्सयिषा, जुगुप्सिषा
जुगुप्सनम्, जुगुप्सनम्, जुगुप्सिषणम्
जुगुप्सित्वा, जुगुप्सयित्वा, जुगुप्सिषित्वा
प्रजुगुप्स्य, प्रजुगुप्स्य, प्रजुगुप्सिष्य
जुगुप्सम् २, जुगुप्सित्वा २, जुगुप्सम् २, जुगुप्सयित्वा २, जुगुप्सिषम्
जुगुप्सिषित्वा २। 13
प्रासङ्गिक्यः
01
=>
(४०८)
02
=>
(१-भ्वादिः-९७०। सक। सेट्। आत्म।)
03
=>
(श्लो। १२९)
04
=>
[[३। ‘गुप्तिज्किद्भ्यः सन्’ (३-१-५) इति सन् ‘गुपेर्निन्दायाम्’ (वा। ३-१-५) इति वार्तिकात् स्वार्थे भवति। अस्य सनः ‘धातोः’ (३-१-९१) इत्यधिकृत्य विहितत्वाभावात् आर्धधातुकत्वम्। तेन, इडागमः प्रकृतेर्गुणश्च भवतः। ‘सन्यङोः’ (६-१-९।) इति द्वित्वम्। अभ्यासकार्यादिकम्।]]
05
=>
[[४। सन्नन्तात् णिचि ‘णेरनिटि’ (६-४-५१) इति णेर्लोपे ‘जुगुप्सकः’ इति भवति।]]
06
=>
[[५। स्वार्थसन्नन्तादिच्छार्थे सनि, द्वितीयस्य सन इडागमे ‘अतो लोपः’ (६-४-४८) इत्यलोपे रूपमिदम्। “शैषिकान्मतुबर्थीयात् शैषिको मतुबर्थिकः। सरूपः प्रत्ययो नेष्टः, सन्नन्तान्न सनिष्यते।।” (भाष्येष्टिः--३-१-७) इति सन्नन्तात् सन् भवतीति तु शङ्क्यम्-- ‘सरूप’ इत्यस्य समानार्थक इति भाष्यकृतोक्तत्वेन स्वार्थसन्नन्तादिच्छासन् भवत्येव।]]
07
=>
[पृष्ठम्०३९६+ २६]
08
=>
[[१। ‘अर्थान्तरे त्वननुबन्धकाश्चुरादयो बोध्याः’ इति वचनात्, निन्दाभिन्नार्थे, चुरादित्वमस्य धातोर्बोध्यम्। तदानीं ण्यन्तात् ण्वुलि रूपमेवम्। एवं तृजादिष्वपि ‘गोपयिता-त्री’ इत्यादीनि रूपाण्यूह्यानि।]]
09
=>
[[२। ‘अतो लोपः’ (६-४-४८) इत्यकारलोपे ‘संयोगान्तस्य’ (८-२-२३) इति सकारस्य लोपे रूपम्।]]
10
=>
[[३। ‘सनाशंसभिक्ष उः’ (३-२-१६८) इति ताच्छीलिकः उप्रत्ययः।]]
11
=>
[[आ। ‘सा जुगुप्सान् प्रचक्रेऽसून् जगर्हे लक्षणानि च। देहमाञ्जि ततः केशान् लुलुच्च लुलुठे मुहुः।।’ भ। का। १४-५९।]]
12
=>
[[४। ‘अ प्रत्ययात्’ (३-३-१०२) इति स्त्रियां भावादौ अकारप्रत्ययः। टाप्।]]
13
=>
[पृष्ठम्०३९७+ २५]
1 {@“गुप व्याकुलत्वे”@} 2 “णौ गोपयति भाषार्थे, निन्दायां से जुगुप्सते।
गोपायेद् रक्षणे त्वाये, व्याकुलत्वे तु गुप्यति।।” 3 इति देवः।
गोपकः-पिका, गोपकः-पिका, 4 जुगोपिषकः-जुगुपिषकः, 5 जोगुपकः-पिका
गोपिता-त्री, गोपयिता-त्री, जुगोपिषिता-जुगुपिषिता-त्री, जोगुपिता-त्री
6 गुप्यन्-न्ती, गोपयन्-न्ती, जुगोपिषन्-जुगुपिषन्-न्ती
-- गोपिष्यन्-न्ती-ती, गोपयिष्यन्-न्ती-ती, जुगोपिषिष्यन्-जुगुपिषिष्यन्-न्ती-ती
-- गोपयमानः, गोपयिष्यमाणः, जोगुप्यमानः, जोगुपिष्यमाणः
गुब्-गुप्-गुपौ-गुपः
-- -- -- गुपितम्-तः-तवान्, गोपितः, जुगोपिषितः-जुगुपिषितः, जोगुपितः-तवान्
7 गुपः, 8 प्रगोपी, गोपः जुगोपिषुः-जुगुपिषुः, जोगुपः
गोपितव्यम्, गोपयितव्यम्, जुगोपिषितव्यम्-जुगुपिषितव्यम्, जोगुपितव्यम्
गोपनीयम्, गोपनीयम्, जुगोपिषणीयम्-जुगुपिषणीयम्, जोगुपनीयम्
गोप्यम्, गोप्यम्, जुगोपिष्यम्-जुगुपिष्यम्, जोगुप्यम्
ईषद्गोपः-दुर्गोपः-सुगोपः
-- -- गुप्यमानः, गोप्यमानः, जुगोपिष्यमाणः-जुगुपिष्यमाणः, जोगुप्यमानः
गोपः, गोपः, जुगोपिषः-जुगुपिषः, जोगुपः
गोपितुम्, गोपयितुम्, जुगोपिषितुम्-जुगुपिषितुम्, जोगुपितुम्
गुप्तिः, गोपना, जुगोपिषा-जुगुपिषा, जोगुपा
9 गोपनम्, गोपनम्, जुगोपिषणम्-जुगुपिषणम्, जोगुपनम्, 10 गोपित्वा-गुपित्वा, गोपयित्वा, जुगोपिषित्वा-जुगुपिषित्वा, जोगुपित्वा
सङ्गुप्य, सङ्गोप्य, सञ्जुगोपिष्य-सञ्जुगुपिष्य, सञ्जोगुप्य
गोपम् २, गोपित्वा २, गुपित्वा २, गोपम् २, गोपयित्वा २, जुगोपिषम् -जुगुपिषम् २, जुगोपिषित्वा -जुगुपिषित्वा २, जोगुपम्
जोगुपित्वा २।
प्रासङ्गिक्यः
01
=>
(४०९)
02
=>
(४-दिवादिः-१२३४। सक। सेट्। पर।)
03
=>
(श्लो। १२९)
04
=>
[[१। ‘रलो व्युपधाद्धलादेः संश्च’ (१-२-२६) इत्यनेन सेटः सनः कित्त्वविकल्पः। तेन गुणतदभावयोः रूपद्वयम्। एवं सर्वत्र सन्नन्ते बोद्ध्यम्।]]
05
=>
[[२। यङन्ते, ‘यस्य हलः’ (६-४-४९) इति यकारलोपे, ‘अतो लोपः’ (६-४-४८) इत्यलोपे, अल्लोपस्य स्थानिवद्भावात् लघूपधगुणो न। एवं सर्वत्र यङन्ते बोध्यम्।]]
06
=>
[[३। ‘दिवादिभ्यः--’ (३-१-६९) इति श्यन्। श्यनो ङिद्वद्भावान्नाङ्गस्य गुणः। ‘शप्- श्यनोर्नित्यम्’ (७-१-८१) इति नित्यं नुम्।]]
07
=>
[[४। ‘इगुपधज्ञा--’ (३-१-१३५) इति कर्तरि कः।]]
08
=>
[[५। ‘सुप्यजातौ--’ (३-२-७८) इति ताच्छील्ये णिनिः।]]
09
=>
[पृष्ठम्०३९८+ २२]
10
=>
[[१। ‘रलो व्युपधाद्धलादेः संश्च’ (१-२-२६) इति क्त्वायाः वैकल्पिकं कित्त्वम्। तेन रूपद्वयम्।]]
1 {@“गुप भाषार्थः”@} 2 “णौ गोपयति भाषा3र्थे, निन्दायां से जुगुप्सते।
गोपायेद् रक्षणे त्वाये, व्याकुलत्वे तु गुप्यति।।” 4 इति देवः।
‘भासार्थः’ इति क्षीरस्वामी।
गोपकः-पिका, गोपयिता-त्री, इत्यादीनि रूपाणि पूर्वलिखितदैवादिक- गुपधातोः 5 ण्यन्तस्येव ज्ञेयानि।
ण्यन्तात् सनि तु-- जुगोपयिषकः-षिका, जुगोपयिष्यम्, जुगोपयिषिता-त्री, ईषज्जुगोपयिषः-दुर्जुगोपयिषः-सुजुगोपयिषः
जुगोपयिषन्-न्ती, जुगोपयिष्यमाणः
जुगोपयिषिष्यन्-न्ती-ती, जुगोपयिषः
जुगोपयिषमाणः, जुगोपयिषितुम्
जुगोपयिषिष्यमाणः, जुगोपयिषा
जुगोपयिट्-जुगोपयिषौ-जुगोपयिषः, जुगोपयिषणम्
जुगोपयिषितम्-तः-तवान्, जुगोपयिषित्वा
जुगोपयिषुः, प्रजुगोपयिष्य
जुगोपयिषितव्यम्, जुगोपयिषणीयम्, जुगोपयिषम्
जुगोपयिषित्वा २। इति रूपाणि, इति विशेषः।।
6
प्रासङ्गिक्यः
01
=>
(४१०)
02
=>
(१०-चुरादिः-१७७२। अक। सेट्। उभ। आस्वदीयः।)
03
=>
(सा)
04
=>
(श्लो। १२९)
05
=>
(४०९)
06
=>
[पृष्ठम्०३९९+ २६]