| YouTube Channel

गुध (gudha)

 
शब्दसागरः
English
गुध r. 1st cl. (गोधते) To play. r. 4th cl. (गोध्यति) To surround, to encom-
pass. r. 9th cl. (गोध्नाति) To be angry.
Wilson
English
गुध r. 1st cl. (गोधते) To play. r. 4th cl. (गोध्यति) To
surround, to encompass. r. 9th cl. (गोध्नाति) To be angry.
Shabdartha Kaustubha
Kannada
गुध - परिवेष्टने (दिवा० पर० सक० से०) गुध्यति
पदविभागः - > धातुः
कन्नडार्थः - > ಸುತ್ತುಗಟ್ಟು /ಮರೆ ಮಾಡು /ಮುಚ್ಚು
धातुपाठः (Krishnacharya)
Sanskrit
धातुः:
गुध्
मूलधातुः:
गुध
धात्वर्थः:
परिवेष्टने
गणः:
दिवादिः
कर्मकत्वं:
सकर्मकः
इट्त्वं:
सेट्
उपग्रहः:
परस्मैपदी
रूपम्:
गुध्यति
धातुः:
गुध्
मूलधातुः:
गुध
धात्वर्थः:
रोषे
गणः:
क्र्यादिः
कर्मकत्वं:
अकर्मकः
इट्त्वं:
सेट्
उपग्रहः:
परस्मैपदी
रूपम्:
गुध्नाति
धातुप्रदीपः
Sanskrit
गुधँ गुध परिवेष्टने
- गुध्यति गुधित्वा जुगोध 14
गुधँ गुध रोषे
- गुध्नाति गुधित्वा गुधितम् गुध्यतीति गणान्तरे 48
शब्दकल्पद्रुमः
Sanskrit
गुध, रुषि इति कविकल्पद्रुमः
(क्य्रां-परं-अकं-सेट् ।) ग, गुध्नाति जुगोध इति दुर्गा-दासः
गुध, क्रीडे इति कविकल्पद्रुमः
(भ्वां-आत्मं-अकं-सेट् ।) ङ, गोधते इति दुर्गादासः
गुध, वेष्टे इति कविकल्पद्रुमः
(दिवां-परं-सकं-सेट् ।) य, गुध्यति जुगोध इति दुर्गा-दासः
वाचस्पत्यम्
Sanskrit
गुध रोषणे क्य्रा०
पर०
सक०
सेट् गुध्नाति अगोधीत् ।जुगोध सेट्कत्वेऽपि गुणः गुधित्वा गुत्सः
गुध क्रीडे
भ्वा०
आत्म० अक० सेट् गोधते अगोधिष्ट जुगुधे
गुध वेष्टने दिवा०
पर०
सक०
सेट् गुध्यति अगोधीत् ।जुगोध गुधित्वा
क्षीरतरङ्गिणी
Sanskrit
गुधँ गुध परिवेष्टने
- गुध्यति गुधित्वा गुधेरूमः (उ0 52) गोधूमः भिदादौ (गण0 33104) गोधा उन्द्यमिगुधि (दश0 उ0 928) इति कित् सः-गुत्सः लक्ष्ये छान्तः-गुच्छः 12
धातुवृत्तिः
Sanskrit
गुधँ गुध (अर्थः) परिवेष्टने
अयं चतुर्थान्तः ( गुध्यति ) इत्यादि ( गुधित्वा ) "मृडमृद''इत्यादिना सेटः क्त्वः कित्त्वम् ( गोधा ) भिदादिपाठाद् अङि गुणः (गोधिका) संज्ञायां कनि "केऽणः'' इति ह्रस्वे "प्रत्ययस्थात्'' इतीत्वम् गोधाया अपत्यं (गौधेरः) "गोधाया ढ्रक्'' इति ढ्रक् ( गौधारः ) "आरगुदीचाम्'' इत्यारक् उदीचां ग्रहणात्पक्षे "स्त्रीभ्यो ढक्'' इति ढकि ( गोधेयः ) ( गोधूमः ) "गुधेरूम'' इत्यूमः रोषेद्ययं क्र्यादिः 13
गुधँ गुध (अर्थः) रोषे
(गुध्नाति जुगोध गुधित्वा ) इत्यादि मृदिवत् (गुधितः गुधितवान्) "उदुपधात्'' इति निष्ठायाः कित्त्वविकल्पो व्यवस्थितविभाषया शब्विकरणानामेकेत्युक्तम् गुध्यतीति परिवेष्टने दिवादौ 45
कृदन्तरूपमाला
Sanskrit
1 {@“गुध परिवेष्टने”@} 2 “गुधेर्गुध्नाति रोषेऽर्थे, गुध्येत् तु परिवेष्टने।” 3 इति देवः।
गोधकः-धिका, गोधकः-धिका, 4 जुगुधिषकः-जुगोधिषकः, जोगुधकः-धिका
गोधिता-त्री, गोधयिता-त्री, जुगुधिषिता-जुगोधिषिता-त्री, जोगुधिता-त्री
5 गुध्यन्-न्ती, गोधयन्-न्ती, जुगुधिषन्-जुगोधिषन्-न्ती
-- गोधिष्यन्-न्ती-ती, गोधयिष्यन्-न्ती-ती, जुगुधिषिष्यन्-जुगोधिषिष्यन्-न्ती-ती, -- गोधयमानः, गोधयिष्यमाणः, जोगुध्यमानः-जोगुधिष्यमाणः
6 सुघुत्-सुघुद्-सुगुधौ-सुगुधः
-- -- -- 7 8 विगुधितम्-तः, 9 गोधितः, जुगुधिषितः-जुगोधिषितः, जोगुधितः-तवान्
10 गुधः, 11 सुगोधी, गोधः, जुगुधिषुः-जुगोधिषुः, जोगुधः
गोधितव्यम्, गोधयितव्यम्, जुगुधिषितव्यम्-जुगोधिषितव्यम्, जोगुधितव्यम्
गोधनीयम्, गोधनीयम्, जुगुधिषणीयम्-जुगोधिषणीयम्, जोगुधनीयम्
गोध्यम्, गोध्यम्, जुगुधिष्यम्-जुगोधिष्यम्, जोगुध्यम्
ईषद्गोधः-दुर्गोधः-सुगोधः
-- -- गुध्यमानः, गोध्यमानः, जुगुधिष्यमाणः, जोगुध्यमानः
गोधः, गोधः, जुगुधिषः-जुगोधिषः, जोगुधः
गोधितुम्, गोधयितुम्, जुगुधिषितुम्-जुगोधिषितुम्, जोगुधितुम्
12 गोधा, गोधना, जुगुधिषा-जुगोधिषा, जोगुधा
गोधनम्, गोधनम्, जुगुधिषणम्-जुगोधिषणम्, जोगुधनम्
13 गुधित्वा, गोधयित्वा, जुगुधिषित्वा-जुगोधिषित्वा, जोगुधित्वा
प्रगुध्य, प्रगोध्य, सञ्जुगुधिष्य-सञ्जोगुधिष्य, प्रजोगुध्य
गोधम् २, गुधित्वा २, गोधम् २, गोधयित्वा २, जुगुधिषम् २-जुगोधिषम् २, जुगुधिषित्वा २-जुगोधिषित्वा २, जोगुधम्
जोगुधित्वा
14 इति ऊमप्रत्ययः।
त्वगादिभिः गुध्यते = आवेष्ट्यते इति गोधूमः।]] गोधूमः।
15
प्रासङ्गिक्यः
01
=>
(४०५)
02
=>
(४-दिवादिः-११२०। अक। सेट्। पर।)
03
=>
(श्लो। १२१।)
04
=>
[[१। ‘रलो व्युपधात्--’ (१-२-२६) इति सनः कित्त्वविकल्पनान् रूपद्वयम्।]]
05
=>
[[२। ‘दिवादिभ्यः--’ (३-१-६९) इति श्यन्। श्यनस्सार्वधातुकत्वात् ङिद्वद्भावेनाङ्गस्य गुणो न।]]
06
=>
[[३। भष्भावो झषन्तत्वेन।]]
07
=>
[पृष्ठम्०३९३+ २२]
08
=>
[[१। ‘शब्विकरणेभ्य एवेष्यते’ (भाष्येष्टिः १-२-२१) इति इष्टेः, ‘उदुपधात्--’ (१-२-२१) इति कित्त्वविकल्पः।]]
09
=>
[[आ। ‘तं प्लुष्यद्दृष्टिनृत्यद्रुषमपि गतत्रासमुत्कुथ्यदङ्गं पोथ्यं प्रोचे स्वरेण स्वजनविगुधितं क्षिप्यता पुष्पमाध्वीम्।।’ धा। का। २-५६।]]
10
=>
[[२। ‘इगुपधज्ञा--’ (३-१-१३५) इति कर्तरि कः।]]
11
=>
[[३। ‘सुप्यजातौ--’ (३-२-७८) इति ताच्छील्ये णिनिः।]]
12
=>
[[४। गोधा = तलत्राणम्। भिदादौ (३-३-१०४) गुणविशिष्टपाठात्, ‘गोधाया ढ्रक्’ (४-१-१२९) इति निर्देशाच्च अङि गुणः।]]
13
=>
[[५। ‘मृडमृदगुध--’ (१-२-७) इति नित्यं कित्त्वम्। ‘न क्त्वा सेट्’ (१-२-१८) इत्यस्यापवादः।]]
14
=>
[[६। ‘गुधेरूमः’ [द। उ। ७-४२।]
15
=>
[पृष्ठम्०३९४+ २७]
1 {@“गुध रोषे”@} 2 “गुधेर्गुध्नाति रोषेऽर्थे, गुध्येत् तु परिवेष्टने।” 3 इति देवः।
शतरिं गुध्नन्-ती, गोधयिष्यन्-न्ती-ती, जुगुधिषिष्यन्-जुगोधि- षिष्यन्-न्ती-ती, इत्यादीनि रूपाणि।
अन्यानि सर्वाण्यपि दैवादिकगुध्यति- वत् 4 ज्ञेयानि।
5 गुध्नन्, इत्यत्र क्रैयादिकत्वात् ‘क्र्यादिभ्यः--’ 6 इति श्नाप्रत्ययः।
श्नाप्रत्ययस्य सार्वधातुकत्वात् ङिद्वद्भावः।
तेनाङ्गस्य गुणो न।
‘श्नाभ्यस्तयोरातः’ 7 इत्याकारलोपः।
8 गोधा।
प्रासङ्गिक्यः
01
=>
(४०६)
02
=>
(९-क्र्यादिः-१५१७। अक। सेट्। पर।)
03
=>
(श्लो। १२१)
04
=>
(४०५)
05
=>
[[आ। ‘भूयो निपात्य मृडितस्वजनः गुध्नन् दन्तौ विकुष्य गजमुत्क्षुभितं व्यनभ्नात्।।’ धा। का। ३-१०।]]
06
=>
(३-१-८१)
07
=>
(६-४-११२)
08
=>
[[१। भिदादिषु (३-३-१०४) पाठादङ्।]]