गुणविधि (guNavidhi)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
वाचस्पत्यम्
Sanskritगुणविधि गुणस्याङ्गस्य द्रव्यादेर्विधिः । प्राप्तस्याऽप्राप्तस्य वाकर्मणोऽङ्गद्रव्यविधाने । यथा “अग्निहोत्रं जुहोति स्वर्ग-कामः” इति विधिना स्वर्गसाधनत्वेन प्राप्तस्याग्निहोत्रादे-रङ्गं “दध्ना जुहोतीति” वाक्यन दधिद्रव्यं विदधत् गुण-विधिः । यत्र च कर्म अङ्गं च मानान्तरेणाप्राप्तंतत्रोभयविधानं यथाहि तस्य अङ्गरूपगुणविधानेन गुण-विधित्वं तथा कर्मस्वरूपप्रापकत्वेन उत्पत्तिविधित्वंचेत्युभयरूपत्वम् तदेतत् गौगाक्षिग्रन्थे विवृतं यथा“अज्ञातार्थज्ञापको लेदभागो विधिः । स च प्रयोजनवदर्थविधानेनाऽर्थवान् । तादृशञ्चार्थं प्रमाणान्तरेणाप्राप्तंविधत्ते । यथा “अग्निहोत्रं जुहुयाम् स्वगकामः इतिविधिः प्रमाणान्तरेणाप्राप्तस्वर्गप्रयोजनवद्धोमं वि-धत्ते अग्निहोत्रेण स्वर्ग भावयेदिति वाक्यार्थवोधः ।यत्र कर्म प्रमाणान्तरेण प्राप्तं तत्र तदुद्देशेन गुणमात्रंविधत्ते । यथा “दध्ना जुहोति” इत्यत्र होमस्य “अग्निहोत्रंजुहुयात्” इत्यनेन प्राप्तत्वाद्धोमीद्देशेन दधिमात्रविधानंदध्ना होमं भावयेदिति । यत्र तूभयमप्राप्तं, तत्र विशिष्टंविधत्ते । यथा “सोमेन यजेत” इत्यत्र सोमद्रव्ययागयो-रप्राप्तत्वात् सोमविशिष्टयागविधानम् । सोमपदे मत्यर्थ-लक्षणया सोमवता यागेनेष्टं भावगेदिति वाक्यार्थ-बोधः । न चोभयविधाने वाक्यभेदः, प्रत्येकमुभयस्या-विधानात् किन्तु विशिष्टस्यैकस्यैव विधानात् । नच “ज्योतिष्टोमेन स्वर्गकामोयजेतेति” प्राप्तयागोद्देशेनसोमरूपगुणविधानमेवास्तु सोमेन यागं भावयेदिति, किं मत्वर्थलक्षणयेति वाच्यम् । तस्याधिकारविधित्वे-नोत्पत्तिविधित्वासम्भवात् । ननु “उद्भिदा यजेत पशु-लाम” इत्यस्येव ज्योतिष्टोमेन इत्यस्याप्युत्पत्त्यधिकार-विघित्वमस्त्विति चेन्न दृष्टान्ते उत्पत्तिवाक्यान्तरा-भावेनान्यथानुपपत्त्या तथात्वाश्रयणात् । किञ्च ज्यो-तिष्टोमेनेत्यत्रोभयविधित्वे तेनैव यागस्तस्य फलसम्बन्धश्चबोधनीय इति सुदृढोवाक्य भेदस्तद्वरं सोमपदे मत्वर्थ-लक्षणया विशिष्टविधानम्” । अधिकं विधिशब्दे वक्ष्यते ।उभयविधाने अन्यदुदाहरणं तत्त्ववोथिन्यां दर्शितं यथा“प्रथमस्य चतुर्थे “वाजपेयेन स्वाराज्यकामोयजे-तेति” तत्र वाजपेयशब्देन वाजमन्नं पेयं सुरादीति ।तत्र तत्तद्यागमनूद्य वाजपेयद्रव्यरूपोगुणो विधीयते, किंवा वाजपेयनामा यागविशेषोऽनेन विधीयत इति संशयःतत्र विशिष्टयागान्तरकल्पने गौरवादन्नसुरात्मकं द्रव्यद्वयंगुणो विधीयते नच गुणविधित्वे वाजपेयकरणकयागेन स्वाराज्यं कुर्य्यादिति यागे वाजपेयकर-णत्वेन वाजपेयसाध्यत्वस्त्राराज्यसाधनत्वयोर्विरुद्धयोरेकज्ञानविषयत्वानभ्युपगमात् वाजपेयगुणवता यागेनस्वाराज्यं भावयेदिति मत्वर्थलक्षणा प्रसज्येतेतिवाच्यंसकृदुच्चरितस्य यजेतेत्यस्य तन्त्रेणोभयत्रान्वयाङ्गीकारात्बाजपेयेन द्रव्येण स्वाराज्याय यागं कुर्य्यादित्यर्थलाभान्नमत्वर्थलक्षणा । तथाच सूत्रं “नामधेये गुणाश्रुतेः स्याद्वि-धानमिति चेदिति” (जैमि० १ । ४ । ८ ।) प्राप्ते ब्रूमः यजेःफले द्रव्ये च उभयत्र सम्बन्धाङ्गीकारे विरुद्धं त्रिकद्वयमापद्येत । तथा हि उपादेयत्वं गुणत्वं विधेयत्व-ञ्चेत्येकं त्रिकम् उद्देश्यत्वमनुवाद्यत्वं मुख्यत्वञ्चेत्यपरंत्रिकं तत्रोद्देश्यत्वादयस्त्रयः स्वाराज्यफलनिष्ठा धर्माः ।उपादेयत्वादयस्त्रयः साधनीमूतयागनिष्ठा धर्माःफलमुद्दिश्य यागस्योपादानात् फलमनूद्य यागस्य विधा-नात् फलस्य च साध्यतया मुख्यत्वात् यागस्य साधन-त्वेनोपसर्ज्जनत्वात् तदेव च गुणत्वम् । अत्र चोपादेय-त्वोद्देश्यत्वयोः, गुणत्वमुख्यत्वयोरनुवाद्यत्वविधेयत्वयोर्वि-रोध इति त्रिकद्वयं विरुद्धम् । तथाचैकेनैकदा तादृशविरुद्धोभययोर्वोधकत्वं नाङ्गीक्रियत इति भावः । अथमा भूत्तन्त्रेण सम्बन्धः यजेतेनुषङ्गेण पृथक् फले द्रव्ये-चान्वयः स्वीक्रियतामिति चेन्न अनुषङ्गकल्पने वाजपेयद्रव्येण यजेत यागं कुर्य्यात् स्वाराज्याय यजेत यागेनस्वाराज्यं भावयेदिति वाक्यभेदापत्तेः तस्माद्वाजपेयशब्दो न द्रव्यवाचकः अपि तु यागनामधेयमिति । इत्थ-ञ्चानुषङ्गकल्पने वाक्यभेदरूपगौरवं दोष इत्यनुषङ्गा-धिकरणसिद्धान्तः । यत्र चानुषङ्गकल्पने विशेषप्रमाण-मस्ति तत्र प्रामाणिकत्वात् तत्कल्पने गौरवं न दोषायेतिध्येयम्” ।उभयत्र च द्रव्यमात्रगुणविधाननिराकरणम् प्रयो-जनम् । क्वचित्तु गुणमात्रविधानं जै० १ । ४ । ९ सूत्र-भाष्ययोर्दर्शितं यथा“तद्गुणास्तु विधीयेरन्नविभागाद्विधानार्थे न चेदन्येनशिष्टाः” ९ सू० । “यथा “आग्नेयोऽष्टाकपालोऽमावास्यायांपौर्णमास्यां चाच्युतो भवति” इत्येवमादयः श्रूयन्तेतत्र सन्देहः, किम् ‘आग्नेयोऽग्नीषोमीयः’ इत्येवमादयोगुणविधयः, कर्मनामधेयानि वा? इति । किं तावत्प्राप्तम्? गुणविधी सत्यनेको गुणो विधीयेत, अग्नि-पुरोडाशाष्टाकपालाः इति, तस्मान्न गुणविधयः इत्येवंप्राप्ते ब्रूमः, तच्च कर्म, गुणाश्चास्य विधीयेरन्, अवि-भक्ता हि ते कर्मणो विधानार्थे तद्धितान्ते शब्दे, तत्रहि अष्टाकपालस्याग्नेयता विधीयते, स एष एव-माग्नेयो भवति, यद्यग्नये संकल्प्य दीयते, तेनायम्अनेन प्रकारेण यागो विहिती भवति, स एवं विधीय-मानो न शक्यते सम्बन्धिनावविधाय विहित इतिवक्तुम् । तस्मात् गुणविधयः, अष्टसु कपालेषु संस्क्रिय-माणो व्रीहिमयो वा पुरोडाश एव भवति, सोऽनुवादःसिद्धश्चात्राष्टाकपाल उच्यते, ‘कपालेषु श्रपयति’ इतिवचनात् नान्येन श्रपितं गृह्णन्ति, तेनास्मिन्पक्षेवाक्यभेदो भवति, ‘न चेदन्येन शिष्टाः’ यत्र पुनरन्येवचनेन शिष्टा गुणा भवन्ति तत्र नामधेयं, यथ‘अग्निहोत्रं जुहोति ।’
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
