| YouTube Channel

गीतं (gItaM)

 
Hindi
Hindi
वर्णित
शब्दकल्पद्रुमः
Sanskrit
गीतं,
क्ली,
(गीयते इति गै गाने + भावे क्तः ।)गानम् इत्यमरः २५
तस्य लक्षणंयथा, “धातुमातुसमायुक्तं गीतमित्युच्यते बुधैः ।तत्र नादात्मको धातुर्मातुरक्षरसञ्चयः
*
तद्द्विविधं यथा, --“गीतञ्च द्विविधं प्रोक्तं यन्त्रगात्रविभागतः ।यन्त्रं स्याद्वेणुवीणादि गात्रन्तु मुखजं मतम्
”अपि ।“निबद्धमनिबद्धञ्च गीतं द्विविधमुच्यते ।अनिबद्धं भवेद्गीतं वर्णादिनियमं विना
यद्बा गमकधातुज्ञैरनिबद्धं विना कृतम् ।निबद्धञ्च भवेद्गीतं तालमानरसाञ्चितम्
छन्दो गमकधातुज्ञैर्वर्णादिनियमैः कृतम्
ऋग्भिः पाठ्यमभूद्गीतं सामभ्यः समपद्यत ।यजुर्भ्योऽभिनया जाता रसाश्चाथर्व्वणः स्मृता
”अथ संगीतलक्षणम् ।“तालवाद्यानुगं गीतं नटीभिर्यत्र गीयते ।नृत्यस्यानुगतं रङ्गे तत् सङ्गीतकमुच्यते
*
अथ गीतप्रशंसा ।“सङ्गीतकेन रम्येण सुखं यस्य चेतसि ।मनुष्यवृषभो लोके विधिनैव वञ्चितः
संसारदुःखदग्धानामुत्तमानामनुग्रहात् ।प्रभुणा शङ्करेणात्र गीतवाद्यं प्रकाशितम्
गीतं वाद्यं तथा नृत्यं तौर्य्यत्रिकमिदं मतम् ।तूर्य्यशब्दो मृदङ्गे स्यात् मुरजेऽपि दृश्यते
गीतज्ञो यदि गीतेन नाप्नोति परमं पदम् ।रुद्रस्यानुचरो भूत्वा तेनैव सह मोदते
गीतेन हरिणा रङ्गं प्राप्नुवन्त्यपि पक्षिणः ।वनादायान्ति फणिनः शिशवो रुदन्ति
कृतिचमत्कृतये किमतः परंफणिवरोऽश्वतरो वत पञ्चमः ।अपि मृतां यदवाप मदालसांमधुरगीतवशीकृतशङ्करः
परमानन्दविवर्द्धनमभिमतफलं वशीकरणम् ।सकलजनचित्तहरणं विमुक्तिबीजं परं गीतम्
गीतं पीनपयोधरा समदना नारी विचित्रा कथारम्यं हर्म्म्यतलं सुधांशुकिरणप्रोद्दीपिता यामिनी ।चित्तज्ञाः सुहृदः सुताः सुमनसो भक्ताः पुनःसेवकाःशुद्धं गीतफलं कवित्वमतुलं संसारसारा मताः
”“शुद्धशालगसङ्कीर्णभेदाद्गीतं त्रिधा मतम् ।”शुद्धसूत्रं विंशतिर्यथा, --“एला सोऽद्यभवा सपाढकरणं तत्पञ्चतालेश्वरःकैरातस्मरचक्रपालविजया गद्यं त्रिभङ्गिस्तथा ।ढेङ्कीवर्णसरः पुटौ द्विपदिका मुक्तावली माहकालम्बो दण्डकवर्त्तनीति कथिताः शुद्धास्तु तेविंशतिः
”एलादीनामेतेषां विंशतिसंख्यकानां प्रबन्धगीता ।नामङ्गानि षट् भवन्ति तथा ।“पदं तानो विरूदश्च तालः पाढः स्वरस्तथा ।एलादीनां षडङ्गानि कथितानि विरिञ्चिना
पौनरुक्त्यं देशीये गीते दोषोऽभिजायते ।शीघ्रोच्चारेण वर्णानां तथा चैव प्रसारणे
लिङ्गान्यत्वे विसन्धौ संयुक्ताक्षरमोक्षणे ।परिवर्त्तेऽक्षराणाञ्च ह्रस्वदीर्घव्यतिक्रमे
*
अथ शालगसूत्रम् ।“ध्रुवको मण्डकश्चैव प्रतिमण्डो निसारुकः ।वासकः प्रतिलाभश्च तथान्या चैकतालिका
यतिश्च झुमरिश्चेति शालगं सूत्रमीरितम्
*
अथ सङ्कीर्णसूत्रम् ।चैत्रोमङ्गत्मकस्तथा गणिका चर्च्चातिनाटोन्नवीदोहा स्याद्बहुलस्तथा गुरुबलो गीता चगोविस्तथा ।हेम्नोकोऽप्यथ कारिका त्रिपदिकेत्येतानि काम-द्बिषासंक्षेपेण चतुर्द्दशः प्रकटितान्यत्राधमानि क्रमात्
इति सङ्गीतदामोदरः
(सङ्गीतस्यान्यद्विवरणं गानशब्दे द्रष्टव्यम्
*
गीयते स्म इति गै शब्दे + कर्म्मणि क्तः ।)शब्दिते त्रि इति मेदिनी ते १६