| YouTube Channel

गालोडितः (gAloDitaH)

 
शब्दकल्पद्रुमः
Sanskrit
गालोडितः, त्रि, (गालोडः उन्मादरोगः सञ्जातो-ऽस्य इतच् ।) उन्मत्तः रुग्नः मूर्खः यथा, “उन्मादशीले रोगार्त्ते मूर्खे गालोडितः स्मृतः
”इति दुर्गसिंहकृतकलापवृत्तिटीकायां त्रिलोचनदासः
गोलोहितोऽपि पाठः