| YouTube Channel

गानं (gAnaM)

 
Apte 1890
English
गानं [गै भावे ल्युट्] 1 Singing, a song.
2 A sound.
3 Going.
4 Praise.
शब्दकल्पद्रुमः
Sanskrit
गानं,
क्ली,
(गीयते इति गै + भावे ल्युट् ।)गीतम् इत्यमरः २५
(यदुक्तम्, --“जपकोटिगुणं ध्यानं ध्यानकोटिगुणो लयः ।लयकोटिगुणं गानं गानात् परतरं हि
”)तत्पर्य्यायः गेयम् गीतिः गान्धर्व्वम् ।इति हेमचन्द्रः १९४
(गानं हि वैदिक-लौकिकभेदात् द्विविधम् तत्र वैदिकगानन्तुमुक्तिप्रदं अन्यत् लोकरञ्जनकरम् वैदिक-लौकिकयोर्मार्गदेशीति नामान्तरमपि श्रूयते ।गानन्तु सामवेदादेव उत्पन्नं यदुक्तं सङ्गीतं-दर्पणटीकायाम् ।“ऋग्भिः पाठ्यममूद्गीतं सामभ्यः समपद्यत ।यजुर्भ्योऽभिनया जाता रसाश्चाथर्व्वणः स्मृताः
”द्विविघसङ्गीतयोर्लक्षणमाह सङ्गीतदर्पणे ३-६ ।“मार्गदेशीविभागेन सङ्गीतं द्विविधं मतम् ।द्रुहिणेन यदन्विष्टं प्रयुक्तं भरतेन ।महादेवस्य पुरतस्तन्मार्गाख्यं विमुक्तिदम्
तत्तद्देशस्थया रीत्या यत् स्याल्लोकानुरञ्जनम् ।देशे देशे तु सङ्गीतं तद्देशीत्यभिधीयते
गीतवादित्रनृत्यानां रक्तिः साधारणो गुणः ।अतो रक्तिविहीनं यत् तत् सङ्गीतमुच्यते
”गानन्तु नादात्मकमेव नादस्तु यदा स्वयं राजतेतदा स्वर इति प्रसिद्धः स्यात् स्वरस्तु षड्ज-ऋषभ-गान्धार-मध्यम-पञ्चम-धैवत-निषादभेदात्सप्तविधः एतेषां विज्ञापनार्थं एतदाश्रयीभूत-द्वाविंशतिश्रुतीनां नामानि स्वरस्थितिश्च कथ्यन्ते ।यथा, सङ्गीतदर्पणे ५३--५६ ।“तीव्राकुमुद्वतीमन्दाछन्दोवत्यस्तु षड्जगाः ।दयावती रञ्जनी रतिका चर्षभे स्थिता
रौद्री क्रोधा गान्धारे वज्रिकाथ प्रसारिणी ।प्रीतिश्च मार्ज्जनीत्येताः श्रुतयो मध्यमाश्रिताः
क्षिती रक्ता सन्दीपन्यालापिन्यपि पञ्चमे ।मदन्ती रोहिणी रम्येत्येता धैवतसंश्रयाः
उग्रा क्षोभिणीति द्वे निषादे वसतः श्रुती
”अन्यत् विशेषविवरणन्तु तत्तच्छब्दे द्रष्टव्यम्
*
गाने तु रागा रागिण्यश्च प्रयोक्तव्याः अतस्तेषांनामानि कथ्यन्ते यथा, सङ्गीतदर्पणे स्वरा-ध्याये १२--१९ ।पार्व्वत्युवाच ।“के रागाः काश्च रागिण्यः का वेला ऋतवश्च के ।किं रूपं कथमुद्धारो वद देव ! प्रसादतः
”ईश्वर उवाच ।“श्रीरागोऽथ वसन्तश्च भैरवः पञ्चमस्तथा ।मेघरागो बृहन्नाटः षडेते पुरुषाह्वयाः
”इति षट् रागाः
अथ रागिण्यः ।“मालश्री त्रिवणी गौरी केदारी मधुमाधवी ।ततः पाहाडिका ज्ञेया श्रीरागस्य वराङ्गनाः
देशी देवगिरी चैव वराटी तोडिका तथा ।ललिता चाथ हिन्दोली वसन्तस्य वराङ्गनाः
भैरवी गुर्ज्जरी रामकिरी गुणकिरी तथा ।वाङ्गाली सैन्धवी चैव भैरवस्य वराङ्गनाः
विभाषा चाथ भूपाली कर्णाटी वडहंसिका ।मालवी पटमञ्जर्य्या सहैताः पञ्चमाङ्गनाः
मल्लारी सौरटी चैव सावेरी कौशिकी तथा ।गान्धारी हरशृङ्गारा मेघरागस्य योषितः
कामोदी चैव कल्याणी आभिरी नाटिका तथा ।सारङ्गी नट्टहम्बीरा नट्टनारायणाङ्गनाः
”इति षट्त्रिंशत् रागिण्यः
रागरागिणीनां विशेषविवरणन्तु तत्तच्छब्देगानस्य अन्यद्विवरणं गीतशब्दे दर्शनीयम्
)ध्वनिः इति धरणी