| YouTube Channel

गहनः (gahanaH)

 
शब्दकल्पद्रुमः
Sanskrit
गहनः, त्रि, (गाह्यते दुःखेन गम्यते इति गाह् +युच् कृच्छ्रगहनयोरिति निर्द्देशांत् वा ह्रस्वः ।)दुर्गमः दुष्प्रवेशः तत्पर्य्यायः कलिलः ।इत्यमरः
(यथा, रामायणे ।१ २३ ।“गहनेष्वाश्रमान्तेषु लीलाविकृतदर्शनाः ।रमन्ते तापसांस्तत्र त्रासयन्तः सुदारुणाः
”)