| YouTube Channel

गव्यं (gavyaM)

 
शब्दकल्पद्रुमः
Sanskrit
गव्यं, त्रि, (गोरिदं गोर्विकारो वा “गोपयसो-र्यत् ।” १६० इति यत् “वान्तो यिप्रत्यये ।” ७९ इति अव् ।) गवां सर्व्वम् ।गोसम्बन्धि तत्तु दुग्धगोमयादि इत्यमरः ।२ ५०
(यथा, मनुः ७१ ।“संवत्सरन्तु गव्येन पयसा पायसेन
”)गोहितम् इति मेदिनी ये १७
गव्यं,
क्ली,
(गवि बाणे साधु गो + यत ।ततोऽव् ।) ज्या (गवि नेत्रे साधु इति ।)रागद्रव्यम् इति मेदिनी ये १७