| YouTube Channel

गलगण्ड (galagaNDa)

 
शब्दसागरः
English
गलगण्ड
m.
(-ण्डः) Inflammation, enlargement of the glands of the neck.
E.
गल throat and गण्ड a swelling or boil.
Yates
English
गल-गण्ड (ण्डः) 1.
m.
Inflammation,
enlargement of the glands of
the neck, a swelled neck.
Wilson
English
गलगण्ड
m.
(-ण्डः) Inflammation, enlargement of the glands of the
neck.
E.
गल the throat, and गण्ड a swelling or boil.
Monier Williams Cologne
English
गल—गण्ड in comp. neck and cheek,
MBh.
ii, 902
गल—गण्ड
m.
goitre,
Suśr.
i ff.
Dhūrtas.
ii, 11
=
गण्ड-माला,
L.
Apte Hindi
Hindi
गलगण्डः
पुं*
गल-गण्डः -
"गंडमाला, गले का एक रोग जिसमें गांठ सी निकल जाती है"
Shabdartha Kaustubha
Kannada
गलगण्ड
पदविभागः - > पुल्लिङ्गः
कन्नडार्थः - > ಹೆಕ್ಕತ್ತು ಮತ್ತು ತಲೆಗಳ ಮಧ್ಯೆ ಏಳುವ ಮಾಂಸಗ್ರಂಥಿ /ಗಂಡಮಾಲೆಯೆಂಬ ಒಂದು ರೋಗ
L R Vaidya
English
gala-gaMqa {% m. %} goitre.
अभिधानचिन्तामणिः
Sanskrit
--source--
गलगण्डे गण्डमालः रोहिणी तु गलाङ्कुरः ४६७
-wordlist-
गलगण्ड (क्ली), गण्डमाल (पुं), रोहिणी (स्त्री), गलाङ्कुर (पुं)
शब्दकल्पद्रुमः
Sanskrit
गलगण्डः,
पुं,
(गले गण्डः स्फोटक इव ।) गल-रोगविशेषः गरगण्ड इति भाषा
अथ गल-गण्डाधिकारः तत्र गलगण्डस्य सामान्यंलिङ्गमाह ।“निबद्धः श्वयथुर्यस्य मुष्कवल्लम्बते गले ।महान् वा यदि वा ह्रस्वो गलगण्डं तमादिशेत्
”निबद्धो दृढः अचलो वा मुष्कवत् अण्डवत् गलइति हनुमन्ययोरुपलक्षणम् तथा भोजः ।“महान्तं शोथमल्पं वा हनुमन्या गलाश्रयम् ।मुष्कवल्लम्बमानं तु गलगण्डं विनिर्द्दिशेत्
*
संप्राप्तिमाह ।“वातः कफश्चापि गले प्रदुष्टोमध्ये तु संसृत्य तथैव मेदः ।कुर्व्वन्ति गण्डं क्रमशः स्वलिङ्गैःसमन्वितं तं गलगण्डमाहुः
”क्रमशः शनैः शनैः
स्वलिङ्गैः वातकफमेदो-लक्षणैः
*
वातिकमाह ।“तोदान्वितः कृष्णशिरावनद्धःश्यावारुणो वा पवनात्मकस्तु ।पारुष्ययुक्तश्चिरवृद्ध्यपाकोयदृच्छया पाकमियात् कदाचित्
वैरस्यमास्यस्य तस्य जन्तो-र्भवेत्तथा तालुगलप्रशोषः ।”चिरवृद्ध्यपाकः चिरेण वृद्धिरपाकश्च यस्य सः
श्लैष्मिकमाह ।“स्थिरः सवर्णो गुरुरुग्रकण्डुःशीतो महांश्चापि कफात्मकस्तु ।चिराच्च वृद्धिं भजतेऽचिराद्वाप्रपच्यते मन्दरुजः कदाचित्
माधुर्य्यमास्यस्य तस्य जन्तो-र्भवेत्तथा तालुगलप्रलेपः ।”कदाचित् प्रपच्यते वा पाकोऽपि चिराद्गवति
प्रलेपः श्लेष्मणा
*
मेदोजमाह ।“स्निग्धो मृदुः पाण्डुरनिष्टगन्धोमेदोऽन्वितः कण्डुयुतो रुजश्च ।प्रलम्बतेऽलावुवदल्पमूलोदेहानुरूपक्षयवृद्धियुक्तः
स्निग्धास्यता तस्य भवेच्च जन्तो-र्गलेन शब्दं कुरुते नित्यम् ।”देहक्षये कार्श्ये क्षयं देहवृद्धौ वृद्धिं यातीत्यर्थः
*
असाध्यमाह ।“कृच्छ्राच्छसन्तं मृदुसर्व्वगात्रंसंवतसरातीतमरोचकार्त्तम् ।क्षीणञ्च वैद्यो गलगण्डयुक्तंभिन्नस्वरं नैव नरं चिकित्सेत्
*
अथ गलगण्डचिकित्सा ।“सर्षपान् शिग्रुबीजानि शणबीजातसीयवान् ।मूलकस्य बीजानि तक्रेणाम्लेन पेषयेत्
गलगण्डो गण्डमाला ग्रन्थयश्चैव दारुणाः ।प्रलेपादस्य नश्यन्ति विलयं यान्ति सत्वरम्
रक्षोघ्नतैलयुक्तेन जलकुम्भीकभस्मना ।लेपनं गलगण्डस्य चिरोत्थस्यापि नाशनम्
रक्षोघ्नः सर्षपः
श्वेतापराजितामूलं प्रातः पिष्ट्वा पिबेन्नरः ।सर्पिषा नियताहारो गलगण्डप्रशान्तये
तिक्तालावुफले पक्वे सप्ताहमुषितं जलम् ।सद्यः स्याद्गलगण्डघ्नं पानात् पथ्यानुसेविनाम्
तैलं पिबेच्चामृतवल्लिविम्बाहिंस्राह्वयावृक्षकपिप्पलीभिः ।सिद्धं बलाभ्यां सह देवदारुहिताय नित्यं गलगण्डरोगी
वृक्षकोऽत्र तुणिः उक्तञ्च निघण्टौ धन्वन्तरिणा ।‘तुणिस्तुणी कपीतस्तु नन्दिवृक्षोऽथ वृत्त्रकः ।’बलाभ्यां बलातिबलाभ्यांम् अमृतादितैलम्
यवमुद्गपटोलादिकटुरूक्षान्नभोजनम् ।वमनं रक्तमोक्षञ्च गलगण्डे प्रयोजयेत्
दापयेद्गलगण्डे तु प्रच्छन्नानि बहूनि ।गण्डगोपालिकां पिष्ट्वा तत्र लेपं प्रकल्पयेत्
अवश्यं नश्यति क्षिप्रं गलगण्डो गदोऽमुना ।प्रलेपस्त्वनुभूतोऽयं बहुधा बहुभिर्ज्जनैः
प्रच्छन्नानि पछना इति लोके गण्डगोपालिकागण्डगुया इति लोके प्रसिद्ध आम्रवाटिकायांसुलभः कीटविशेषः
लवणं जलकुम्भ्यास्तु कणाचूर्णेन संयुतम् ।प्रभाते नित्यमश्नीयात् गलगण्डप्रशान्तये
इति भावप्रकाशः
वाचस्पत्यम्
Sanskrit
गलगण्ड
पु०
त० (गरगण्ड) रोगभेदे तल्लक्षणादि यथा“निवद्धः श्वयथुर्यस्य मुष्कवल्लम्बते गले महान्वा यदि वा ह्रस्वो गलगण्डं तमादिशेत् निबद्धो दृढःअचलो वा मुष्कवत् अण्डवत् गले इति हनुम-न्ययोरुपलक्षणम् तथा भोजः “महान्तं शोथ-मल्पं वा हनुमन्यागलाश्रयम् मुष्कवल्लम्बमानं तुगलगण्ड विनिर्दिशेत्” संप्राप्तिमाह वातः कफ-श्चापि गले प्रदुष्टो मध्ये तु संसृत्य तथैव मेदः कुर्वन्तिगण्डं क्रमशः स्वलिङ्गैः समन्वितं तं गलगण्डमाहुः ।क्रमशः शनैः शनैः स्वलिङ्गैः वातकफमेदालक्षणैः ।तत्र वातिकमाह तोदान्वितः कृष्णासरावनद्धः श्यावा-रुणो वा पवनात्मकस्तु पारुष्ययुक्तश्चिरवृद्ध्यपाकोयदृच्छया पाकमियात् कदाचित् वैरस्यमास्यस्यच तस्य जन्तोर्भवेत्तथा तालुगलप्रशोषः चिरवृद्ध्य-पाकः चिरेण वृद्धिरपाकश्च यस्य सः श्लैष्मिकमाहस्थिरः सवर्णो गुरुरुग्रकण्डुः शीतो महांश्चापि क-फात्मकस्तु चिराच्च वृद्धिं भजतेऽचिराद्वा प्रपच्यतेमन्दरुजः कदाचित् माधुर्य्यमास्यस्य तस्य जन्तो-र्भवेत्तथा तालुगले प्रलेपः कदाचित् प्रपच्यते वापाकोऽपि चिराद्भवति प्रलेषः श्लेष्मणा मेदोजमाह स्निग्धो मृदुः पाण्डुरनिष्टगन्धे मेदोऽन्धितःकण्डुयुतोऽरुजश्च प्रलम्बतेऽलाबुवदल्पमूलो देहानुरूपक्षयवृद्धियुक्तः स्निग्धास्यता तस्य भवेच्च जन्तोर्गलेन शब्दं कुरुते नित्यम् देहक्षये काश्ये क्षयं, देहवृद्धौ वृद्धिं यातीत्वर्थः असाध्यमाह “कृच्छ्रा-च्छ्र्वसन्तं सृदुसर्वगात्रं संवत्सरातीतमरोचकात्तेम् ।क्षीणञ्च वैद्यो गलगण्डयुक्ते भिन्नस्वरं नैव नर चिकि-त्सेत्” भावप्र० “यवमुद्गषटोलानि कटुरूक्षञ्च भोज-नम् छर्द्दिं सरक्तमोर्क्षा गलगण्डे प्रयोजयेत्”चक्रद०