| YouTube Channel

गर्भस्राव (garbhasrAva)

 
शब्दसागरः
English
गर्भस्राव
m.
(-वः) Abortion, miscarriage.
E.
गर्भ the embryo, and स्राव
expulsion.
Capeller Eng
English
गर्भस्राव
m.
abortion, miscarriage.
Yates
English
गर्भ-स्राव (वः) 1.
m.
Abortion.
Spoken Sanskrit
English
गर्भस्राव garbhasrAva
m.
miscarriage
Wilson
English
गर्भस्राव
m.
(-वः) Abortion, miscarriage.
E.
गर्भ the embryo, and स्राव expulsion.
Monier Williams Cologne
English
गर्भ—स्राव
m.
=
-संस्रवण,
Mn.
v, 66
Yājñ.
iii, 20
AgP.
&c.
Apte Hindi
Hindi
गर्भस्रावः
पुं*
गर्भ-स्रावः -
"गर्भ गिर जाना, गर्भ का कच्ची अवस्था में बह जाना"
Shabdartha Kaustubha
Kannada
गर्भस्राव
पदविभागः - > पुल्लिङ्गः
कन्नडार्थः - > ರೋಗಾದಿಗಳಿಂದ ಪ್ರಸವಕಾಲಕ್ಕಿಂತ ಮುಂಚೆ ಗರ್ಭವು ತನ್ನ ಜಾಗದಿಂದ ಕಳಚಿ ಬೀಳುವುದು
व्युत्पत्तिः - > गर्भस्य स्रावः
L R Vaidya
English
garBa-srAva {% m. %} an abortion, mis-carriage, Yaj.iii.2, M.v.66.
शब्दकल्पद्रुमः
Sanskrit
गर्भस्रावः,
पुं,
(गर्भस्य स्रावश्च्युतिः पात इत्यर्थः ।)गर्भपातः त्ततुर्थमासपर्य्यन्तं शोणितरूप-गर्भस्य स्रवणम् पेटखसा इति भाषा
तस्या-शौचं यथा, --“यदि गर्भो विपद्येत स्रवते वापि योषितः ।यावन्मासान् स्थितो गर्भस्तावद्दिनानि सूतकम्
”इति गारुडे १०७ अध्यायः
“रात्रिभिर्मासतुल्याभिर्गर्भस्रावे विशुध्यति ।”इति मनुः ६६
*
“अर्व्वाक् षण्मासतः स्त्रीणां यदि स्यात् गर्भ-संस्रवः ।तदा माससमैस्तासामशौचं दिवसैः स्मृतम्
अत ऊर्द्ध्वन्तु पतने स्त्रीणां स्याद्दशरात्रकम् ।सद्यःशौचं सपिण्डानां गर्भस्रावाच्च वा ततः
”इति कूर्म्मपूराणम्
*
(“अन्तराजन्ममरणे शेषाहोभिर्विशुध्यति ।गर्भस्रावे मासतुल्या निशाः शुद्धेस्तु कारणम्
”इति याज्ञकल्क्यः २०
)अन्यत् अशौचशब्दे द्रष्टव्यम्
*
*
अथ गर्भस्रावनिदानलक्षणे ।“भयाभिघाततीक्ष्णोष्णपानाशननिषेवणात् ।गर्भे पतति रक्तस्य सशूलं दर्शनं भवेत्
चतुर्थात् ततो मासात् प्रस्रवेद्गर्भविद्रवः ।ततः स्थिरशरीरस्य पातः पञ्चमषष्ठयोः
गर्भोऽभि वातविषमाशनपीडनाद्यैःपक्वं द्रुमादिव फलं पतति क्षणेन ।मूढः करोति पवनः खलु मूढगर्भंशूलञ्च योनिजठरादिषु मूत्रसङ्गम्
”इति माधवकरः
अथ गर्भस्रावपातयोर्न्निदानमाह ।“ग्राम्यधर्म्माध्वगमनयानस्खलनपीडनैः ।ज्वरोपवासोत्पतनप्रहाराजीर्णधावनैः
वमनाच्च विरेकाच्च कुन्थनाद्गर्भपातनात् ।तीक्ष्णधारोष्णकटुकतिक्तरूक्षनिषेवणात्
वेगाभिघाताद्विषमादासनाच्छयनाद्भयात् ।गर्भे पतति रक्तस्य सशूलं दर्शनं भवेत्
”गर्भपातनात् नियमेन गर्भपातनशीलं द्रव्यंतस्मात्
गर्भस्य स्रावपातयोः पूर्व्वरूपमाह ।गर्भेपततीत्यादि पतति स्रावेण पातेन वापतिष्यति
*
स्रावपातयोरवधिमाह ।आ चतुर्थात्ततो मासात् प्रस्रवेद्गर्भविद्रवः ।ततः स्थिरशरीरस्य पातः पञ्चमषष्ठयोः
चतुर्थात् मासात् चतुर्थमासपर्य्यन्तम् ।गर्भस्य विद्रवः शोणितरूपः गर्भः स्रवतिशोणितमिति भोजवचनात् स्थिरशरीरस्यकठिनशरीरस्य गर्भस्य गर्भपातस्य दृष्टान्तंदर्शयति ।गर्भोऽमिघातविषमासनपीडनाद्यैःपक्वं द्रुमादिव फलं पतति क्षणेन ।यंथा वृन्तलग्नं पक्वं फलं अभिघातेनाकालएव पतति तथा गर्भोऽप्यभिघातादिनाऽकालेऽपिपतति
*
अथ गर्भस्रावस्य चिकित्सा ।गुर्व्विण्या गर्भतो रक्तं स्रवेद्यदि मुहुर्मुहुः ।तन्निरोधाय सुस्निग्धमुत्पलादि शृतं पिबेत्
उत्पलादिगणमाह ।उत्पलं नीलमारक्तं कह्लारं कुमुदं तथा ।श्वेताम्भोजञ्च मधुकमुत्पलादिरयं गणः
संशीलितो हरत्येव दाहं तृष्णां हृदामयम् ।रक्तपित्तञ्च मूर्च्छाञ्च तथा छर्दिमरोचकम्
*
अथ गर्भपातस्योपद्रवानाह ।प्रस्रंसमाने गर्भे स्याद्दाहं शूलञ्च पार्श्वयोः ।पृष्ठरुक् प्रदरानाहौ मूत्रसङ्गश्च जायते
प्रस्रंसमाने पतति
*
अथ गर्भस्य स्थाना-न्तरगमने चोपद्रवानाह ।स्थानात् स्थानान्तरं तस्मिन् प्रयात्यपि जायते ।आमपक्वाशयादौ तु क्षोभः पूर्व्वेऽप्युपद्रवाः
पूर्व्वेऽप्युपद्रवाः पार्श्वे शूलादयः
*
तच्चिकित्सामाह ।स्निग्धाः शीताः क्रियास्तेषु दाहादिषु समाचरेत् ।कुशकाशोरुवूकाणां मूलैर्गोक्षुरकस्य
शृतं दुग्धं सितायुक्तं गर्भिण्याः शूलहृत् परम् ।श्वदंष्ट्रामधुकक्षुद्राम्लानैः सिद्धं पयः पिबेत्
शर्करामधुसंयुक्तं गुर्व्विणीवेदनापहम् ।अम्लानः पुष्पजातिः अयं वाणपुष्पं इतिगौडादौ प्रसिद्धः ।” इति भावप्रकाशः
वाचस्पत्यम्
Sanskrit
गर्भस्राव
पु०
स्रु--घञ् त० प्रसूतिकालात् पूर्वं रोगा-दिना गर्भस्य पतने गर्भच्युतिशब्दे विवृतिः तत्राशौ-चनिर्णयः “रात्रिभिर्मासतुल्याभिर्गर्भस्रावे विशुध्यति”मनुः कूर्मपुराणम् “अर्वाक् षण्मासतः स्त्रीणां यदिस्यात् गर्भसंस्रवः तदा माससमैस्तासां दिवसैः शुद्धि-रिष्यते अत ऊर्द्धन्तु पतने स्त्रीणां स्याद्दशरात्रकम् ।सद्यःशौचं सपिण्डानां गर्भस्रावाच्च वा ततः गर्भ-च्युतावहोरात्रं सपिण्डेऽत्यन्तनिर्गुणे यथेष्टाचरणेज्ञातौ त्रिरात्रमिति निश्चयः” दशरात्रकमिति स्वस्व-जात्युक्ताशौचकालपरम् तथा चादित्यपुराणम्“षण्मासाभ्यन्तरं यावत् गर्भ स्रावो भवेद् यदि तदामाससमैस्तासां दिवसैः शुद्धिरिष्यते अत ऊर्द्धं स्व-जात्युक्तमशौचं तासु विद्यते” गर्भस्रावाच्च वा ततइति तच्छब्देन सन्निधानादत ऊर्द्धमित्युक्तषण्मासोत्तर-कालः परामृश्यते षण्मासोपरि सगुणानां सद्यः, निर्गुणानामेकाहः, अत्यन्तनिर्गुणयथेष्टाचरणज्ञातीनांत्रिरात्रम्” शु० त० अशौचव्यवस्था अशौचशब्दे ४८६ पृ० उक्ता