गर्भपोषण (garbhapoSaNa)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
Spoken Sanskrit
English गर्भपोषण garbhapoSaNa nourishing a foetus
गर्भपोषण garbhapoSaNa gestation
Help us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
Apte Hindi
Hindiगर्भपोषणम्
गर्भ-पोषणम् -
गर्भस्थ बालक का पालन-पोषण
Shabdartha Kaustubha
Kannadaगर्भपोषण
पदविभागः - > नपुंसकलिङ्गः
कन्नडार्थः - > ಗರ್ಭವನ್ನು ಪೋಷಿಸುವುದು /ಗರ್ಭವು ಬೆಳೆಯಲು ಮಾಡುವ ಉಪಚಾರ
व्युत्पत्तिः - > गर्भस्य पोषणम्
वाचस्पत्यम्
Sanskritगर्भपोषण ६ त० । गर्भस्य पुष्टिसम्पादके विधौ स च सुश्रुते द-र्शितः यथा “गर्भिणी प्रथमदिवसात् प्रभृति नित्यं प्रहृष्टाशुच्यलङ्कृता शुक्लवसना शान्तिमङ्गलदेवताव्राह्मणगुरु-परा च भवेन्मलिनविकृतहीनगात्राणि न स्पृशेद्दुर्गन्ध-दुर्दर्शनानि परिहरेदुद्वेजनीयाश्च कथाः, शुष्कं पर्य्युषितकुथितं क्लिन्नं चान्नं नोपभुञ्जीत बहिर्निष्क्रमण शून्या-गारचैत्यश्मशानवृक्षाश्रयान् क्रोधभयसङ्करांश्च भारा-नुच्चैर्भाष्यादिकं परिहरेद्यानि च गभं व्यापादयन्तिचाभीक्ष्णं तैलाभ्यङ्गोत्सादनादीनि निषेवेत नचायास-येच्छरीरं पूर्वोक्तानि च परिहरेत् । शयनासनं मृद्वा-स्तरणं नात्युच्चमपाश्रयोपेतमसंबाधं विदध्यात् । हृद्यंद्रवं मधुप्रायं स्निग्धं दोपनीयसंस्कृतञ्च भोजनं भोजयेत्सामान्यमेतादा प्रसवात् । विशेषतस्तु गर्भिणी प्रथम-द्वितीयतृतीयमासेषु मधुरशीतद्रवप्रायमाहारमुपसेवेत ।विशेषतस्तु तृतीवे षष्टिकौदनं पयसा भोजयेच्चतुर्थे दध्नापञ्चमे पयसा षष्ठे सर्पिषा चेत्येके । चतुर्थे पयोनवनी-तसंसृष्टमाहारयेज्जाङ्गलमांससहितं हृद्यमन्नं भोज-येत् । पञ्चमे क्षीरसर्पिःसंसृष्टं षष्ठे श्वदंष्ट्रासिद्धस्यसर्पिषोमात्रां पाययेद्यवागूंवा । सप्तमे सर्पिः पृश्निपर्ण्या-दिसिद्धम् एवमाप्याय्यते गर्भः । अष्टमे वदरोदकेन वला-तिबलाशतपुष्पपललपयोदधिमस्तुतैललवणमदनफलमधु-घृतमिश्रेणाप्याययेत् पुराणपुरीषशुद्ध्यर्थमनुलोमनार्थञ्चवायोः । ततः पयोमधुरकषायसिद्धेन तैलेनानुबासयेद-नुलोमे हि वायौ सुखं प्रसूयते निरुपद्रवा च भवति ।अत ऊर्द्ध्वंस्निग्धाभिर्यवागूभिर्जाङ्गलरसैश्चोपक्रमेदाप्रसव-कालादेवमुपक्रान्ता स्निग्धा बलयती सुखमनुपद्रवा प्रसू-यते” विधानपारि० तत्पोषणविधिर्मन्त्रभेदपूर्वको द-र्शितो विस्तरभयान्नोक्तस्तत्रैवावसेयः ।
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
