| YouTube Channel

गर्ब्भ (garbbha)

 
शब्दसागरः
English
गर्ब्भ
m.
(-र्ब्भः) A fœtus, &c.
see the next.
f.
(-र्ब्भा) Interval of time,
division of time or place.
Yates
English
गर्ब्भ (र्ब्भः) 1.
m.
A foetus
a child
the
womb
the belly
the inside
inner room. र्ब्भा
f.
Interval of
time
division of time or space.
Wilson
English
गर्ब्भ
m.
(-र्ब्भः) A foetus, &c.: see the next.
f.
(-र्ब्भा)
Interval of time, division of time or place.
वाचस्पत्यम्
Sanskrit
गर्भ(र्ब्भ)
पु०
गृ--भन् वा द्वित्वे भस्य बः भ्रूणे देहजन्मकारकेशुक्रशोणितानुबन्धजन्ये मांसपिण्डे, शिशौ, कुक्षौ, नाटकसन्धिभेदे, पनसकण्टके मेदि० अपवरके, हेमच०“भाद्रकृष्णचतुर्दश्यां यावदाप्लवते जलम् तावद् गर्भंविजानीयात्” प्रा० त० उक्ते भाद्रकृष्णचर्दश्यां, गङ्गाज-लाप्लावनस्थाने, अन्ने, अग्नौ, पुत्रे शब्दार्थचि० ।गर्भस्य देहहेतुता कायशब्दे १९०८ पृ० दर्शिता कश्चिदत्रविशेषोऽभिधीयते तत्र भावप०“कामान्मिथुनसंयोगे शुद्धशोणितशुक्रजः गर्भः सञ्जा-यते नार्य्याः जातो वाल उच्यते गर्भः शुद्धोऽशुद्धश्चअशुद्धस्तु गर्भोऽशुद्धशुक्रशोणितयोरपि दम्पत्योर्भवतियत आह “दम्पत्योः कुष्ठबाहुल्यात् दुष्टशोणितशुक्रयोः यदपत्यन्तयोर्जातं ज्ञेयं तदपि कुष्ठितमिति” ।कुष्ठं सञ्जातं यस्य तत् कुष्ठितम्, अत्र तारकादित्वादि-तच् प्रत्ययः यत्तु, “वातादिदुष्टरेतसः प्रजोत्पादने नसमर्थाः” इति सुश्रुतः तत्र शुद्धप्रजोत्पादने नसमर्था इति बोद्धव्यम् रोगादिनाऽशुद्धास्तु वाता-दिदुष्टशुक्रा अपि प्रजा जनयन्ति जन्मान्धवधिरप-ङ्ग्वादिसम्भवात् ऋतौ स्त्रीपुंसयोर्योगे मकरध्वजवगतः ।मेढ्रयोन्यभिसङ्घर्षाच्छरोराष्माऽनिलाहतः पुंसः सर्व-शरीरस्थं रेतो द्रावयतेऽथ तत् वायुर्मेहनमार्गेणपातयत्यङ्गनाभगे तत् संस्रुत्य व्यात्तमुखं याति गर्भा-शयं प्रति तत्र शुक्रवदायातेनार्त्तवेन युतं भवेत् ।गर्भाशयस्य स्वरूपमाह शङ्खनाभ्याकृतिर्योनिस्त्र्या-वर्त्ता सा कीर्त्तिता तस्यास्तृतीये त्वावर्त्ते गर्भशय्या प्रतिष्ठिता यथा रोहितमत्स्यस्य मुखं भवतिरूपतः तत्संस्थानां तथारूपां गर्भशय्यां विदु-र्बुधाः अयमर्थः गर्भशय्याया मुखं रोहितमत्स्यस्येव भवति यथा रोहितमत्स्यस्य स्थितिर्जलेभवति तथा पित्ताशयपक्वाशयमध्ये गर्भशव्यायाःस्थितिर्भवति रूपमपि तस्येव भवति यथा रोहितस्यमुखं स्वल्पमाशयस्तु महानित्यर्थः शुक्रार्त्तवसमा-श्लेषोयदैव खलु जायते जीवस्तदैव विशति युक्तशुक्रार्त्तवान्तरः सूर्य्यांशोः सूर्य्यमणितोऽनुभयस्मा-द्युताद्यथा वह्निः सञ्जायते जीवस्तथा शुक्रार्त्तवाद्यु-तात् आत्माऽनादिरनन्तश्चाऽव्यक्तो वक्तुं शक्यते ।चिदानन्दैकरूपोऽयं मनसापि गम्यते एवं भू-नोऽपि जगतो भाविन्या बलवत्तया अविद्यया कृतकर्मवशो गर्भं विशत्यसौ गर्भं चतुर्विंशतितत्त्व-मयम् एव वेत्ता रसनो द्रष्टा घ्राता स्पृशत्यसौ ।श्रोता वक्ता कर्त्ता गन्ता रन्तोत्सृजत्यपि ।दिने व्यतीते नियतं सङ्कुचत्यम्बुजं यथा ऋतौव्यतीते नार्य्यास्तु योनिः संव्रियते तथा ऋतौरजोदर्शनात् षोडशनिशात्मके काले योनिरत्र भगद्वारम् ।“वीजेऽन्तर्वायुना भिन्ने द्वौ जीवौ कुक्षिमागतौ ।यमावित्यभिधीयेते धर्मेतरपुरःसरौ धर्मस्तदितरो-ऽधर्मस्तौ पुरःसरौ ययोः तेन यमौ धर्माधर्माभ्यां भवतइत्यर्थः आधिक्ये रेतसः पुत्रः कन्या स्यादा-र्त्तवेऽधिके नपुंसकं तयोः साम्ये यथेच्छा पारमे-श्वरी नन्वेवं सति कथं पुत्रोत्पत्तिः सदैवार्त्तवस्यैववाहुल्यात् यत उक्तम् “आर्त्तवं चतुरञ्जलिप्रमाणंशुक्रं प्रसृतिमात्रमिति” वाग्मटेऽप्युक्तमात्रेयादिभिः“मज्जा मेदोवसा मूत्रपित्तश्लेष्मशकृदसृक् रसो जलंच देहेऽस्मिंस्त्वेकैकाञ्जलिवर्द्धितम् पृथक् प्रसृतंप्रोक्तमोजोमस्तिष्करेतसाम् द्वावञ्जली तु दुग्धस्यचत्वारो रजसस्तु ते समधातोरिदं मानं विद्यात्वृद्धिक्षयावतः” इति मैवं, यतो गर्भाशयस्थमेवशुक्रमार्त्तवं गर्भोत्पत्तिहेतुः शुक्रं कदाचिदत्यन्त-हर्षवशाद्दुग्धादिशुक्रलद्रव्यसेवनात् शुक्रबाहुल्यात्गर्भाशये बहु स्रवति कदाचिद्वैमनस्यादिना शुक्राल्प-त्वादल्पमिति एवमार्त्तवमपीति दोषः सुश्रुतःपुनराह “वैलक्षण्याच्छरीराणामस्यायित्वात् तथैव ।दोषधातुमलानां तु परिमाणं विद्यते” वैलक्षण्यात्दीर्घह्रस्वकृशादिभेदेन सादृश्याभावात् अस्थायित्वात्वयोहर्निशर्त्तुभुक्तेष्वेकमात्रानवस्थानात् एवं तामभि-सङ्गम्य पुनर्मासाद् भजेदसौ” मासादूर्द्धमिति शेषः अर्वा-ग्गमनेन गर्भद्वारविवट्टनात् गर्भच्युतिप्रसङ्गः स्यात् ।केचित्तु, पुनः पुष्पदर्शनेन गर्भालाभनिश्चये मासात् पूर्वंगच्छेत् लब्धगर्भां तु नोपगच्छेदिति वदन्ति तत्र परि-हार्य्यपरिहारार्थं सद्योगृहीतगर्भाया लक्षण-माह शुक्रशोणितयोर्योतेरास्रावोऽथ श्रमोद्भवः सक्थिसादः पिपासा ग्लानिः स्फूर्त्तिर्भगे भवेत् अथतस्या एवोत्तरकालीनं लक्षणमाह स्तनयोर्मुखकार्ष्ण्यंस्याद्रोमराज्युद्गमस्तथा अक्षिपक्ष्माणि चाप्यस्याःसंमील्यन्ते विशेषतः” ।“छर्दयेत् पथ्यभुक् चापि गन्धादुद्विजते शुभात् प्रसेकःसदनं चैव गर्भिण्या लिङ्गमुच्यते तत्र पुत्रगर्भवत्यालक्षणमाह पुत्रगर्भयुतायास्तु नार्य्या मासि द्विती-यके गर्भो गर्भाशये लक्ष्यः पिण्डाकारोऽपरं शृण ।पिण्डो वर्त्तुलाकृतिः मासि द्वितीयक इत्यस्य गर्भःपिण्डाकारो लक्ष्यः इत्यनेनैवान्वयो त्वग्रिमश्लोकेऽपि ।दक्षिणाक्षिमहत्त्वं स्यात् प्राक्क्षीरं दक्षिणे स्तने ।दक्षिणोरुः सुपुष्टः स्यात् प्रसन्नमुखवर्णतः पुन्नामधेयद्रव्येषु स्वप्नेष्वपि मनोरथः आम्रादिफलमाप्नोति स्व-प्नेषु कमलादि कन्यागर्भवतीगर्भः पेशी मासिद्वितीयके पुत्रगर्भस्य लिङ्गानि विपरीतानि चेक्षते ।पेशी दीर्घाकृतिः नपुंसकं यदा गर्भे भवेद्गर्भोऽर्बुदाकृतिः उन्नते भवतः पार्श्वे पुरस्तादुदरं महत् अ-र्बुदं वर्त्तुलं फलार्द्धतुल्यम् ।“अपरा अपि गर्भप्रकृतीराह यदा नार्य्यावुपे-यातां वृषस्यन्त्यौ कथञ्चन मुञ्चन्त्यौ शुक्रमन्योन्यमनस्थिस्तत्र जायते अनस्थिः अत्रेषदर्थे नञ् तेनाल्पकोमलास्थिरित्यर्थः ऋतुस्नाता तु या नारी स्वप्ने मैथुनमाचरेत् आर्त्तवं वायुरादाय कुक्षौ गर्भं करोतिहि मासि मासि प्रवर्द्धेत गर्भो गर्भलक्षणः ।कललं जायते तस्य वर्जितं पैतृकैर्गुणैः गर्भलक्षणःप्रकृतगर्भलक्षणः पैतृकैर्गुणेः केशश्मश्रुलोमनख-दन्तशिरास्नायुधमनीरेतःप्रभृतिभिः सर्पवृश्चिककुस्माण्डा-कृतयो विकृताश्च ये गर्भास्ते योपितस्ताश्च ज्ञेयाःपापकृतो भृशम् गर्भो वातप्रकोपेण दोहदे चापमानिते ।भवेत् कुब्जः कुणिः पङ्गुर्मूकोमिन्मिन एव पुत्राणा-माहारचारचेष्टाभेदस्य हेतुमाह आहाराचारचेष्टाभि-र्य्यादृशीभिः समन्वितौ स्त्रीपुंसौ समुपेयातां तयोःपुत्रोऽपि तादृशः समुपेयातां संयोगं गच्छेताम् ।अथ गर्भलक्षणमाह गर्भाशयगतं शुक्रमार्त्तवं जीव-संज्ञकम् प्रकृतिः सविकारा तत्सर्वं गर्भसंज्ञितम् ।कालेन वर्द्धितो गर्भो यद्यङ्गोपाङ्गसंयुतः भवेत्तदा समुनिभिः शरीरीति निगद्यते अङ्गोपाङ्गसंयुतः व्य-क्ताङ्गोपाङः तस्य त्वङ्गान्युपाङ्गानि ज्ञात्वा सुश्रुत-शास्त्रतः मस्तकादभिधीयन्ते शिष्याः शृणुत यत्नतः ।आद्यमङ्गं शिरः प्रोक्तं तदुपाङ्गानि कुन्तलाः तस्यान्त-र्मस्तु लुङ्गं ललाटं भ्रूयुगन्तथा नेत्रद्वयं तयो-रन्तर्वर्त्तेते द्वे कनीनिके दृष्टिद्वयं कृष्णगोलौ श्वेतभागौच वर्त्मनी पक्ष्माण्यपाङ्गौ शङ्खौ कर्णौ तच्छष्कुली-द्वथम् पालिद्वयं कपोलौ नासिका प्रकीर्त्तिता ।ओष्ठाधरौ सृक्किण्यौ मुखं तालुहनुद्वयम् दन्ताश्चदन्तवेष्टश्च रसना चिवुकङ्गलः द्वितीयमङ्गं ग्रीवा तुयन्या मूर्द्धा विधार्य्यते तृतीथं बाहुयुगलं तदुपाङ्गा-न्यथ ब्रुवे तत्रोपरिगतौ स्कन्धौ प्रगण्डौ भवतस्त्वधः ।कफोणियुगं तदधः प्रकोष्ठयुगलन्तथा मणिबन्धौतले हस्तौ तयोश्चाङ्गुलयो दश नखाश्च दश ते स्थाप्यादश च्छेद्याः प्रकीर्त्तिताः चतुर्थमङ्गं वक्षस्तु तदु-पाङ्गान्यथ ब्रुवे स्तनौ पुंसस्तथा नार्य्या विशेष उ-भयोरयम् यौवनागमने नार्य्याः पीवरौ भवतः स्तनौ ।गर्भवत्याः प्रसूतायास्तावेव क्षीरपूरितौ हृदयं पुण्ड-रीकेण सदृशं स्यादधोमुखम् जाग्रतस्तद्विकसति स्वप-तस्तु निमीलति आशयस्तत्तु जीवस्य चेतनास्थान-सुत्तमम् अतस्तस्मिंस्तमोव्याप्ते प्राणिनः प्रस्वपन्ति हि ।चेतनास्थानमुत्तममिति अयमभिप्रायः चेतनानामधिष्ठानंमनोदेहश्च सेन्द्रियः केशलोमनखाग्रं मलं द्रव्य-गुणं विना” इत्युक्तवता चरकेण सकलं शरीरं चेतना-स्थानमुक्तम् तदयेक्षया हृदयं विशेषतश्चेतनास्थान-मिति कक्षयोर्वक्षसः सन्धी जत्रुणी समुदाहृते कक्षेउभे समाख्याते तयोः स्यातां वङ्क्षणौ उदरंपञ्चमञ्चाङ्गं षष्ठं पार्श्वद्वयं मतम् सपृष्ठवंशं पृष्ठं तुसमस्तं सप्तमं स्मृतम् उपाङ्गानि कथ्यन्ते तानिजानीहि यत्नतः शोणिताज्जायते प्लीहा बामतोहृदयादधः रक्तवाहिशिराणां मूलं ख्यातो मह-र्षिभिः हृदयाद्वामतोऽधश्च फुस्फुसो रक्तफेनजः ।अथो दक्षिणतश्चापि हृदयात् यकृतः स्थितिः तत्तु-रञ्जकपित्तस्य स्थानं शोणितजं मतम् अधस्तु दक्षिणेभागे हृदयात् क्लोग तिष्ठति जलवाहिशिरामूलंतृष्णाच्छादनकृन्मतम् क्लोम तिलकम् एतत्तु वातरक्त-जम अत्र वृद्ववाग्भटः “रक्तादनिलसंयुक्तात्कालीय-कसमुद्भव इति मेदः शोणितश्रोः साराद्वुक्कयोर्युगलंभवेत् तौ तु पुष्टिकरौ प्रोक्तौ जठरस्थस्य मेदसः ।उक्ताः सार्द्धास्त्रयो व्यामाः पुंसामन्त्राणि सूरिभिः ।अर्द्धव्यामेन हीनानि योषितोऽन्त्राणि निर्द्दिशेत् उ-ण्डुकश्च कटी चापि त्रिकं बस्तिश्च वङ्क्षणौ कण्डराणांप्ररोहः स्यात् स्थानं तद् वीर्य्यमूत्रयाः एवगर्भस्याधानं कुर्य्याद्गर्भाशये स्त्रियाः शङ्खनाभ्या-कृतिर्य्योनिस्त्र्यावर्त्ता सा कीर्त्तिता यस्यास्तृतीयेत्त्वावर्त्ते गर्भशय्या प्रतिष्ठिता वृषणा मवतः सारात्-कफासृग्भ्यां मेदसाम् वीर्थ्यवाहिशिराधारौ तौमतौ पौरुषावहौ मुदम्य मानं सर्वस्य सार्द्धे स्या-च्चतुरङ्गलम् तत्र स्युर्वलयस्तिस्रः शङ्खावर्त्तनिभास्तु ताःप्रवाहिणी भवेत्पूर्वा सार्द्धाङ्गुलमिता मता उत्स-र्जनी तु तदधः सा सार्द्धाङ्गुलसम्मिता तस्याधः सञ्च-रणी स्यादेकाङ्गुलसमा मता अर्द्धाङ्गलप्रमाणं तु बुधैर्गुदमुखं मतम् मलोत्सर्गस्य मार्गोऽयं पायुर्देहेविनिर्मितः पुंसः प्रोथौ स्मृतौ यौ तु तां नितम्बौ चयोषितः तयोः ककुन्दरे स्यातां सक्थिनी त्वङ्गमष्टमम् ।तदुपाङ्गानि ब्रूमो जानुनी पिण्डिकाद्वयम् जङ्घेद्वे घण्टिके पार्ष्णी तले प्रपदे तथा पादावङ्गुलय-स्तत्र दश तासां नखा दश” अथेदं शरीरमपरेणापियेन येन समवाथिकारणेनोत्षद्यते तानि सर्वाण्याहअथ दोषाः प्रवक्ष्यन्ते धातवस्तदनन्तरम् आहारादेर्गति-स्तस्य परिणामश्च वक्ष्यते आर्त्तवं चाथ धातूनां मला-स्तदपधातवः आशयाश्च कलाश्चापि वमाण्यथ चसन्धयः शिराश्च स्नायवश्चापि धमन्यःकण्डरास्तथा ।रन्ध्राणि भूरिस्रोतांसि जालैः कूर्च्चाश्च रज्जवः सेव-न्यश्चाथ सङ्घाताः सीमन्ताश्च तथा त्वचः लोमानिलोमकूपाश्च देह एतन्मयो मतः” ।१० मेघस्य जलवर्षणयोग्यतासम्पादके निमित्तभेदे चवृ० सं० २१ अ० उक्तो यथा“दैवविदवहितचित्तो द्युनिशं यो गर्भलक्षणे भवति ।तस्य मुनेरिव वाणी भवति मिथ्याम्बुनिर्देशे किंवाऽतः परमन्यच्छास्त्रं ज्यायीऽस्ति यद्विदित्वैव प्रध्यं-सिन्यपि काले त्रिकालदर्शी कलौ भवति केचिद्वदन्तिकार्त्ति कशुक्लान्तमतीत्य गर्भदिवसाः स्यु तु तन्मतंबहूनां, गर्गादीनां गतं वक्ष्ये मार्गशिरःशुक्लपक्षप्रति-पत्प्रभृति क्षपाकरेऽषाढाम् पूर्वां बा समुपगते गर्भाणांलक्षणं ज्ञेयम् यन्नक्षत्रमुपगते गर्भश्चन्द्रे भवेत् सचन्द्रवशात् पञ्चनवते दिनशते १९५ तत्रैव प्रसवमा-याति सितपक्षभवाः कृष्णे, शुक्ले कार्ष्णाद्युसम्भवा रात्रौ ।नक्तं प्रभवाश्चाहनि सन्ध्याजाताश्च सन्ध्यायाम् मृग-शीर्षाद्या गर्भा मन्दफलाः पौषशुक्लजाताश्च पौषस्यकृष्णपक्षेण निर्दिशेच्छ्रावणस्य सितम् माघसितोत्थागर्भाः श्रावणकृष्णे प्रसूतिमायान्ति माघस्य कृष्णपक्षेणनिर्दिशेद्भाद्रपदशुक्लम् फाल्गुनशुक्लसमुत्था भाद्रपदस्या-सिते विनिर्देश्याः तस्यैव कृष्णपक्षोद्भवास्त ये तेऽश्व-युक्शुक्ले चैत्रसितपक्षजाताः कृष्णेऽश्वयुजस्य वारिदा-गर्भाः चैत्रासितसम्भूताः कार्त्तिकशुक्लेऽभिवर्षन्ति ।पूर्वोद्भूताः पश्चादपरोत्थाः प्राग्भवन्ति जीमूताः शेषा-खपि दिक्ष्वेवं विपर्ययो भवति वायोश्च ह्लादिमृदू-दक्छिवशक्रदिग्भवो मारुतो वियद्विमलम् स्निग्ध-सितबहुलपरिवेषपरिवृतौ हिममयूखार्कौ पृथुबहुल-स्निग्धघनं घनसूचीक्षुरकलोहिताभ्रयुतम् काकाण्डमेचकाभं वियद्विशुद्धेन्दुनक्षत्रम् सुरचापमन्द्रगर्जित-विद्युत्प्रतिसूर्यकाः शुभा सन्ध्या शशिशिवशक्राशास्थाःशान्तरवाः पक्षिमृगसङ्घाः विपुलाः प्रदक्षिणचराःस्निग्धमयूखा ग्रहा निरुपसर्गाः तरवश्च निरुपसृष्टा-ङ्कुरा नरचतुष्पदा हृष्टाः गर्भाणां पुष्टिकराः सर्वेषा-मेव योऽत्र तु विशेषः स्वर्तुस्वभावजनितो गर्भविवृद्धौतमभिधास्ये पौषे समार्गशीर्षे सन्ध्यारागोऽम्बुदाःसपरिवेषाः नात्यर्थं मृगशीर्षे शीतं पौषेऽतिहिम-पातः माघे प्रबलो वायुस्तुषारकलुषद्युती रविश-शाङ्कौ अतिशीतं सवनस्य भानोरस्तोदयौ धन्यौ ।फाल्गुनभासे रूक्षश्चण्डः पवनोऽभ्रसम्प्लवाः स्निग्धाः ।परियेषाश्चासकलाः कपिलस्ताम्रो रविश्च शुभः प्रवन-घनवृष्टियुक्ताश्चैत्रे गर्भाः शुभाः सपरिवेषाः घनपवन-सलिलविद्युत्स्तनितैश्च हिताय वैशाखे मुक्तारजत-निकाशास्तमालनीलोत्पलाञ्जनाभासः जलचरसत्वा-कारा गर्भेषु घनाः प्रभूतजलाः तीव्रदिवाकर-किरणाभितापिता मन्दमारुता जलदाः रुषिता इवधाराभिर्विसृजन्त्यम्भः प्रसवकाले गर्भोपघातलिङ्गा-न्युल्काशनिपांसुपातदिग्दाहाः क्षितिकम्पखपुरकी-लककेतुग्रहयुद्धनिर्वाताः रुधिरादिवृष्टिवकृतपरिघेन्द्र-धनूंषि दर्शनं राहोः इत्युत्पातैरेभिस्त्रिविधैश्चान्यैर्हतोगर्भः खर्तुस्वभावजनितैः सामान्यैर्यैश्च लक्षणैर्वृद्धिः ।गर्भाणां विपरीतैस्तैरेव विपर्ययो भवति भाद्रपदाद्वय-विश्वाम्बुदैवपैतामहेष्वथर्क्षेषु सर्वेष्वृतुषु विवृद्धो गर्भोबहुतोयदो भवति शतभिषगश्लेषार्द्राखातिमघासंयुतशुभो गर्भः पुष्णाति बहून्दिवसान् हन्त्युत्पातैर्हत-स्त्रिविधैः मृगमासादिष्वष्टौ षट् षोडश विंशतिश्चतु-र्युक्ता विंशतिरथ दिवसत्रयमेकतमर्क्षेण पञ्चभ्यः ।क्रूरग्रहसंयुक्ते करकाशनिमत्स्यवर्षदा गर्भाः शशिनिरवौ वा शुभसंयुतेक्षिते भूरिवृष्टिकराः गर्भसमयेऽति-वृष्टिर्गर्भाभावाय दुर्निमित्तकृता द्रोणाष्टांशेऽभ्यधिकेवृष्टं गर्भः स्रुतो भवति गर्भः पुष्टः प्रसवे ग्रहोप-घातादिभिर्यदि वृष्टः आत्मीयगर्भसमये करकामिश्रंददात्यम्भः काठिन्यं याति यथा चिरकालधृतं पय ।पयस्विन्याः कालातीतं तद्वत सलिलं काठिन्यमुपयाति ।पञ्चनिमित्तैः शतयोजनं तदर्धार्धमेकहान्यातः वर्षतिपञ्च समन्ताद्रूपेणैकेन यो गर्भः द्रोणः पञ्चनिमित्तेगर्भे त्रीण्याढकानि पवनेन षड् विद्युता नवाभ्रैःस्तनितैन द्वादश प्रसवे पवनसलिलविद्युद्गर्जिताभ्रा-न्वितो यः भवति वहुतोयः पञ्चरूपाभ्युपेतः विसृ-जति यदि तोयं गर्भकालेऽऽतिभूरि प्रसवसमयमित्वाशीकराम्भः करोति” ।“गर्भोऽभवत् भूधरराजपत्न्याः” कुमा० “नरपतिकुल-भूत्यै गर्भमाधत्त राज्ञी” रघुः “गर्भोजरायुणावृतउण्वणं जहाति जन्मना” यजु० १९ ७६ “यथोल्वेणा-वृतो गर्भस्तथा तेनेदमावृतम्” गीता कुक्षिश्च गर्भ-शायस्थानम् तत्र “गर्भे यदि विपत्तिः स्यात् दशाहसूतकी भवेत्” शु० त० “कुन्त्थ गर्भेण धारितः” भा० व०१३७ अ० “देहादुत्क्रमणं चास्मात् पुनर्गर्भं सम्भ-वम्” मनुः आधारे अभन् ११ गर्भारम्भकाले “गर्भा-ष्टमेऽष्टमे वावदे ब्राह्मणस्योपनायनम्” मनुः “तस्मात्गर्भान्विते युग्मे पतिसौभाग्यवर्द्धैनी” उ० त० १२ अभ्य-न्तरे “तासां सुखैरासवगन्धगर्मैः” स्वस्त्यस्तु ते निर्गलिता-म्बुगर्भं शरद्घनं नार्द्दति चातकोऽपि” “आविर्बभूवकुशगर्भमुखं मृगाणाम्” “निधानगर्भामिव सागराम्ब-राम्” रघुः “भर्त्सनाश्च मधुरस्मितगर्भाः” सा० द० “नष्टोन दृश्यते यत्र शमीगर्भे हुताशनः” भा० श० ४८ अ० ।जलोत्पादकगर्भे “अष्टमासधृतं गर्भं भास्करस्य गभ-स्तिभिः रसं सर्वं समुद्राणां द्यौः प्रसूते रसायनम्”रामा० कि० २७ अ० तस्याष्टमासधृतत्वञ्च मनुनोक्तयथा “अष्टौ मासान् यथादित्यस्तोयं हरति नित्यशः”मनुः गर्भोत्पन्ने पुत्रे “अस्यास्त्वमष्टमो गर्भो हन्ता, यां वहसेऽबुध!” भाग० १० २४ “देवक्या जठरे गर्भंशेषाख्यं धाम मामकम्” भाग० १० नाटक-सन्धिभेदश्च सा० द० उक्तो यथा “अन्तरैकार्थसम्बन्धः सन्धि-रेकान्वये सति” सन्धिं लक्षयित्वा “मुखं प्रतिमुखं गर्भोविमर्ष उपसंहृतिः इति पञ्चास्य भेदाः स्युः” इतितं पञ्चधा विभज्य “फलप्रधानोपायस्य प्रागुद्भिन्नस्य कि-ञ्चन गर्भो यत्र समुद्भेदो ह्रासान्वेषणवान् मुहुः”तल्लक्षणमुक्त्वा तस्य गर्भशब्दार्थत्वे युक्तिप्रदर्शन मुखेनउदाहृतं यथा“फलस्य गर्भीकरणाद्गर्भः यथा रत्नावल्यां द्वि-तीयेऽङ्के “सुसङ्गता सहि अदक्खिणा दानिं सि तुमं, जा एवं भट्टिणा हत्थेन गहिदावि कोबं मुञ्चसी-त्यादौ समुद्भेदः पुनर्वासवदत्ताप्रवेशे ह्रासः तृतीये-ऽङ्के “तद्वार्त्तान्वेषणाय गतः कथञ्चिरयति वसन्तकः”इत्यन्वेषणम् “विदू ही ही भो भो कोसम्बीरज्जल-म्भेणाबि तारिशो पिअबअस्सस्स परितोसो जादिसोमम सआसादो पिअवअणं सुणिअ भविस्सदि” इत्यादौउद्भेदः पुनरपि वासवदत्ताप्रत्यभिज्ञानात् ह्रासः ।पुनः सानरिकायाः सङ्केतस्थानगमने अन्व षणम् ।पुनर्लतापाशकरणे उद्भेदः ।“यत्र मुख्यश्च नोपाय उद्भिन्नोगर्भतोऽधिकः” सा० द० ।गर्भो जातोऽस्य तारका० इतच् गर्भित जातगर्भेकाव्यदोषभेदे दोषशब्दे दृश्यम् सगर्भ्यः