| YouTube Channel

गर्त्तः (garttaH)

 
शब्दकल्पद्रुमः
Sanskrit
गर्त्तः,
पुं,
(गिरति ग्रसति स्वस्मिन् पतितं जीव-जातादिकमित्यर्थः गॄ निगरणे + “हसि-मृग्रिण्वामिदमीति ।” उणां ८६ ।इति तन् ।) भुवि श्वभ्रम् गाडा इतिभाषा
तत्पर्य्यायः अवटः इत्यमरः ।१
भूरन्ध्रम् दरः श्वभ्रम् ।इति जटाधरः
आवटिः आवटुः पृथिवी-रन्ध्रम् इति शब्दरत्नावली
(यथा, मार्क-ण्डेये २१ ।“धरण्यां विवृते गर्त्ते निपपात लघुक्रमः
”)त्रिगर्त्तदेशः कुकुन्दरः इति मेदिनी ते १३
रोगभेदः इति शब्दरत्नावली
(मातृगर्भ-रूपगह्वरम् यथा, भागवते ३१ ।“शेते विण्मूर्त्तयोर्गर्त्ते जन्तुर्जन्तुसम्भवे
”कूषः यथा, तत्रैव १३ ३४ ।“यद्रोमगर्त्तेषु निलिल्युरध्वरा-स्तस्मै नमः कारणशूकराय ते
”नरकविशेषः यथा, मार्कण्डेये २१ १० ।“निपपात महागर्त्ते तिमिरौघसमावृते
”अष्टधनुःसहस्रेभ्यो न्यूनगतिदेवखातभेदः ।एतल्लक्षणं यथा, छन्दोगपरिशिष्टे ।“धनुः सहस्राण्यष्टौ गतिर्यासां विद्यते ।न ता नदीशब्दवहा गर्त्तास्ताः परिकीर्त्तिताः
”अस्योदाहरणं यथा, मनौ २०३ ।“नदीषु देवखातेषु तडागेषु सरःसु ।स्नानं समाचरेन्नित्यं गर्त्तप्रस्रवणेषु
”गीर्य्यते स्तूयते वेदस्तुतिं कुर्व्वता जनेनेति +तन् गुणश्च देवरथः यथा, ऋग्वेदे ६२ ।“आरोहथो वरुण ! मित्र ! गर्त्तमतश्चाक्षाथेअदितिं दितिं
“गर्त्तं रथम
इतिभाष्यम्
)