| YouTube Channel

गमकः (gamakaH)

 
शब्दकल्पद्रुमः
Sanskrit
गमकः
पुं,
(गमयति प्रापयति बोधयति वा मूर्च्छनादि-लक्षणैर्य आत्मानमिति गम् + णिच् + ण्वुल् ।)स्वरविशेषः यथा, सङ्गीतदामोदरे ।“गमकः स्वश्रुतिस्थानच्छायां श्रुत्यन्तराश्रयाम् ।स्वरो यो मूर्च्छ नामेति गमकः इहोच्यते
कम्पितः स्फुरितो नीलो भिन्नः स्थविर एव ।आहतान्दोलितो चेति गमकाः सप्त कीर्त्तिताः
माघपौषनिशायान्तु शेषप्रहरमात्रके ।साधकः सलिले स्थित्वा गमकान् सप्त साधयेत्
दाक्षिणात्याहरिप्रीत्यै गायन्ति गमकानिमान्
”(गमयति बोघयतीति गम् + णिच् + ण्वुल् ।बोधकमात्रे त्रि यथा, मालतीमाधवे ।“यत् प्रौढत्वमुदारता वचसां यच्चार्थतो गौरवंतच्चेदस्ति ततस्तदेव गमकं पाण्डित्य वैदग्ध्ययोः
”)