| YouTube Channel

गन्धकः (gandhakaH)

 
Apte
English
गन्धकः [gandhakḥ], Sulphur.
Comp.
-पेषिका
a.
female servant who grinds or prepares perfumes.
Apte Hindi
Hindi
गन्धकः
पुं*
- गन्ध - कन्
गंधक
Wordnet
Sanskrit
Synonyms:
तीक्ष्णगन्धकः, शोभाञ्जनः, शिग्रुः, तीक्ष्णगन्धकः, अक्षीवः, तीक्ष्णगन्धः, सुतीक्ष्णः, घनपल्लवः, श्वेतमरिचः, तीक्ष्णः, गन्धः, गन्धकः, काक्षीवकः, स्त्रीचित्तहारी, द्रविणनाशनः, कृष्णगन्धा, मूलकपर्णी, नीलशिग्रुः, जनप्रियः, मुखमोदः, चक्षुष्यः, रुचिराञ्जनः
noun
सः वृक्षः यस्य दीर्घबीजगुप्तिः शाकार्थे उपयुज्यते।
"श्यामः तीक्ष्णगन्धकस्य बीजगुप्तिम् उञ्छति।"
Synonyms:
गन्धकः, गन्धिकः, गन्धपाषाणः, पामाघ्नः, गन्धमोदनः, पूतिगन्धः, अतिगन्धः, वरः, गन्धमोदनम्, सुगन्धः, दिव्यगन्धः, रसगन्धकः, कुष्ठारि, शुल्वारिः, पानारिः, स्वर्णरिः, धातुवैरी, शुकपुच्छः, गन्धपाषाणः, क्रूरगन्धः, कीटघ्नः, शरभूमिजः, गन्धी
noun
रासायनिकधातुविशेषः, यस्य गन्धः अतीव उग्रः अस्ति तथा आयुर्वेदे अस्य अतिवह्निकारित्वं विषकुष्ठकण्डूतिस्वजुत्वगदोषनाशित्वादयः गुणाः प्रोक्ताः।
"प्रयोगशालायां वैज्ञानिकाः गन्धकस्य सम्बन्धिताः प्रयोगाः कुर्वन्ति। / चतुर्धा गन्धकः प्रोक्तो रक्तः पीतः सितः असितः।"
अमरकोशः
Sanskrit
Word: गन्धकः
Root: गन्धकः
Gender: undefined
Number: undefined
Meaning(s):
perfumes
having the smell of
drumstick tree [Hyperanthera Moringa - Bot.]
Shloka(s):
2|9|102|1 रसगर्भं तार्क्ष्यशैलं गन्धाश्मनि तु गन्धिकः। (वैश्यवर्गः)
2|9|102|2 सौगन्धिकश्च चक्षुष्याकुलाल्यौ तु कुलत्थिका॥ (वैश्यवर्गः)
Synonym(s):
2|9|102|1 गन्धाश्मन् (गन्धाश्मन्) (पुं)
2|9|102|1 गन्धक: (गन्धक) (पुं) perfumes, having the smell of, drumstick tree [Hyperanthera Moringa - Bot.]
2|9|102|2 सौगन्धिकः (सौगन्धिक) (पुं) sulphur, fragrant, sweet-scented, sexually weak man, dealer in perfumes, balmy [nice-smelling], balsamic [nice-smelling], balsamous [nice-smelling], kind of worm infesting the bowels
Related word(s):
परा_अपरासंबन्धः तुत्थाञ्जनम्
जातिः मूलकम्
शब्दकल्पद्रुमः
Sanskrit
गन्धकः,
पुं,
(उग्रो गन्धोऽस्यास्तीति “अर्श आदि-भ्योऽच् ।” १२७ इत्यच् ततः स्वार्थे कन् ।)शोभाञ्जनवृक्षः इति शब्दरत्नावली
उपधातु-विशेषः तत्पर्य्यायः गन्धाश्मा सौग-न्धिकः इत्यमरः १०२
गन्धिकः ४सुगन्धिकः इति तट्टीका
गन्धपाषाणः ६पामाघ्नः इति रत्नमाला
गन्धमोदनः ८पूतिगन्धः अतिगन्धः १० वरः ११ सुगन्धः १२दिव्यगन्धः १३ गन्धः १४ रसगन्धकः १५कुष्ठारिः १६ क्रूरगन्धः १७ कीटघ्नः १८ शर-भूमिजः १९ गन्धी २० इति शब्दरत्नावली
अस्य गुणाः कटुत्वम् उष्णत्वम् तीव्र-गन्धत्वम् अतिवह्निकारित्वम् विषकुष्ठकण्डूति-खजुत्वगदोषनाशित्वश्च इति राजनिर्घण्टः
कृमिप्लीहनेत्ररोगनाशित्वम् इति राजवल्लभः
तस्य भेदाः ।“श्वेतो रक्तश्च पीतश्च नीलश्चति चतुर्व्विधः ।गन्धको वर्णतो ज्ञेयो भिन्नभिन्नगुणाश्रयः
श्वेतः कुष्ठापहारी स्याद्रक्तो लोहप्रयोगकृत् ।पीतो रसे प्रयोगार्हो नीलो वर्णान्तरोचितः
”इति राजनिर्घण्टः
*
अथ गन्धकस्योत्पत्तिनामलक्षणगुणाः ।“श्वेतद्वीपे पुरा देव्याः क्रीडन्त्या रजसाप्लुतम् ।दुकूलं तेन वस्त्रेण स्नातायाः क्षीरनीरधौ ।प्रसृतं यद्रजस्तस्माद्गन्धकः समजायत
गन्धको गन्धिकश्चापि गन्धपाषाण इत्यपि ।सौगन्धिकश्च कथितो वलिर्वलबसापि
चतुर्द्धा गन्धकः प्रोक्तो रक्तः पीतः सितोऽसितः ।रक्तो हेमक्रियासूक्तः पीतश्चैव रसायने ।व्रणविलेपने श्वेतः कृष्णः श्रेष्ठः सुदुर्ल्लभः
”श्रेष्ठो हेमक्रियादिषु सर्व्वत्र प्रशस्ततरः
*
“गन्धकः कटुकस्तिक्तो वीर्य्योष्णस्तुवरः सरः ।पित्तलः कटुकः पाके कण्डू वीसर्पजन्तुजित्
हन्ति कुष्ठक्षयप्लीहकफवातान् रसायनः ।अशोधितो गन्धक एष कुष्ठंकरोति तापं विषमं शरीरे ।सौख्यञ्च रूपञ्च बलं तथौजःशुक्रं निहन्त्येव करोति चास्रम्
*
तस्य शोधनविधिर्यथा, --“लोहपात्रे विनिःक्षिप्य घृतमग्नौ प्रतापयेत् ।तप्ते घृते तत् समानं क्षिपेद्गन्धकजं रजः
विद्रुतं गन्धकं दृष्ट्वा तनुवस्त्रे विनिःक्षिपेत् ।यथा वस्त्राद्विनिःसृत्य दुग्धमध्येऽखिलं क्षिपेत्
एवं गन्धकः शुद्ध्व्येत् सर्व्वकर्म्मोचितो भवेत्
”इति भावप्रकाशः
“शोधितो यस्तु गन्धः स्यात् जरामृत्युरुजापहः ।अग्निसन्दीपनः श्रेष्ठो वीर्य्यवृद्धिकरोऽस्थिकृत्
”इति प्रयोगामृतम्