गण्डमाला (gaNDamAlA)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
शब्दसागरः
EnglishHelp us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
Wilson
EnglishApte Hindi
Hindiगण्डमाला
गण्ड-माला -
कंठमाला रोग
Shabdartha Kaustubha
Kannadaगण्डमाला
पदविभागः - > स्त्रीलिङ्गः
कन्नडार्थः - > ಕತ್ತಿನಲ್ಲಿ ರಸಗ್ರಂಥಿಯು ಕಟ್ಟುವುದರಿಂದ ಆಗುವ ಉರಿತದ ಬೇನೆ /ಗಂಡಮಾಲೆಯೆಂಬ ಒಂದು ರೋಗ
शब्दकल्पद्रुमः
Sanskritगण्डमाला, (गण्डानां ग्रीवाजातस्फोट-विशेषाणां माला समूहोऽस्याम् ।) गलरोग-विशेषः । तत्पर्य्यायः । गलगण्डः २ । इतिहेमचन्द्रः । ३ । १३१ ॥
तस्यौषधं यथा, --“अजमोदः ससिन्दूरो हरितालनिशाद्बयम् ।क्षारद्वयं फेनयुतमार्द्रकं शरलोद्भवम् ॥
इन्द्रवारुण्यपामार्गकदलैः कन्दलैः समैः ।एभिः सर्षपजं तैलमजामूत्रैश्च योजितम् ॥
मृद्वग्निना पचेदेतदर्कक्षीरेण संयुतम् ।अजमोदादिकं तैलं गण्डमालां व्यपोहति ॥
विदग्धस्तु पचेत् पक्वं पक्वञ्चैव विशोधयेत् ।रोपणं मृदुभावञ्च तैलेनानेन कारयेत् ॥
अजमोदादिकं तैलं महावीर्य्यञ्च रोगनुत् ॥
”इति गारुडे १७८ अध्यायः ॥
अपि च । तत्रैव १९० अध्याये ।“द्विजयष्ट्याश्च वै मूलं पिष्ट्वं तण्डुलवारिणा ।गण्डमालां हरेल्लेपात् कुरुण्डगलगण्डकम् ॥
”अपि च । तत्रैव १९४ अध्याये ।“अपराजिताया मूलञ्च गोमूत्रेण समन्वितम् ।पीतञ्चापि हरत्येव गण्डमालां न संशयः ॥
”अपि च ।“बिल्वाग्निमन्थश्योनाकपाटलापारिभद्रकम् ।प्रशारण्यश्वगन्धा च बृहती कण्टकारिका ॥
बला चातिबला रास्ना प्रदंष्ट्रा च पुनर्नवा ।एरण्डशारिवा पर्णी गुडूची कपिकच्छुरा ॥
एषां दशपलिकान् भागान् क्वाथयेत् सलिले-ऽमले ।तेन पादावशेषेण तैलं पात्रे विपाचयेत् ॥
आजं वा यदि वा गव्यं क्षीरं दत्त्वा चतुर्गुणम् ।शतावरीरसञ्चैव तैलतुल्यं प्रदापयेत् ॥
द्रव्याणि यानि पेव्याणि तानि वक्ष्यामि तत् शृणु ।शतपुष्पा देवदारु शालपर्णी वचागुरु ॥
कुष्ठं मांसी सैन्धवञ्च पलमेकं पुनर्नवा ।पाने नस्ये तथाभ्यङ्गे तैलमेतत् प्रदापयेत् ॥
हृच्छूलं पार्श्वशूलञ्च गण्डमालाञ्च नाशयेत् ।अपस्मारं वातरक्तमायुष्मांश्च पुमान् भवेत् ॥
गर्भमश्वतरी विन्द्यात् किं पुनर्मानुषी शिव ! ।अश्वानां वातभग्नानां कुञ्जराणां नृणां तथा ॥
तैलमेतत् प्रदातव्यं सर्व्ववातविकारिणाम् ॥
”इति गारुडे १९८ अध्यायः ॥
* ॥
अन्यच्च ।अथ गण्डमालाया लक्षणमाह ।“कर्कन्धुकोलामलकप्रमाणैःकक्षांसमत्या गलवंक्षणेषु ।मेदःकफाभ्यां चिरमन्दपाकैःस्याद्गण्डमाला बहुभिस्तु गण्डैः ॥
”कर्कन्धुः क्षुद्रवदरी । कोलं बृहद्बदरम् । चिर-मन्दपाकैः चिरेण मन्दोऽल्पः पाको येषां तैः ॥
* ॥
अथ गण्डमालाया एवावस्थाविशेषमपचीमाह ।“ते ग्रन्थयः केचिदवाप्तपाकाःस्रवन्ति नश्यन्ति भवन्ति चान्ये ।कालानुबन्धं चिरमादधातिसैवापचीति यवदन्ति केचित् ॥
”ते ग्रन्थयः गण्डमालाया एवं गण्डाः केचिद-वाप्तपाकाः सन्तः स्रवन्ति केचित् नश्यन्ति अन्येभवन्ति च । कालानुबन्धाच्चिरमादधाति यागण्डमाला चिरं तिष्ठति सैवापची इतिकेचिद्वदन्ति ॥
* ॥
अपच्याः साध्यत्वादिकमाह ।“साध्या स्मृता पीनसपार्श्वशूल-काशज्वरच्छर्द्दियुता त्वसाध्या ॥
” * ॥
अथ ग्रन्थिः । ग्रन्थेर्लक्षणमाह ।“वातादयो मांसमसृक् च दुष्टासंदूष्य मेदश्च तथा शिराश्च ।वृत्तोन्नतं विग्रथितन्तु शोथंकुर्व्वन्त्यतो ग्रन्थिरिति प्रदिष्टः ॥
”विग्रथितं ग्रन्थिरूपम् । अतो ग्रन्थिः ॥
* ॥
अस्या निदानादिपूर्व्वलिखितम् । अथ गण्ड-मालायाश्चिकित्सा ।“काञ्चनारत्वचः क्वाथः शुण्ठीचूर्णेन संयुतः ।माक्षिकाढ्यः सकृत्पीतः क्वाथो वरुणमूलजः ॥
गण्डमालां हरत्याशु चिरकालानुबन्धिनीम् ।पलमद्धपलं वापि पिष्ट्वा तण्डुलवारिणा ॥
काञ्चनारत्वचं पीत्वा गण्डमालां व्यपोहति ।काञ्चनारस्य गृह्णीयात् त्वचं पञ्चपलीन्मितम् ॥
नागरस्य कणायाश्च मरीचस्य पलं पलम् ।पथ्याविभीतधात्रीणां पलमर्द्धं पृथक् पृथक् ॥
वरुणस्याक्षमेकञ्च पत्रकैलात्वचं पुनः ।टङ्कं टङ्कं समादाय सर्व्वाण्येकत्र चूर्णयेत् ॥
यावच्चूर्णमिदं सर्व्वं तावानेवात्र गुग्गुलुः ॥
सङ्कुट्य सर्व्वमेकत्र पिण्डं कृत्वा विधारयेत् ।गुटिकाः शाणिकाः कृत्वा प्रभाते भक्षयेन्नरः ॥
गण्डमालां जयत्युग्रामपचीमर्व्वुदानि च ।ग्रन्थ्यर्व्वुदानि गुल्मांश्च कुष्ठानि च भगन्दरम् ॥
प्रदेयश्चानुपानार्थं क्वाथो मुण्डितिकाभवः ।क्वाथः खदिरसारस्य क्वाथः कोष्णोऽभयाभवः ॥
”इति काञ्चनारगुग्गुलुः ॥
* ॥
“चक्रमर्द्दकमूलस्य कल्कं दत्त्वा विपाचयेत् ।केशराजरसे तैलं कटुकं मृदुनाग्निना ॥
पादशेषे विनिःक्षिप्य सिन्दूरमवतारयेत् ।एततैलं निहन्त्याशु गण्डमालां सुदारुणाम् ॥
”इति चक्रमर्द्दतैलम् ॥
* ॥
“गुञ्जामूलफलैस्तैलं विपक्वं द्बिगुणाम्भसा ।हरेदभ्यङ्गनस्याभ्यां गण्डमालां सुदारुणाम् ॥
”इति गुञ्जतैलम् ॥
* ॥
अथापच्याश्चिकित्सा ।“चन्दनं साभया लाक्षा वचा कटुकरोहिणी ।एभिस्तैलं शृतं पीतं समूलामपचीं हरेत् ॥
”इति चन्दनादितैलम् ॥
* ॥
“व्योषं विडङ्गं मधुकं सैन्धवं देवदारु च ।तैलमेभिः शृतं नस्यात् सकृच्छ्रामपचीं हरेत् ॥
”व्योषादितैलम् ॥
* ॥
अथ ग्रन्थिचिकित्सा ।“सर्ज्जिकामूलकक्षारशङ्खचूर्णसमन्वितम् ।एतेन सहितो लेपो हन्ति ग्रन्थिं तथार्व्वुदम् ॥
ग्रन्थिर्न यो नश्यति भेषजेननिष्काश्य तं शस्त्रचिकित्सकेन ।जात्यादिपक्वेन घृतेन वैद्योव्रणेन चान्येन च संचिकित्सेत् ॥
ग्रन्थिमुत्कृत्य पश्चात्तु व्रणोक्तं क्रममाचरेत् ।शिराग्रन्थिं व्रिहायान्ये शेषे शस्त्रं प्रयुज्यते ॥
”इति भावप्रकाशः ॥
(यथास्याः सकारणलक्षणचिकित्सितानि ।“दुष्टाम्बुपानसकदन्ननिषेवणाच्चसञ्जायते च क्रिमिसम्भवगण्डमाला ।सा मारुतेन कफपित्तभवे विकारेसंसर्पते क्रिमिजदोषगणश्च गण्डात् ॥
वातेन वातसदृशानि च लक्षणानिपित्तेनु दाहसरुजव्रणशोषतापाः ।सा श्लेष्मणा च घनशीतलसम्प्रयोगात्स्यात् सन्निपातविहिता च समस्तलिङ्गैः ॥
तस्य चेमं प्रतीकारं वक्ष्यामि शृणु पुत्त्रक ! ।रोहिणी विशदा चैव विजया च विभेदिनी ॥
कान्तारी वज्रपुष्पा च तथा चेन्द्रायुधा परा ।इति सप्तविधा लूताः शृणु पश्चात् पृथक् पृथक् ॥
रक्तमुण्डा भवेद्रक्ता रक्तस्थाने च रोहिणी ।विशदा मांसल त्थाने श्वेतवर्णा च दीर्घिका ॥
विजया च शिरो मध्ये पीतवर्णा यवप्रभा ।भेदिनी मेदसः स्थाने श्वेता च नीलरेखिका ॥
कान्तारी च वस्तिमध्ये श्वेताङ्गा रक्तमुण्डिका ।बज्रपुष्पा चास्थिमध्ये श्वेताकृष्णा शिरा मता ॥
बज्रायुधा शिरान्ते च धूम्रा कृष्णा शिरा मता ।रोहिण्यङ्गुलिमात्रेण मूत्रेण विशदा समा ॥
विजया च यवाकारा वर्त्तुला विजया तथा ।अन्या नणाञ्च विज्ञेया तण्डुली कण्टकानिभा ॥
रोहिणी विजया विंशा मांसस्थानसमाश्रिता ।गुल्फे वा चास्थिसन्धौ च दृश्यते भेदिनी नरे ॥
कुक्षौ कर्णान्तरेऽपाङ्गे कान्तारी विद्धि पुत्त्रक ! ।वज्रपुष्पा शिरसि च शिरान्तार्त्तिप्रदा मता ॥
अतो वक्ष्यामि भैषज्यं शृणु पुत्त्र ! प्रयत्नतः ।सान्द्रपूयविस्रावञ्च गण्डीरञ्च व्रणं विदुः ॥
अन्यञ्च सरुजञ्चैव पक्वजम्बूसमप्रभम् ।लूताव्रणानाञ्चैतानि अपक्वं यदि दृश्यते ॥
त्यक्त्वा सन्धिस्थमर्म्मस्थां लूताञ्चैव हि तद्व्रणम् ।तदा तप्तेन तैलेन दाहश्चाशु विधीयते ॥
अङ्कोलश्चैवमद्यानि पारिभद्रदलानि च ।गृहधूमं कृष्णजीरं गोमूत्रेण तु पेषितम् ॥
लेपनञ्च प्रशस्तञ्च लूतानां मारणे परम् ।पिण्डीतकं विडङ्गानि तथा चेङ्गुदिमूलकम् ॥
बीजपूरकमूलानि पेषितानि विलेपयेत् ।गण्डमालां तथा घोरां हन्ति शीघ्रं प्रकण्टकाम् ।स्नुहीक्षीरञ्चार्कक्षीरं लूतारन्ध्रे नियोजयेत् ॥
तेन कीटस्तु तन्मध्ये म्रियते नात्र संशयः ।आस्यतो गिरिकर्णीञ्च चन्दनञ्च समांशकम् ॥
पिष्ट्वा लेपः प्रयोक्तव्यो लूतां हन्ति सुदारुणाम् ।करवीरञ्चार्कदुग्धं तथा च कटुतुम्बिकाम् ॥
निशाद्वयं जाङ्गलिकां तिलतैले विपाचयेत् ।लूतामभ्यञ्जने हन्ति गण्डमालाञ्च दारुणाम् ॥
घृतं जात्यादिकं नाम तथा चात्र प्रयोजयेत् ।अन्यान्यपि व्रणे यानि प्रोक्तानि च यथाविधि ॥
”इति महर्ष्यात्रेयभाषिते हारीतोत्तरे तृतीय-स्थाने लूतागण्डमालाचिकित्सा नाम सप्तत्रिंशो-ऽध्यायः ॥
“गलस्य पार्श्वे गलगण्ड एकःस्याद्गण्डमाला बहुभिस्तु गण्डैः ।साध्याः स्मृताः पीनसपार्श्वशूल-कासज्वरच्छर्द्दियुतास्त्वसाध्याः ॥
तेषां सिरा-काय-शिरो-विरेकोधूमः पुराणस्य घृतस्य पानम् ॥
”इति चरके चिकित्सास्थाने सप्तदशेऽध्याये ॥
)
वाचस्पत्यम्
Sanskritगण्डमाला स्त्री ६ त० । १ रोगभेदे । तल्लक्षणभेदाद्युक्तंभावप्र० यथा“कर्क्कन्धुकोलामलकप्रमाणैः कक्षांसमन्यागलवङ्क्षणेषु । मेदःकफाभ्यां चिरमन्दपाकैः स्याद्गण्ड-माला वहुभिस्तु गण्डैः ।” “गण्डमालाया एका-वस्थाविशेषमपचीमाह “ते ग्रन्थयः केचिदवाप्तपाकाःस्रवन्ति नश्यन्ति भवन्ति चान्ये । कालानुबन्धं चिरमादधाति सैवापचीति प्रवदन्ति केचित् । ते ग्रन्थयःगण्डमालाया एव गण्डाः केचिदवाप्तपाकाः सन्तःस्रवन्ति, केचित् नश्यन्ति पुनः प्ररोहन्ति । अन्ये भवन्तिच । कालानुबन्धाच्चिरमादधाति या गण्डमाला चिरंतिष्ठति सैवापची इति केचिद्वदन्ति । अपच्याः साध्यत्वादिकमाह । साध्या स्मृता पीनसपार्श्वशूलकास-ज्वरच्छर्द्दियुता त्वसाध्या । ग्रन्थेर्लक्षणमाह । वा-तादयो मांसमसृक् च दुष्टे संदूष्य मेदश्च तथा शि-राश्च । वृत्तोन्नत विग्रथितं तु शोथं कुर्व्वन्त्यतोग्रन्थिरिति प्रदिष्टः । विग्रथितं ग्रन्थिरूपम्” ।गण्डमालाऽस्त्यस्य इनि । गण्डमालिन् तद्रोगवति ।तस्य श्राद्धे वर्ज्यतामाह मनुः “भ्रामरी गण्ड-माली च श्वित्र्यथो पिशुनस्तथा” ।
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
